Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 140
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 6 — Nirvāṇa (Uttarārdha)
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
Keep
भगवंस्त्वादृशस्तां तामवस्थां च कथं गतः ।
कथं ध्यानप्रयोगेण तदा नोपशमं गतः
2
Keep
मुनिरुवाच ।
कल्पान्तेषु विनश्यन्ति नाशैर्नानाविधात्मभिः ।
जगन्ति भ्रान्तिरूपाणि नभस्याभासरूपिभिः
3
Keep
कदाचित्क्रमशो नाशः कल्पान्ते संप्रवर्तते ।
अशङ्कितं कदाचिद्द्रागेकधादिविकारतः
4
Keep
तदा द्रागित्येव यदा विकृतं वारि तत्तथा ।
तेन यावत्सरन्त्याद्यं तावन्नीता जलैः सुराः
5
Keep
अन्यच्च विपिनाधीश कालः सर्वंकषो ह्ययम् ।
यत्र काले ततस्तस्मिंस्त्ववश्यंभावि तत्तथा
6
Keep
बलं बुद्धिश्च तेजश्च क्षयकाल उपस्थिते ।
विपर्यस्यति सर्वत्र सर्वथा महतामपि
7
Keep
अन्यच्च विपिनाधीश मयैतत्तव वर्णितम् ।
स्वप्नदृष्टं किल स्वप्ने किं न संभवतीह कम्
8
Keep
असदेतद्यदि विभो स्वप्नसंभ्रममात्रकम् ।
कथितेन तदैतेन कोऽर्थः कल्याणकोविद
9
Keep
मुनिरुवाच ।
त्वद्बोधनात्मकं कार्यं महदस्त्यत्र बुद्धिमन् ।
एतद्भ्रमात्मकं वेत्ति भवान्सत्यं तु मे श्रृणु
10
Keep
अनन्तरमहं तस्मिन्मत्तैकार्णवरंहसि ।
जन्तोरोजः स्थितः स्वप्ने भ्रान्तं भ्रान्तो व्यलोकय
11
Keep
यावत्ससकलं वारि क्वापि निर्गन्तुमुद्यतम् ।
विक्षुब्धवज्रवित्रस्तसपक्षाद्रीन्द्रवृन्दवत्
15
Keep
लब्धवानुह्यमानोऽहं कंचिद्दैववशात्तटम् ।
अवसं तमवष्टभ्य शिखरप्रान्तसंनिभम्
13
Keep
अथ क्षणेन सलिलं तदशेषेण निर्ययौ ।
वीच्यग्रस्फुटिताकारैर्देवैस्तारकिताम्बरम्
14
Keep
तारागणैश्च पातालगतैर्मणिमयोदरम् ।
आवर्तेषु परावृत्तैः स्फारमद्रिजरत्तृणैः
15-2
Keep
हेमद्वीपोपमैर्व्याप्तं गीर्वाणपुरमन्दिरैः ।
भ्रमत्सुराङ्गनालीननलिनीजालमालितम्
16
Keep
मध्योह्यमानकल्पाभ्रनीलशैवालजालकम् ।
विद्युद्गोरोचनाम्भोदनीलनीरजनिर्भरम्
17
Keep
स्फुरत्सीकरनीहारमेघाद्रिकृतदिक्तटम् ।
उल्लोलद्वीचिसंदिग्धवहत्कल्पद्रुमव्रजम्
18
Keep
अथैकार्णवखातोऽसावभवच्छुष्ककोटरः ।
क्वचिद्गलितसह्याद्रि क्वचित्संशीकमन्दरः
19
Keep
क्वचित्कङ्कनिमग्नेन्दुयमवासवतक्षकः ।
क्वचित्पङ्कनिमग्नाधःशाखकल्पद्रुमोत्करः
20
Keep
क्वचित्कमलवत्कीर्णलोकपालशिरःकरः ।
क्वचित्पङ्कजविश्रान्तरुधिरह्रदपाटलः
21
Keep
क्वचिदाकण्ठनिर्मग्नक्वणद्विद्याधरीगणः ।
क्वचित्स्वप्नमृतेभाभयाम्योग्रमहिषावृतः
22
Keep
क्वचित्सन्नमहाकायगरुडामरपर्वतः ।
क्वचिन्मत्तमहासेतुर्यमदण्डेन भूजुषा
23
Keep
क्वचित्प्रमृतवैरिञ्चहंससस्मितपङ्कभूः ।
क्वचित्पङ्कविनिर्मग्नदेहार्धामरवारणः
24
Keep
एतस्मिन्नन्तरे तत्र सानुं प्राप्याश्रमे श्रमात् ।
विश्रान्तोस्मि यदा तेन भृशं निद्राजगाम माम्
25
Keep
ततः सुषुप्तनिद्रान्तस्तया वासनयान्वितः ।
तं तादृगेव कल्पान्तमपश्यं स्वौजसि स्थितः
26
Keep
दृष्ट्वा तद्द्विगुणं दुःखं चिरेणात्राहमाकुलः ।
प्रबुद्धो दृष्टवान्सानुं तमेवास्य हृदि स्थितम्
27
Keep
अथ तत्र द्वितीयेऽह्नि भास्करोदयसुन्दरम् ।
सलोकाकाशभूशैलं भुवनं दृष्टवानहम्
28
Keep
द्यौः क्षमा वायुराकाशं पर्वताः सरितो दिशः ।
इति मे चेतसो जातं पत्रादि विटपादिव
29
Keep
ततस्तस्मिंस्तथा दृष्टे भूतले तैः पदार्थकैः ।
व्यवहारं प्रवृत्तोऽहं किंचिद्विस्मृतधीरितः
30
Keep
जातस्य मेऽद्य वर्षाणि षोडशैष पिता मम ।
इयं मातास्पदं चेदमिति मे प्रतिमोदभूत्
31
Keep
अपश्यं ग्रामकं कंचित्कंचिच्च ब्राह्मणाश्रमम् ।
किंचिद्गेहं तथा कश्चिद्वन्धुः कस्मिंश्चिदाश्रमे
32
Keep
अथ मे तिष्ठतः सार्धं बन्धुभिर्ग्राममन्दिरे ।
अहोरात्रेषु गच्छत्सु जाग्रदादींस्तदेव सत्
33
Keep
ततः कालवशात्तत्र प्राक्तनी बोधधीर्मम ।
विस्मृता तादृशाभ्यासादहो तस्येव मत्स्यता
34
Keep
इत्यहं ग्रामवास्तव्यः संपन्नो ब्राह्मणस्तदा ।
देहमात्रकबद्धास्थो दूरीकृतविवेकभूः
35
Keep
शरीरमात्रात्मवपुर्दारमात्रानुरञ्जितः ।
वासनामात्रसारात्मा धनमात्रैकतत्परः
36
Keep
जीर्णगोमात्रकधनः संरोपितलतावृतिः ।
संचिताग्न्यवनिप्राणिरुपार्जितकमण्डलुः
37
Keep
चलवृक्षकबद्धास्थो लोकाचाररतः सदा ।
गृहपार्श्वगतानीलशाद्वलस्थलिकास्थितिः
38
Keep
शाकशाकायतारामरचनानीतवासरः ।
सरिद्ह्रदनदीतीर्थसरसि स्नानतत्परः
39
Keep
गोमयान्नजलाम्ब्वग्निकाष्ठेष्टा कष्टसंचयी ।
इदं कार्यमिदं नेति पाशाभ्यां विवशीकृतः
40
Keep
इति मे जीवतस्तत्र संवत्सरशतं गतम् ।
एकदाभ्यागतो दूरात्तापसोऽतिथिरात्मवान्
41
Keep
पूजितोऽसौ विशश्राम मृद्गृहे स्नानपूर्वकम् ।
भुक्तवाञ्छयने स्थित्वा रात्रौ वर्णितवान्कथाम्
42
Keep
नानादिग्देशशैलोर्वीव्यवहारमनोहरे ।
कथाप्रसङ्गे कस्मिंश्चिन्नानाविधरसाश्रये
43
Keep
सर्वं चिन्मात्रमेवेदमनन्तमविकारि च ।
जगत्तयेव कचति यथास्थितमपि स्थितम्
44
Keep
इत्यहं बोधितस्तेन बोधैकघनतां गतः ।
स्मृतवांस्तमशेषेण वृत्तान्तं धारणावशात्
45
Keep
स्मृतवानात्मवृत्तान्तं यस्याहमुदरे स्थितः ।
तं विराडपमाशङ्क्य तस्मान्निर्गन्तुमुद्यतः
46
Keep
तदास्यं निर्गमद्वारमथ जानामि नो यदा ।
विस्तीर्णे भुवने यस्मिन्भूम्यब्ध्यद्रिसरिद्वृते
47
Keep
तदा तमत्यजन्नेव देशं बन्धुजनावृतम् ।
तस्य प्राणं प्रविष्टोऽहं निर्गन्तुं पवनं बहिः
48
Keep
इहस्थस्य विराजोऽस्य बाह्यमाभ्यन्तरं तथा ।
अन्यजं सर्वमीक्षेऽहमिति निर्णीय तादृशम्
49
Keep
धारणां संविदा बद्ध्वा प्रदेशं स्वं तमत्यजम् ।
तत्प्राणैः सह निर्यात आमोदः कुसुमादिव
50
Keep
पवनस्कन्धमासाद्य प्राप्य तन्मुखकोटरम् ।
बहिर्वातरथेनाहं निर्गतो दृष्टवान्पुरः
51
Keep
यावत्तथैव मद्देहो बद्धपद्मासनः स्थितः ।
क्वापि मुन्याश्रमः शिष्यैः पालितो गिरिकन्दरे
52
Keep
पुरो मे तिष्ठतां तेषां मत्संरक्षणकर्मणाम् ।
मुहूर्तमात्रं च गतः कालश्चान्ते निवासिनाम्
53
Keep
हृदयं संप्रविष्टोऽसौ यस्याहं स पुमानपि ।
पृष्ठेनोत्सवलब्धेन शेते तृप्तोऽन्धसा सुखम्
54
Keep
तदाश्चर्यं मया दृष्ट्वा नोक्तं किंच न कस्यचित् ।
पुनस्तस्यैव हृदयं प्रविष्टः कौतुकादहम्
55
Keep
प्राप्तोऽस्म्योजःप्रदेशं तं तस्य तस्मिन्हृदन्तरे ।
अवेक्षितुं स्वबन्धूंस्तान्व्याप्तो वासनया तया
56
Keep
यावत्तत्र युगस्यान्तः संप्रवृत्तोऽतिदारुणः ।
भुवनं तद्विपर्यासमागतं सह संस्थया
57
Keep
अन्य एवाचलास्तत्र वसुधान्या च संस्थिता ।
अन्य एव ककुब्भेदस्तथान्या भुवनस्थितिः
58
Keep
ते बन्धवः स च ग्रामः स भूभागः स दिक्तटः ।
न जाने क्व गतं सर्वं व्यूह्य नीतमिवानिलैः
59
Keep
तदा पश्यामि भुवनं यावदन्यदवस्थितम् ।
अपूर्वसंनिवेशं तज्जगदन्यदिवोदितम्
60
Keep
तपन्ति द्वादशादित्याः प्रज्वलन्ति दिशो दश ।
शीताश्यानाम्बुवच्छैलाः प्रवृत्ता गलितुं बलात्
61
Keep
अद्रावद्रौ दिशिदिशि ज्वलन्ति वनपङ्क्तयः ।
दग्धाः स्मृतिपदं याताः समस्ता रत्नभूतयः
62
Keep
सर्व एवाब्धयः शुष्का महावाताः पुरःस्थिताः ।
अङ्गारराशितां यातं भूमण्डलमशेषतः
63
Keep
पातालतो भूतलतोऽथ दिग्भ्यो
ज्वाला विनिर्गन्तुमनुप्रवृत्ताः ।
संध्याभ्रवच्चाशु बभूव विश्वं
ज्वालामये मण्डलमेकमेव
64
Keep
ज्वालामये सद्मनि हेमपद्म-
कोशे भ्रमद्भृङ्ग इव प्रविष्टः ।
ततोऽहमाराच्छलभक्रमेण
न चाप्तवान्दाहविकारदुःखम्
65
Keep
ज्वालामये साधु महाम्बुवाहे
भ्रमाम्यहं विद्युदिवानिलात्मा ।
ज्वालापरिस्पन्दविलोलवर्ष्मा
स्थलाब्जखण्डभ्रमरोपमश्रीः
Previous
←
Sarga 139
Next
Sarga 141
→