Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 150
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 6 — Nirvāṇa (Uttarārdha)
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
Keep
मुनिरुवाच ।
एवंप्रकारया युक्त्या तेनायं मुनिना तदा ।
तथाहं बोधितो येन गतो विदितवेद्यताम्
2
Keep
ततोऽसौ न मया त्यक्तश्चिरप्रार्थनया तया ।
अवसत्तेन तत्रासौ मृतस्यापि तथैव च
3
Keep
येनैतन्मुनिना प्रोक्तमिन्दूदयशुभं वचः ।
सोऽयं पश्य मुनिश्रेष्ठस्तव पार्श्वे व्यवस्थितः
4
Keep
अनेनोक्तमनुक्तेन ममैतन्मोहघातिना ।
दृश्यपूर्वापरज्ञेन यज्ञेनेवात्तमूर्तिना
5
Keep
अग्निरुवाच ।
तदाकर्ण्य वचस्तस्य मुनेर्व्याधोऽभवत्तदा ।
प्रत्यक्षः स्वप्नसर्गः किमिति खिन्न इव स्मयात्
5-2
Keep
अहो महच्चित्रमिदं मुने मनसि दुःसहम् ।
कथितं मेऽद्य भवता भवतापापहारिणा
7
Keep
यत्स्वप्नकथितस्येयं जाग्रत्प्रत्यक्षतोच्यते ।
लभ्यतेऽपि च तन्नाम वेद चित्रमिदं मुने
8
Keep
कथमेष महान्स्वप्नपुरुषः स मुनीश्वर ।
जाग्रत्यपि स्थिरीभूतो भूतो बालमतेरिव
9
Keep
एवमाश्चर्यमाख्यानमुच्यतां मे यथाक्रमम् ।
कुतः कस्य किमेतद्वा परमो हि स विस्मयः
10
Keep
मुनिरुवाच ।
ततः श्रृणु महाभाग वृत्तं चित्रं किमत्र मे ।
कथयामि समासेन सहसा मां कुरु त्वराम्
11
Keep
अनेनैतत्तदा तत्र वर्णितं बोधनाय मे ।
बुधोऽहमभवं चाशु महतोऽस्य तया गिरा
12
Keep
तत एतद्गिरा पूर्वः स्वस्वभावः स्मृतो मया ।
अवदातोऽवदातेन नभसेव तपात्यये
13
Keep
अहो नु सोऽहमभवं मुनिरित्युदिताशयम् ।
अहमासं हृदा स्फीतात्स्नातोऽवस्थितविस्मयात्
14
Keep
इमां भोगास्थयावस्थां प्राप्तोऽस्म्यज्ञ इवाध्वगः ।
धावञ्छ्रमार्तिरम्ब्वर्थी व्यर्थया मृगतृष्णया
15
Keep
कष्टं दृश्योपलम्भेन भ्रान्तिमात्रात्मना सता ।
बालो वेतालकेनेव प्राज्ञोऽपि च्छलितो ह्यहो
16
Keep
अहो नु चित्रमेतेन मिथ्याज्ञानेन वल्गता ।
नीतः सर्वार्थशून्येन पदवीं कामिमामहम्
17
Keep
अथवा यः सोऽहमपि भ्रान्तिमात्रं न सन्मयः ।
तथापि चित्रशतता यन्नामासद्विडम्ब्यते
18
Keep
नाहमस्मि न चैवेयमिदं नायमपि भ्रमः ।
चित्रं सर्वमिदं मिथ्या सर्वं च सदिव स्थितम्
19
Keep
किमिदानीं मया कार्यमिह बन्धभिदान्तरः ।
विद्यते मेऽङ्कुरश्छेद्यं तत्तावत्संत्यजाम्यहम्
20
Keep
आस्तामेतदविद्यैषा व्यर्थरूपा किमेतया ।
भ्रान्त्या भ्रान्तिरसद्रूपा त्यक्तैवैषा मयाधुना
21
Keep
उपदेष्टा मुनिरयमेषोऽत्र भ्रान्तिमात्रकम् ।
ब्रह्मैवाहमिवाभाति रूपमेतद्दिवाभ्रवत्
22
Keep
तदेवं तावदुदितज्ञानं वक्ष्ये महामुनिम् ।
इति संचिन्त्य स मुनिस्तत्र प्रोक्त इदं मया
23
Keep
मुनिनायक गच्छामि तच्छरीरमिदं निजम् ।
द्रष्टुं यच्च प्रवृत्तोऽस्मि शरीरं तदपीक्षितुम्
24
Keep
इत्याकर्ण्य स मामाह हसन्मुनिवरस्तदा ।
कुतस्तौ भवतो देहौ तौ सुदूरतरं गतौ
25
Keep
गच्छात्मनैव वा पश्य वृत्तान्तं वृत्तकोविद ।
पश्य तावद्यथावृत्तं दृष्टान्तं ज्ञास्यसि स्वयम्
26
Keep
इति संचिन्त्य तं देहं विदं भूसत्तयाऽऽस्मिकम् ।
त्यक्त्वा चिदात्मा तत्प्राणात्पवने योजितो मया
27
Keep
प्राक्तनं देहमालोक्य यावदायाम्यहं मुने ।
इहैव तावत्स्थातव्यमित्युक्त्वाहं गतोऽनिलम्
28
Keep
अथ वातरथारूढो गगनं भ्रान्तवानहम् ।
पुष्पामोद इवानन्तं गत्वा च त्वरया चिरम्
29
Keep
ततश्चिरमपि भ्रान्त्वा यदा गलविलं चलन् ।
अहं न प्राप्तवांस्तस्य किंचिदस्याशयस्थितः
30
Keep
तदा खेदमुपायातः परमं पुनरागतः ।
इदमेव जगज्जालमहमालानमात्मनः
31
Keep
इहेमं लब्धवानग्रे ततो मुनिमनुत्तमम् ।
पृष्टवानहमेकाग्रस्तत एवमिदं गृहे
32
Keep
किमेतद्भगवन्ब्रूहि पूर्वापरविदांवर ।
त्वं पश्यसि यथावृत्तमुत्तमज्ञानचक्षुषा
33
Keep
यस्य देहं प्रविष्टोऽहं स च मद्वपुरेव च ।
क्व तावुभौ गतौ देहौ न लब्धौ केन हेतुना
34
Keep
मयातिचिरमाभोगि भ्रान्तं संसारमण्डलम् ।
स्थावरादाऽऽत्मनः कस्मात्प्राप्तं गलबिलं न तत्
35
Keep
गत्वेति पृष्टः स मुनिः समुवाच महाशयः ।
जानासि तत्स्वयं कस्मादिति तामरसेक्षण
36
Keep
एतदालोकयसि चेत्स्वयं योगैकसंविदा ।
तत्पश्यस्येव निःशेषं यथा करतलाम्बुजम्
37
Keep
तथापि यदि शुश्रूषा तवास्ति वचसा मम ।
तदिदं श्रृणु वक्ष्यामि यथावृत्तमखण्डितम्
38
Keep
तपस्तामरसोष्णांशुः कल्याणकमलाकरः ।
ज्ञानाब्जस्य हरेर्नाभिर्नास्ति तावदयं भवान्
39
Keep
स त्वं कदाचित्तपसि स्थितः स्वप्नदिदृक्षया ।
कस्यचिद्धृदयं जन्तोः प्रविष्टः पुष्टसंविदा
40
Keep
यत्त्वं प्रविष्टो हृदयं तत्रेदं भुवनत्रयम् ।
दृष्टवानसि विस्तीर्णं रोदसी विपुलोदरम्
41
Keep
इति त्वयि चिरं व्यग्रे देहस्तस्य तथापि च ।
स संसुप्ताकृतिर्यत्र स्थितस्तत्र महावने
42
Keep
लग्नोऽग्निर्धूमधूम्राभ्रसाम्बराम्बरडम्बरः ।
वलद्वलचलालातचक्रसूर्येन्दुमण्डलः
43
Keep
दग्धाभ्रभस्मसंपूर्णधूमाभ्रासितकम्बलैः ।
आनीलाकाशदलपैरिव संछादिताम्बरः
44
Keep
दरीगृहविनिष्क्रान्तसिंहनिर्ह्रादतर्जितैः ।
स्फुटैश्चटचटास्फोटैर्जडीकृतदिगन्तरः
45
Keep
तालीतमालमालानां गतानामग्निवृक्षताम् ।
पातैरुत्पातवह्न्यभ्रकवत्करकरैर्घनः
6
Keep
दूरदेशगतैर्दृष्टस्थिरसौदामनीधिया ।
द्रवत्कनकनिष्यन्दकुट्टिमं व्योम दर्शयन्
47
Keep
कणैस्तारागणं कान्तैर्व्योम्नि द्विगुणतां नयन् ।
वक्षःस्थबालवनितानयनानन्दनन्दनः
48
Keep
ज्वालाधमधमाशब्दप्रध्मातगगनोदरः ।
दरीगृहविनिष्क्रान्तभ्रान्तोन्निद्रवनेचरः
49
Keep
अर्धदग्धद्रवत्सिंहमृगव्याधविहंगमः ।
क्वथत्सरःसरित्स्रोतोरन्धितोग्रवनेचरः
50
Keep
वलज्ज्वालाज्वलद्बालचमरीचारुचञ्चुरः ।
दह्यमानवनप्राणिमेदोगन्धावृताम्बुदः
51
Keep
तेन कल्पाग्निकल्पेन वल्गता वनवह्निना ।
सयुष्मदाश्रमो दग्धः सर्पेणेव प्रसर्पता
52
Keep
तत्र तस्याग्निदाहस्य हेतुः कः प्राकृतो मुने ।
तद्वनं ते बटुवराः सर्वं नष्टं कथं सह
53
Keep
मुनिरुवाच ।
संकल्पकमनस्पन्दः संकल्पादिक्षयोदये ।
यथा हेतुर्निरास्पन्दोऽचिराद्धि त्रिजगत्तथा
54
Keep
हृदये च वनान्ते च क्षोभाक्षोभेषु कारणम् ।
यथा स्पन्दोऽचिरात्स्पन्दस्तथा त्रिजगतामिह
55
Keep
धातुः संकल्पनगरं जगत्तत्स्पन्दनं त्विह ।
प्रजोदयक्षयक्षोभवर्षावर्षादिकारणम्
56
Keep
ब्रह्मादिमानसोऽप्यस्य सोऽप्यन्यत्र चिदम्बरे ।
इत्यपर्यवसानेयं शान्तैका चिन्नभोगतिः
Previous
←
Sarga 149
Next
Sarga 151
→