Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 142
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 6 — Nirvāṇa (Uttarārdha)
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
Keep
मुनिरुवाच ।
वर्तमाने तदा तस्मिन्कष्टे संभ्रान्तसंभ्रमे ।
उह्यमानोऽहमत्यन्तं खेदमभ्यागतोऽभवम्
2
Keep
अचिन्तयं तत्स्वप्नोऽयं परस्य हृदये मम ।
तदतः परिनिर्वामि दुःखं पश्यामि किं मुधा
3
Keep
किंस्वित्स्यात्स्वप्न इत्येव किल संदेहशान्तये ।
प्रविष्टो हृदयं तस्य किं तं निर्णीतवानसि
4
Keep
किमेतद्भवतां दृष्टं हृदये क्व महार्णवः ।
जठरे कल्पवातः किं हृदि कल्पानलः कथम्
5
Keep
द्यौः क्षमा वायुराकाशं पर्वताः सरितो दिशः ।
कथं हृदि जगन्नाम कथयेति यथास्थितम्
6
Keep
मुनिरुवाच ।
अकारणत्वात्सर्गादावेवानुत्पादतः स्फुटात् ।
अज्ञातौ सर्गशब्दार्थावेव न स्तो मनागपि
7
Keep
तच्चैतौ सर्वशब्दार्थौ त्वज्ञातौ परमात्मनि ।
यतस्तत्पदमज्ञानज्ञानात्मकमनामयम्
8
Keep
अतः सुभग सिद्धान्ते त्वत्पक्षे बोधमागते ।
मौर्ख्यशान्तावनाद्यन्ते पदे परमपावने
9
Keep
वच्मीदं मूढसंवित्तौ यदिद तन्न वेद्म्यहम् ।
वस्त्ववस्तुजमाभातं बोधमात्रमिदं ततम्
10
Keep
क्व शरीरं क्व हृदयं क्व स्वप्नः क्व जलादि च ।
क्व बोधो बोधविच्छित्तिः क्व जन्ममरणादि च
11
Keep
स्वच्छं चिन्मात्रमस्तीह तन्नाम यदपेक्षया ।
स्थूलमेव खमप्यद्रिरणूनां निकटे यथा
12
Keep
स्वभावात्स चिदाकाशः किंचिच्चेतति चिन्तया ।
खमेव वपुराकाशं यत्तद्वेत्ति जगत्तया
13
Keep
यथा स्वप्ने पुरतया चिदेवाभाति केवला ।
न तु किंचित्पुराद्येवं जगच्चिन्मात्रमेव खे
14
Keep
इदं शान्तमनाभातमनन्यन्नैतदात्मनि ।
चिति दृशौ तमसि खे चक्रकादीव भाति ते
15
Keep
अस्माकं तु न चाभानं न चासन्न च सन्न खम् ।
अनाकारमनाद्यन्तमेकं चिद्व्योम केवलम्
16
Keep
भात्यकारणकं स्वप्ने शुद्धौ द्रष्टैव केवलः ।
तेनात्र कारणाभावो न द्रष्टास्ति न दर्शनम्
17
Keep
शुद्धं किमपि तद्भाति स्वानुभूतमपि स्फुटम् ।
यदवाच्यमनाद्यन्तमेकं द्वैतैक्यवर्जितम्
18
Keep
एकः कालो यथा कल्पः प्रकाशश्चोभयात्मकः ।
बीजं वा फलपुष्पान्तं ब्रह्म सर्वात्मकं तथा
19
Keep
यदन्यस्य महत्कुड्य तदन्यस्यामलं नभः ।
दृष्टमेतत्स्थिरस्वप्नसंकल्पभ्रमभूमिषु
20
Keep
स्वच्छं तदा तदात्मैकं भाति चिन्मात्र खं यथा ।
स्वप्ने जागृतिवत्तद्वज्जाग्रत्स्वप्नेऽपि नान्यथा
21
Keep
अदृश्ये पवने यद्वददृश्यं सौरभं स्थितम् ।
चिन्मात्रेऽप्रतिघे तद्वज्जगदप्रतिघं स्थितम्
22
Keep
समस्तमननत्यागे योऽसि सोऽसि निरामयः ।
बहिरन्तरनन्तात्मा सुस्थितोऽपि निरन्तरम्
23
Keep
भगवन्प्राक्तनं कर्म केषामिह हि विद्यते ।
केषां न विद्यते तद्वद्विनापि भवतः कथम्
24
Keep
मुनिरुवाच ।
सर्गादिषु स्वयं भान्ति ब्रह्माद्या ये स्वयंभुवः ।
विज्ञप्तिमात्रदेहास्ते न तेषां जन्मकर्मणी
25
Keep
तेषामस्ति न संसारो न द्वैतं न च कल्पनाः ।
विशुद्धज्ञानदेहास्ते सर्वात्मानः सदा स्थिताः
26
Keep
सर्गादौ प्राक्तनं कर्म विद्यते नेह कस्यचित् ।
सर्गादौ सर्गरूपेण ब्रह्मैवेत्थं विजृम्भते
47
Keep
यथा ब्रह्मादयो भान्ति सर्गादौ ब्रह्मरूपिणः ।
भान्ति जीवास्तथान्येऽपि शतशोऽथ सहस्रशः
28
Keep
किंतु ये ब्रह्मणोऽन्यत्वं बुध्यन्ते सात्त्विकोद्भवाः ।
अबोधा ये त्वचिदाख्यं बुद्ध्वा द्वैतमिदं स्वयम्
29
Keep
तेषामुत्तरकालं तत्कर्मभिर्जन्म दृश्यते ।
स्वयमेव तथा भूतैस्तैरवस्तुत्वमाश्रितम्
30
Keep
यैस्तु न ब्रह्मणोऽन्यत्वं बुद्धं बोधमहात्मनि ।
निरवद्यास्त एतेऽत्र ब्रह्मविष्णुहरादयः
31
Keep
सर्वात्म संविदोऽच्छत्वं ब्रह्मात्मन्येव संस्थितम् ।
तत्क्वचिज्जीववद्भानं स्वयमात्मनि पश्यति
32
Keep
यत्र वेत्ति तु जीवत्वं तत्राविद्येति तिष्ठति ।
तत्र संसृतिनाम्नात्मा धत्ते रूपं तथास्थितम्
33
Keep
स्वयमेव हि कालेन बुद्ध्वा स्वं रूपमात्मनः ।
स्वयमेव स्वरूपस्थं ब्रह्मैव भवति स्वयम्
34
Keep
यथा द्रवत्वादम्ब्वन्तरेति चावर्ततामिव ।
ब्रह्म चित्त्वात्तथैतीव सर्गतामस्य सर्गकम्
35
Keep
ब्रह्मभानमयं सर्गो न स्वप्नो न च जागरः ।
कस्य कान्यत्र कर्माणि कीदृशानि कियन्ति वा
36
Keep
वस्तुतः कर्म नास्त्येव नाविद्यास्ति न सर्गधीः ।
स्वसंवेदनतः सर्वमसदेव प्रवर्तते
37
Keep
ब्रह्मैव सर्गो भूतात्मा कर्म जन्मेति कल्पनाः ।
स्वयं कुर्वदिदं भाति विभुत्वात्कल्पितार्थभाक्
38
Keep
न संभवति जीवस्य सर्गादौ कर्म कस्यचित् ।
पश्चात्स्वकर्म निर्माय भुङ्क्ते कल्पनया स चित्
39
Keep
जलावर्तस्य को देहः कानि कर्माणि चोच्यताम् ।
यथाम्बुमात्रमावर्तो ब्रह्ममात्रं तथा जगत्
40
Keep
यथा स्वप्नेषु दृष्टानां न प्राक्कर्म नृणां भवेत् ।
आदिसर्गेषु जीवानां तथा चिन्मात्ररूपिणाम्
41
Keep
सर्गे सर्गतया रूढे भवेत्प्राक्कर्मकल्पना ।
पश्चाज्जीवा भ्रमन्तीमे कर्मपाशवशीकृताः
42
Keep
सर्ग एव न सर्गोऽयं ब्रह्मेत्थं किल तिष्ठति ।
यत्र तत्र क्व कर्माणि कानि वा कस्य तानि वा
43
Keep
अपरिज्ञानमात्रं यत्स्वयं वै परमात्मनः ।
तदेतत्कर्म बन्धाय तत्तज्ज्ञस्योपशाम्यति
44
Keep
यावद्यावत्परिज्ञानं पण्डितस्य प्रवर्तते ।
तावत्तावत्तदैवास्य कर्म शाम्यति बन्धनम्
45
Keep
यन्नाम किल नास्त्येव तच्छान्तौ का कदर्थना ।
परमार्थादृते बन्धः किंचिन्नाम न विद्यते
46
Keep
तावन्माया भवभयकरी पण्डितत्वं न याव-
त्तत्पाण्डित्यं पतसि न पुनर्येन संसारचक्रे ।
यत्नं कुर्यादविरतमतः पण्डितत्वेऽमलात्म-
ज्ञानोदारे भयमितरथा नैव वः शान्तिमेति
Previous
←
Sarga 141
Next
Sarga 143
→