Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 157
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 6 — Nirvāṇa (Uttarārdha)
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
Keep
अथ सिन्धुर्वदिष्यति ।
आर्यानार्यवपुः कोऽहमभवं विमतिः पुरा ।
यद्वशान्मे कुसंस्कारः प्राक्तनोऽस्ति भवप्रदः
2
Keep
मन्त्री वदिष्यति ।
रहस्यं शृणु भो राजन्सावधानपरः क्षणम् ।
चोदितः संदधासीदमद्य मान्द्यविनाशनम्
3
Keep
किमप्याद्यन्तरहितमस्तीह सदनामयम् ।
स्थितं त्वमहमित्यादिरूपेण ब्रह्मशब्दितम्
4
Keep
तद्ब्रह्म स्वयमेवाहं चिच्चेतामीति संविदम् ।
जीवतामिव गत्वास्ते चित्तीभूयात्यजद्वपुः
5
Keep
चित्तं तु गगनाच्छात्म वपुर्विद्ध्यातिवाहिकम् ।
तदेव वास्ति नेहान्यदाधिभौतिकतादिकम्
6
Keep
चित्तमेतदनाकारमपि साकारवत्स्थितम् ।
संकल्पैः परलोकाद्यैः स्वप्नाद्यैरेतदेव सत्
7
Keep
अनाकारमपि स्फारं चित्तं जगदिदं विदुः ।
य एव पवनो नाम स एव स्पन्द्नं यथा
8
Keep
यथा गगनशून्यत्वे जगच्चित्ते तथेककम् ।
अत्राप्रतिघरूपेऽस्ति न मनागपि भिन्नता
9
Keep
हृदयस्थं जगज्जालं न किंचित्किंचिदास्थितम् ।
जगद्विद्धि निराकारं चित्तमेव न वास्तवम्
10
Keep
सत्त्वमेव वपुः पूर्वमुदितं ब्रह्मणः पदात् ।
अयमेव स संपन्नो योऽद्य तामसतामसः
11
Keep
सिन्धुर्वक्ष्यति ।
किमुच्यते महाभाग वद तामसतामसः ।
क्रियन्ते पूर्वमेवैताः केन संज्ञाः परे पदे
12
Keep
मन्त्री वदिष्यति ।
जन्तोः सावयवस्येह हस्ताद्यवयवा यथा ।
तथा नवयवस्यैवमातिवाहिकतात्मनः
13
Keep
पश्चादात्मनि सैवात्मा नानासंज्ञाः करिष्यति ।
आधिभौतिकतानाम्नि पृथ्व्याद्या आतिवाहिके
14
Keep
स्वप्नाभेऽस्मिञ्जगद्भाने संकल्पेनात्मरूपिणा ।
संज्ञात्मनात्मरूपेण स्वयं व्यवहरिष्यति
15
Keep
त्वामातिवाहिकाकारा यत्तत्स्फुरितवान्नवम् ।
जातिर्महातमस्कोऽयमिति तत्राभिधा कृता
16
Keep
ब्रह्मणो निर्विकारस्य विकारिण इव प्रभो ।
जातयो जीवतापत्तौ कलिता विविधाभिधाः
17
Keep
प्राथम्येनैव यद्ब्रह्म जीवतामिव गच्छति ।
तदैव बुद्ध्या भोक्ता तज्जातिः सात्त्विकसात्त्विकी
18
Keep
वर्तमाने भवे भव्यगुणैर्युक्ता तु मानद ।
केवला सात्त्विकी प्रोक्ता जातिर्जातिविदां वरैः
19
Keep
नवा भवैश्चेद्बहुभिर्भोगमोक्षैकभागिनी ।
जातिस्तत्प्रोच्यते तज्ज्ञैः सद्भी राजसराजसी
20
Keep
वर्तमाने भवे भव्यगुणैर्मुक्ता तु मानद ।
केवला राजसी प्रोक्ता जातिः स्वल्पभवे भवेत्
21
Keep
प्रथमात्यन्तबहुभिर्भवैश्चेऽन्मोक्षगामिनी ।
जातिस्तत्प्रोच्यते तज्ज्ञैः सद्भिस्तामसतामसी
22
Keep
सामान्येनैव बहुभिर्जन्मभिर्मोक्षभागिनी ।
केवला तामसी प्रोक्ता जातिर्जातिविशारदैः
23
Keep
क्रमेणानेन जातीनां विविधा भेदकल्पना ।
तासां तामसतामस्यां जातौ जातोऽसि मानद
24
Keep
बहूनि तव जन्मानि समतीतानि तान्यहम् ।
विविधानि विचित्राणि वीर जानामि नो भवान्
25
Keep
विशेषेण त्वनेनैव व्यर्थं कालोऽतिवाहितः ।
महाशवशरीरेण त्वयानन्तखगामिना
26
Keep
एवं तामसतामस्या जात्यासि जनितो यदा ।
तदा दुर्लभमोक्षस्त्वं संसारकुहरादिति
27
Keep
सिन्धुर्वदिष्यति ।
आर्योदाहर केनैषा प्राग्जातिर्जीयतेऽधमा ।
यावत्तथैव तिष्ठामि स्याच्चेत्तद्वद पावनम्
28
Keep
मन्त्री वदिष्यति ।
न किंचन महाबुद्धे तदस्तीह जगत्त्रये ।
यदनुद्वेगिना नाम पौरुषेण न लभ्यते
29
Keep
ह्यस्तनी दुष्क्रियाभ्येति शोभां सत्क्रियया यथा ।
अद्यैव प्राक्तनीं तस्माद्यत्नात्सत्कार्यवान्भव
30
Keep
यो यमर्थं प्रार्थयते तदर्थं यतते तथा ।
सोऽवश्यं तदवाप्नोति न चेच्छ्रान्तो निवर्तते
31
Keep
ना यथा यतते नित्यं यद्भावयति यन्मयः ।
यादृगिच्छेच्च भवितुं तादृग्भवति नान्यथा
32
Keep
मुनिरुवाच ।
एवमुक्तः स तेनाथ सिन्धुरुद्धुरया धिया ।
तदा तत्र तथा नाम राष्ट्रं त्यक्ष्यत्यशेषतः
33
Keep
गमिष्यति वनं दूरं प्रार्थितोऽपि हि मन्त्रिभिः । ।
नाश्रयिष्यति तद्भूयो राज्यमुच्छिन्नशात्रवम्
34
Keep
तिष्ठतः साधुमध्येऽस्य तद्विवेककथावशात् ।
पुष्पासङ्गादिवामोदो विवेकः समुदेष्यति
35
Keep
ततः कथमिदं जन्म कुतः संसार आगतः ।
इत्थं विचारसांतत्यात्स यास्यति विमुक्तताम्
36
Keep
नित्यं विचारणपरोऽथ भवन्स सिन्धुः
सत्सङ्गमेन पदमाप्स्यति पावनं सः ।
तद्यत्र पत्रमिव वातविधूयमानं
नो वस्तुतां व्रजति काचन नाम लक्ष्मीः
Previous
←
Sarga 156
Next
Sarga 158
→