Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 136
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 6 — Nirvāṇa (Uttarārdha)
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
Keep
अथाहं तं महादेवं पावकं पृष्टवानिदम् ।
शुकपक्षतिकोणस्थः भूयतामवनीश्वर
2
Keep
भगवन्सर्वयज्ञेश स्वाहाधिप हुताशन ।
किमिदं नाम संपन्नं कथ्यतां किमिदं शवम्
3
Keep
वह्निरुवाच ।
श्रूयतामखिलं राजन्यथावद्वर्णयामि ते ।
त्रैलोक्यभासुरानन्तशववृत्तान्तमक्षतम्
4
Keep
अस्त्यनन्तमनाकारं परमं व्योम चिन्मयम् ।
यत्रेमान्यपसंख्यानि जगन्ति परमाणवः
5
Keep
शुद्धचिन्मात्रनभसि तस्मिन्सर्वगते क्वचित् ।
सर्वात्मन्युदभूत्संवित्संवेदनमयी स्वयम्
6
Keep
सा तेजःपरमाणुत्वमपश्यद्वेदनावशात् ।
भावितार्थात्मकतया स्वप्ने त्वमिव पान्थताम्
7
Keep
परमाणुरसंवित्त्वादपश्यदणुतां स्वयम् ।
भास्वतीं पद्मजरजस्तुल्यां संकल्पनात्मिकाम्
8
Keep
सोच्छूनतां भावयन्ती पुनरप्यभवत्स्वयम् ।
चक्षुरादीनीन्द्रियाणि वपुष्यन्वभवत्स्वतः
9
Keep
अपश्यदग्रे च जगच्चक्षुरादि स्वभावतः ।
आधाराधेयवद्भूतमयं स्वप्नपुरं यथा
10
Keep
असुरो नाम तत्रासीत्प्राणी मानी बभूव ह ।
असत्यप्रतिभासात्म पितृमातृपितामहः
11
Keep
दर्पोत्सिक्ततया तत्र कस्यचित्स महामुनेः ।
यदा मृदितवानासीदाश्रमं शर्मभाजनम्
12
Keep
मुनिः शापमदात्तस्य महाकारतयाश्रमः ।
त्वया यन्नाशितो मृत्वा भव त्वं मशकोऽधमः
13
Keep
स तच्छापहुताशोऽथ तस्मिन्नेव तदा क्षणे ।
असुरं भस्मसाच्चक्रे जलमौर्व इवानलः
14
Keep
निराकारं निराधारमाकाशवलयोपमम् ।
चित्तं किंचिदिवाचेत्यमासीच्चेतनमासुरम्
15
Keep
तदेकत्वं ययौ साम्याद्भूताकाशेन चेतनम् ।
तदास्पदेन तत्राथ वायुना चैकतां ययौ
16
Keep
आसीच्चेतनवातात्माऽभविष्यत्प्राणिनामकः ।
रजसा पयसा व्याप्तस्तेजसा नभसाणुना
17
Keep
स पञ्चतन्मात्रमयश्चिन्मात्रलवकोऽणुकः ।
स्पन्दमाप स्वभावेन व्योम्नि वातलवो यथा
18
Keep
अथ तस्यानिलान्तस्थं चेतनं तद्व्यबुध्यत ।
कालानिलजलैर्भूमौ बीजमङ्कुरकृद्यथा
19
Keep
शुद्धशापविदन्तस्था मशकत्वविदास्य चित् ।
वेधिता मशकाङ्गानि विदित्वा मशकोऽभवत्
20
Keep
स्वेदजस्याल्पदेहस्य निःश्वासनिपतत्तनोः ।
द्वे तस्य मशकस्येह दिने भवति जीवितम्
21
Keep
प्राणिनामिह सर्वेषां योन्यन्तरज एव किम् ।
समुद्भवः संभवति किमुतान्योऽपि वा प्रभो
22
Keep
ब्रह्मादीनां तृणान्तानां द्विधा भवति संभवः ।
एको ब्रह्ममयोऽन्यस्तु भ्रान्तिजस्ताविमौ श्रृणु
23
Keep
पूर्वरूढजगद्भ्रान्तिभूततन्मात्ररञ्जनात् ।
भूतानां संभवः प्रोक्तो भ्रान्तिजो दृश्यसङ्गतः
24
Keep
अभातायां जगद्भ्रान्तौ भूतभावः स्वयं भवन् ।
यः स ब्रह्ममयः प्रोक्तः संभवो न स योनिजः
25
Keep
एवं स्थिते स मशको जगद्भ्रान्तिवशोत्थितः ।
न तु ब्रह्मोत्थितस्तस्य राम चेष्टाक्रमं श्रृणु
26
Keep
क्षमेक्षुशष्पकक्षादिपुञ्जगुञ्जेषु गुञ्जता ।
स्वायुषोऽर्धं दिनं तेन सर्वं भुक्तं विवल्गता
27
Keep
शाद्वलोदरदोलायां दोलनं बाललीलया ।
चिरमारब्धमेतेन सार्धं मशिकया स्वयम्
28
Keep
दोलाश्रमार्तस्तत्रासौ यावद्विश्राम्यति क्वचित् ।
तावद्धरिणपादाग्रगिरिपातेन चूर्णितः
29
Keep
हरिणाननसंदर्शत्यक्तप्राणतया तया ।
पूर्वक्रमगृहीताक्षः स जातो हरिणस्ततः
30
Keep
विहरन्हरिणोऽरण्ये व्याधेन धनुषा हतः ।
व्याधाननगदृष्टित्वात्संजातो व्याध एव सः
31
Keep
व्याधो वनेषु विहरन्संयातो मुनिकाननम् ।
तत्र विश्रान्तवान्सङ्गान्मुनिना प्रतिबोधितः
32
Keep
भ्रान्तः किमिदमादीर्घदुःखाय धनुषा मृगान् ।
हंसि पासि न कस्मात्त्वं तन्त्रं जगति भङ्गुरे
33
Keep
आयुर्वायुविघट्टिताभ्रपटलीलम्बाम्बुवद्भङ्गुरं
भोगा मेघवितानमध्यविलसत्सौदामनीचञ्चलाः ।
लोला यौवनलालना जलरयः कायः क्षणापायवा-
न्पुत्र त्रासमुपेत्य संसृतिवशान्निर्वाणमन्विष्यतां
Previous
←
Sarga 135
Next
Sarga 137
→