Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 141
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 6 — Nirvāṇa (Uttarārdha)
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
Keep
मुनिरुवाच ।
तत्र दंदह्यमानोऽपि नाभवं दुःखभागहम् ।
स्वप्ने स्वप्नोऽयमित्येष जानन्नग्नावपि च्युतः
2
Keep
ज्वालाजालनवोड्डीतिमण्डलैरखिलैर्नभः ।
अलातचक्रवच्चारु केवलं भ्रान्तवानहम्
3
Keep
तं दवाग्निमहं यावत्तत्त्ववित्त्यादखिन्नधीः ।
विचारयाम्यखिन्नात्मा मारुतस्तावदाययौ
4
Keep
सीत्कारमतिगम्भीरं दधन्मेघरवोपमम् ।
जगत्पदार्थैरावृत्तैरुह्यमानैः परावृतः
5
Keep
बृहद्भिर्घुंघुमावेगैर्वने द्विगुणिताम्बुदः ।
सूर्यैरावृत्तिभिर्व्यूढैर्विमिश्रालातचक्रकः
6
Keep
ज्वालासंध्याभ्रनिवहैर्वृहदग्निनदीशतः ।
शैलद्विगुणभूखण्डदानवामरपत्तनः
7
Keep
भूतैर्द्विगुणपात्रौघो भ्रान्तैरम्बरकुक्षिषु ।
दग्धादग्धाभिरप्यर्धदग्धाभिरितरेतरम्
8
Keep
पतन्तीभिः सुरस्त्रीभिर्द्विगुणाग्निशिखालवः ।
पतदङ्गारधारौघकणसीकरदन्तुरः
9
Keep
अलातविद्युतो धुन्वन्पूताङ्गारोग्रमण्डलीः ।
धूमान्धकारैः स्थगयन्म्लानमूर्ध्वदिशोमुखम्
10
Keep
भूमेर्व्योम्नो दिङ्मुखेभ्यः समन्ता-
ज्ज्वालासंध्यावारिदा निर्गतास्ते ।
यैस्तैर्ज्वालाशैलसंपिण्डमात्रं
सव्योमौकाः संस्थिता सप्तलोकी
11
Keep
क्वापि प्रोत्फालकीर्णानलकणकपिलप्रोल्लसन्मूर्ध-
जालिः
क्वापि प्रोड्डीनकुड्यः कटुरटनपटुर्भस्मसंपिण्डपाण्डुः ।
क्वापि ज्वालापटालीं परिदधदभितः संपतन्तीं
गृहीतां
रौद्रः कर्तुं प्रवृत्तो हर इव स तदा मारुतो
नृत्यलीलाः
Previous
←
Sarga 140
Next
Sarga 142
→