Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 151
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 6 — Nirvāṇa (Uttarārdha)
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
Keep
अन्यमुनिरुवाच ।
तत्र ते नगरं तानि गृहाणि तरवश्च ते ।
क्षिप्रेण शुष्कतृणवत्सर्वं भस्मत्वमागतम्
2
Keep
तत्रैवं भस्मतां प्राप्ते सुप्ते ते भवतस्तव ।
तनू तथातिसंतापविदारितमहाशिले
3
Keep
स शशाम शनैर्वह्निर्निःशेषीकृतकाननः ।
परिपीतार्णवोऽगस्त्य इवास्तं समुपाययौ
4
Keep
तस्मिन्नस्तं गतेवह्नौ तद्भस्मेद्धं सुशीतलम् ।
दुधाव कणशो वायुरशेषं पुष्पराशिवत्
5
Keep
ततो न ज्ञायते नासीत्क्वाश्रमः क्व तनू तथा ।
क्व पेटकं बहूनां तत्स्वप्नपूर्जाग्रतो यथा
6
Keep
अभावमुपयाते ते यदैवं भवतस्तनू ।
स्वपतस्ते भ्रमवतः संविदेव विजृम्भते
7
Keep
तस्मात्क तद्गलबिलं विराडात्मा स च क्व ते ।
दग्धो दग्धस्य सौजस्कः सौजस्कस्यैव देहकः
8
Keep
लब्धवानसि नो तस्माद्धेतोर्देहद्वयं मुने ।
अनन्ते स्वप्नसंसारजाग्रतीहावतिष्ठसे
9
Keep
तदेवं स्वप्न एवायं जाग्रद्भावमुपागतः ।
सर्वे वयमिह स्वप्नपुरुषास्तव सुव्रत
10
Keep
अस्माकं त्वं स्वप्ननरस्तव स्वप्ननरा वयम् ।
अयमेव चिदाकाशः सर्वदात्मात्मनि स्थितः
11
Keep
ततः प्रभृति संपन्नो भवान्स्वप्ननरो भवन् ।
जाग्रत्प्रत्ययवाञ्जाग्रन्नरो गार्हस्थ्यसुस्थितः
12
Keep
एतत्ते कथितं सर्वं यथावृत्तमशेषतः ।
अनुभूतं सुदृश्यं च ध्यानेनैतच्च पश्यसि
13
Keep
इत्यादिमध्यरहितोऽयमनन्तरूपः
संविद्धनः कचति काञ्चनतापवत्खे ।
तत्फाललोलवपुरात्मनि चिन्मयात्मा
सर्गात्मभिर्विकसितैरसितैः सितैश्च
Previous
←
Sarga 150
Next
Sarga 152
→