Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 153
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 6 — Nirvāṇa (Uttarārdha)
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
Keep
अन्यमुनिरुवाच ।
आवयोश्चरतोस्तस्मिन्वने चिरतरं तपः ।
मृगानुसरणश्रान्तो मृगव्याध उपैष्यति
2
Keep
तं त्वं स्वभावपुण्याभिः कथाभिर्बोधयिष्यसि ।
तपस्तत्रैव विपिने स विरक्तश्चरिष्यति
3
Keep
ततस्तपस्विचर्याणामात्मज्ञानबुभुत्सया ।
मध्ये स स्वप्नजिज्ञासुः प्रक्ष्यति स्वप्नसंकथाम्
4
Keep
कथयिष्यसि तस्मै त्वमात्मज्ञानमखण्डितम् ।
स्वप्नाख्येन प्रसङ्गेन सोऽतो योग्यो भविष्यति
5
Keep
इत्यनेन प्रकारेण गुरुस्तस्य भविष्यसि ।
तेन तात मयोक्तोऽसि गिरा व्याधगुरो इति
6
Keep
इति ते सर्वमाख्यातं यथायं संसृतिभ्रमः ।
यथाहं यादृशश्च त्वमिह यत्ते भविष्यति
7
Keep
इति तेनाहमुक्तः सन्विस्मयाकुलया धिया ।
तेन सार्धं विमृश्यैतत्परं विस्मयमागतः
8
Keep
अथ रात्र्यां व्यतीतायां स प्रभाते महामुनिः ।
तथा संपूजितो येन तत्रैव रतिमाप्तवान्
9
Keep
अनन्तरं गृहे तस्मिंस्तस्मिन्ग्रामगृहे तथा ।
स्थितावावां स्थिरमती कृतभावौ परस्परम्
10
Keep
ततो वहति कालोऽयमृतुसंवत्सरात्मकः ।
स्थितोऽहमागतान्भावांस्त्यजन्गृह्णन्गिरिर्यथा
11
Keep
नाभिवाञ्छामि मरणं नाभिवाञ्छामि जीवितम् ।
यथा स्थितोऽस्मि तिष्ठामि तथैव विगतज्वरम्
12
Keep
ततो विचारितं तत्र तन्मया दृश्यमण्डलम् ।
किं कारणमिदं तु स्यात्किमयं वेत्ति चेतसा
13
Keep
कोऽयं पदार्थसंघातः किं नामैतस्य कारणम् ।
अस्त्यस्मिन्स्वप्नसंदर्शे चिद्व्योमैकस्वरूपिणि
14
Keep
द्यौः क्षमा वायुराकाशं पर्वताः सरितो दिशः ।
चिन्मात्रनभ एवैते कचन्त्यात्मन्यवस्थितम्
15
Keep
चिच्चन्द्रिकाचतुर्दिक्कमवभासं तनोति यत् ।
तदिदं जगदाभाति चित्रमप्रतिघात्म खे
16
Keep
नेमेऽद्रयो न चेयं भूर्नेदं खं नायमप्यहम् ।
चिन्मात्रव्योमकचनमिदमाभाति केवलम्
17
Keep
पदार्थजातस्यास्य स्यात्किं नाम बत कारणम् ।
पिण्डग्रहे हेतुना तु विना कोऽप्यर्थसंभवः
18
Keep
भ्रान्तिमात्रमिदं चेत्स्याद्भ्रान्तेः किं नाम कारणम् ।
द्रष्टा मन्ता च को भ्रान्तेः कारणं वा क्व कीदृशम्
19
Keep
यस्याहमवसं संविन्मात्रकं हृदयौजसि ।
असौ मया सह गतः किलाशेषेण भस्मसात्
20
Keep
तस्मादिदमनाद्यन्तं चिदाभामात्रमम्बरम् ।
अकर्तृकर्मकरणं रूपं चिद्धनमक्रमम्
21
Keep
इदं चिद्व्योमकचनं घटावटपटादिकम् ।
स्फुटं कुत इवाकारि घटावटपटाद्यतः
22
Keep
नापि चिन्मात्रकचनं चिन्मात्रं व्योम केवलम् ।
तस्य किं कचनं कीदृक् कथं कचति किं नभः
23
Keep
अयं फेनश्चिदम्भोधेः किमस्य कचनं नवम् ।
कचत्स्वभाव एवायमनन्तश्चिद्धनः स्थितः
24
Keep
चिन्मात्रकचनं शुद्धं ब्रह्म बृंहितचिद्धनम् ।
इदं जगदिवाभाति क्व दृश्यं द्रष्टृता कुतः
25
Keep
आद्यन्तवर्जितममेयमनादिमध्य-
मेकं विभुं विगतकारणकार्यसत्त्वम् ।
सत्तामयं भुवनशैलदिगन्तनाना-
ऽनानात्मकं किमपि चेतनमेव सर्वम्
153
Keep
इति श्रीवासिष्ठ० वा० दे० मो० निर्वा० उ० अवि० श० सर्वैकात्म्यप्रतिपादनं नाम त्रिपञ्चाशदधिकशततमः सर्गः
Previous
←
Sarga 152
Next
Sarga 154
→