Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 154
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 6 — Nirvāṇa (Uttarārdha)
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
Keep
मुनिरुवाच ।
इति निर्णीय दृश्येऽस्मिन्स्थितोऽस्मि विगतज्वरः ।
वीतरागो निराशङ्को निर्वाणो निरहंकृतिः
2
Keep
निराधारो निराधेयो निर्मानो निरुपाश्रयः ।
स्वभावस्थः स्वयं शान्तः सर्गात्मा सर्वथोदितः
3
Keep
यथाप्राप्तस्य कर्तास्मि न कर्तास्मि कदाचन ।
स्वयमेव हि यो व्योम कर्तृता तस्य कीदृशी
4
Keep
द्यौः क्षमा वायुराकाशं पर्वताः सरितो दिशः ।
इत्येकात्म नभः सर्वं भूतजालैकचिद्वपुः
5
Keep
शाम्यामि परिनिर्वामि सुखमासे च केवलम् ।
न विधिप्रतिषेधौ मे न मे बाह्यं न मेऽन्तरम्
6
Keep
इति मे तिष्ठत इह यथासंस्थानसंस्थितेः ।
अद्यायं त्वमनुप्राप्तः काकतालीयवत्पुरः
7
Keep
इति ते सर्वमाख्यातं यथा स्वप्नो यथा वयम् ।
यथा जगद्यथा च त्वं यथा दृश्यमिदं तथा
8
Keep
त्वं च यादृग्दृश्यमिदं यथा दृश्यमिदं पुरः ।
यथा भावा यथा ब्रह्म यथेमा जनताः पुरः
9
Keep
एतद्बुद्ध्वा भवाञ्छान्तो मिथ्या लुब्धक लुब्धक ।
शान्तैवैवमियं सत्ता चिन्मात्रव्योमरूपिणी
10
Keep
स्वयमाभाति निर्वाणा नैव वाभाति किंचन ।
एवं चेत्तदहं त्वं च सर्वे वा विबुधादयः
11
Keep
सर्व एव मिथः स्वप्नपुरुषाः सदसन्मयाः ।
मुनिरुवाच ।
एवमेतदिदं सर्वमन्योन्यं स्वप्नवत्स्थितम्
12
Keep
अन्योन्यमात्मनि तथा सदसच्चानुभूयते ।
दृश्यं येन यथा बुद्धं तथा तेनानुभूयते
13
Keep
नानैकं वस्त्वतोऽनेकं न सन्नासन्न मध्यगम् ।
जाग्रति स्वप्ननगरमिव वेदनमात्रकम्
14
Keep
अदृष्टपूर्वदूरस्थदृश्यमानपुरोपमम् ।
इति ते सर्वमाख्यातं बोधितोऽसि निरन्तरम्
15
Keep
स्वयं प्राज्ञोऽसि जानासि यथेच्छसि तथा कुरु ।
एवं प्रबोधितस्यापि तव व्याध मते मतिः
16
Keep
क्षणं प्रबोधविश्रान्ता न विश्रान्ता परे पदे ।
नाभ्यासेन विना बोध एष याति मनोहृदि
17
Keep
परां परिणतिं प्राज्ञ दारुणीवाम्बुधारणे ।
अभ्यासाद्बोधविश्रान्तौ गुरुशास्त्रैकसेवनात् ।
द्वैताद्वैतदृशोः शान्त्या निर्वाणं चित्तमुच्यते
18
Keep
निर्मानमोहा जितसङ्गदोषा
अध्यात्मनित्या विनिवृत्तकामाः ।
द्वन्द्वैर्विमुक्ताः सुखदुःखसंज्ञै-
गच्छन्त्यमूढाः पदमव्ययं तत्
Previous
←
Sarga 153
Next
Sarga 155
→