Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 137
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 6 — Nirvāṇa (Uttarārdha)
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
Keep
एवं चेत्तन्मुने ब्रूहि कीदृग्दुःखपरिक्षये ।
न कर्कशो न च मृदुर्व्यवहारक्रमो भवेत्
2
Keep
मुनिरुवाच ।
इदानीमेव संत्यज्य धनुषा सह सायकान् ।
मौनमाचारमाश्रित्य शान्तदुःखमिहोष्यताम्
3
Keep
इति संबोधितस्तेन परित्यज्य धनुःशरान् ।
आसीन्मुनिसमाचारस्तत्रैवायाचिताशनः
4
Keep
विवेश मनसा मौनी ततः शास्त्रविवेकिताम् ।
दिनैरेव यथा पुष्पमामोदेन नराशयम्
5
Keep
अपृच्छन्मुनिशार्दूलं कदाचित्तमरिन्दम ।
भगवन्दृश्यते स्वप्नः कथमन्तर्बहिः स्थितः
6
Keep
मुनिरुवाच । ।
ममापि साधो प्रथममेष एव विवेकिनः । ।
पुरा चित्ते वितर्कोऽभूत्कुतोऽप्यभ्रमिवाम्बरे
7
Keep
तत एतद्दिदृक्षार्थमहमभ्यस्तधारणः ।
बद्धपद्मासनस्तस्यां संविद्येवाभवं स्थिरः
8
Keep
तत्रस्थो दूरविक्षिप्तं तयैवाहृतवानहम् ।
चेतः स्वहृदयं सायं रुचेव रविरातपम्
9
Keep
वेदनेरणया प्राणस्ततश्चित्तान्वितो मया ।
शरीराद्रेचितो बाह्ये सौरभं कुसुमादिव
10
Keep
व्योमस्थचित्तवलितः स प्राणपवनो मया ।
अग्रस्थस्य मुखाग्रस्थे जन्तोः प्राणे नियोजितः
11
Keep
यः प्राणवलितः प्राणस्तेन नीतो हृदन्तरम् ।
स्वेहया स्वं स्वकः सर्पः करभेणेव हिंसितः
12
Keep
ततोऽहं हृदयं तस्य प्रविष्टः प्राणवाजिना ।
संकटस्थः स्वया बुद्ध्या तावेबानुसरोन्तरम्
13
Keep
चरद्रसाभिर्बह्वीभिर्नाडीभिरभितो वृतम् ।
कुल्याभिः स्थूलतन्वीभिर्बाह्यदेशमिवाखिलम्
14
Keep
पर्शुकापञ्जरप्लीहयकृद्रक्तादिडिम्बकैः ।
संकटं जीवसदनं भाण्डोपस्करणैरिव
15
Keep
सर्वैः शलशलायद्भिरुष्णैरवयवैर्वृतम् ।
निदाघतापसंतप्तैरूर्मिजालैरिवार्णवम्
16
Keep
नवं नवं बहिःशैत्यं नासाग्राच्चेतनात्मकम् ।
जीवनायानिशं चेतो वातोन्नीतमनारतम्
17
Keep
रक्तकुट्टरसश्लेष्मवसानिःस्रावपिच्छिलम् ।
घनान्धकारमुष्णं च संकटं नरकोपमम्
18
Keep
उदयावयवाश्लेषस्पष्टास्पष्टमरुद्रतैः ।
स्थित्यन्तानां तु वैषम्यादागामिगदसूचकम्
19
Keep
दरत्सरभसच्छिद्रावातवातेन शब्दितम् ।
पद्मनालप्रणालान्तर्ज्वलदर्णववाडवम्
20
Keep
मिलत्पदार्थनीरन्ध्रं सितमच्छं सवायुभिः ।
क्वचित्सौम्यं क्वचित्क्षुब्धं चोरैरिव पुरं निशि
21
Keep
रसनादपरैर्नाडीमार्गविद्याधराध्वगैः ।
संचरद्भिर्वृतं वातैराकारार्धार्धगीतिभिः
22
Keep
तदहं हृदयं जन्तोराविशं विषमान्तरम् ।
नरोऽवयवसंबाधं नरवृन्दमिवाधिकः
23
Keep
अनन्तरमहं प्राप्तस्तेजोधातुं हृदन्तरे ।
दूरस्थमिव यत्नेन रात्राविन्दुमिवार्करुक्
24
Keep
यस्मात्त्रिभुवनादर्शो दीपस्त्रैलोक्यवस्तुषु ।
सत्ता सर्वपदार्थानां जीवस्तत्रावतिष्ठते
25
Keep
काये सर्वगतो जीवः स्वामोदः कुसुमे यथा ।
तथाप्योजसि किञ्जल्कैर्मुखे शैत्यं विवस्वता
26
Keep
तज्जीवाधारमोजस्तु प्रविष्टोऽहमलक्षितम् ।
रक्षितं परितः प्राणैर्वातैः प्रच्छादनं यथा
27
Keep
ततोऽञ्जः संप्रविष्टोऽहमामोद इव मारुतम् ।
उष्णांशुरिव शीतांशुं मृत्पात्रमिव वा पयः
28
Keep
द्वितीयेन्द्वंशुसंकाशे शुक्लाभ्रलवपेलवे ।
नवनीतगुडप्रख्ये क्षीरबुद्बुदसुन्दरे
29
Keep
तत्र पश्याम्यहं तिष्ठन्प्रवेशव्यग्रयोज्झितः ।
स्वौजसीव वसन्स्वप्न इव विश्वमखण्डितम्
30
Keep
सार्कं सपर्वतं साब्धि ससुरासुरमानवम् ।
सपत्तनवनाभोगं सलोकान्तरदिङ्मुखम्
31
Keep
सद्वीपसागराम्भोधि सकालकरणक्रमम् ।
सकल्पक्षणसर्वर्तु सहस्थावरजंगमम्
32
Keep
तत्स्वप्नदर्शनं तत्र स्थिरमेव समं स्थितम् ।
वसाम्यत्येव निद्रान्ते निद्राऽन्ते नागता यतः
34
Keep
अनिद्र एव किं स्वप्नं पश्यामीति मया ततः ।
परिचिन्तयता ज्ञातमिदं व्याध विबोधिना । ।
ननु नामास्य चिद्धातोः स्वरूपमिदमैश्वरम् ।
स्वं यद्व्यपदिशत्येष जगन्नाम्नाम्बरात्मकम्
35
Keep
चिद्धातुर्यत्र यत्रास्ते तत्र तत्र निजं वपुः ।
पश्यत्येष जगद्रूपं व्योमतामेव चात्यजत्
36
Keep
अहो त्वद्येदमाज्ञातं यदित्थं दृश्यते जगत् ।
तत्कथ्यते स्वप्न इति स्वचित्कचनमात्रकम्
37
Keep
चिद्धातोर्यत्स्वकचनं तत्किंचित्स्वप्न उच्यते ।
किंचिच्च जाग्रदित्युक्तं जाग्रत्स्वप्नौ तु न द्विधा
38
Keep
स्वप्नः स्वप्नो जागरायामेष स्वप्ने तु जागरा ।
स्वप्नस्तु जागरैवेति जागरैव स्थिता द्विधा
39
Keep
चेतनं नाम पुरुषः स मृतेषु शतेष्वपि ।
शरीरेषु महाबुद्धे कथं कस्य कदा मृतः
40
Keep
तच्चेतनं खमेवास्ति स्थितं तद्देहवत्कचत् ।
अनन्तमविभागात्म प्रतिघाप्रतिघात्मकम्
41
Keep
स्वभावस्याप्रतिघस्य नित्यानन्तोदितात्मनः ।
परमाणोश्चिदाख्यस्य मज्जा जगदिति स्मृतः
42
Keep
चिद्व्योम्न उदरे भान्ति समस्तानुभवाणवः ।
तथा यथावयविनो विचित्रावयवाणवः
43
Keep
निवृत्तो बाह्यतो जीवो जीवाधारे हृदि स्थितः ।
रूपं स्वं स्वप्नसर्गोऽयमिति वेत्ति चिदाकचान्
44
Keep
बाह्योन्मुखं बहिर्जाग्रच्छब्दितं कचितं स्वकम् ।
रूपं पश्यति जीवोऽयमन्तस्थं स्वप्न इत्यपि
45
Keep
द्यौः क्षमा वायुराकाशं पर्वताः सरितो दिशः ।
प्रसृतो जीव इत्यन्तर्बहिश्चैकात्मकः स्थितः
46
Keep
अर्कोऽर्कबिम्बसंस्थोऽपि यथेहापि स्थितस्त्विषा ।
तथा जीवो जगद्रूपो बहिरन्तश्च संस्थितः
47
Keep
अन्तःस्वप्नो बहिर्जाग्रदहमेवेति वेत्ति चेत् ।
चिदात्मको यथाभूतं मुच्यते तदवासनः
48
Keep
अच्छेद्योऽयमदाह्योऽयमपि जीवोऽन्यथा वदन् ।
द्वैतसंकल्पयक्षेण मुह्यत्येव शिशुर्यथा
49
Keep
अन्तर्मुखोऽन्तरात्मानं बहिः पश्यन्बहिर्मुखः ।
आस्ते जीवो जगद्रूपं यत्स्वन्ते स्वप्नजाग्रती
50
Keep
इति चिन्तयतः किं स्यात्सुषुप्तमिति मे मतिः ।
जाता तेन सुषुप्तांशमन्वेष्टुमहमुद्यतः
51
Keep
यावत्किं दृश्यदृष्ट्यान्तस्तूष्णीं तिष्ठाम्यहं चिरम् ।
निश्चित्त इति संवित्तिः शमा नान्यत्सुषुप्तकम्
52
Keep
नखकेशादि देहेऽस्मिन्विदिताविदितं यथा ।
न जडं च जडं चैव सुषुप्तं चेतनात्मनि
53
Keep
संवित्त्या किं श्रमार्तोऽस्मि शान्तमासेवि मानसम् ।
इत्येकपरिणामत्वान्नान्यदस्ति सुषुप्तकम्
54
Keep
एतन्निद्राघनं जाग्रत्यपि संभवति स्वतः ।
न किंचिच्चिन्तयाम्यासे शान्त इत्येकरूपकम्
55
Keep
एषावस्था यदा याति घनता मुच्यते तदा ।
निद्राशब्देन तन्वी तु स्वशब्देन कथ्यते
56
Keep
सुषुप्तमिति निश्चित्य तुरीयान्वेषणामहम् ।
प्रवृत्तः कर्तुमुद्युक्तो युक्तः परमया धिया
57
Keep
यावद्रूपं तुरीयस्य किंचनापि न लभ्यते ।
सम्यग्बोधादृते शुद्धात्प्रकाशस्तमसो यथा
58
Keep
यथास्थितमिदं विश्वं सम्यग्बोधाद्विलीयते ।
यथास्थितं च भवति न च किंचिद्विलीयते
59
Keep
अतः स्वप्नो जागरा च सुषुप्तं च तुरीयके ।
सयथास्थितमस्तीदं नूनं नास्ति च किंचन
60
Keep
कारणाज्जगदुत्पन्नं न ब्रह्मेत्थमवस्थितम् ।
जगत्तया शान्तमजं बोध इत्येव तुर्यता
61
Keep
असंभवात्संभवकारणानां
न जायते किंचन नाम सर्गः ।
चिच्चेतनेनैव हि सर्गसंवित्
स्वयं गृहीता द्रवताम्बुनेव
Previous
←
Sarga 136
Next
Sarga 138
→