Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 158
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 6 — Nirvāṇa (Uttarārdha)
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
Keep
मुनिरुवाच ।
एतत्ते कथितं सर्वं भविष्यद्भूतवत्तव ।
यथेच्छसि तथेदानीं व्याध साधु विधीयताम्
2
Keep
अग्निरुवाच ।
इति तस्य वचः श्रुत्वा विस्मयाकुलचेतनः ।
क्षीणं स्थित्वा जगामाशु स्नातुं व्याधस्तथा मुनिः
3
Keep
इति तौ चेरतुस्तत्र तपः शास्त्रविचारणैः ।
अकारणसुहृद्भूतावुभौ व्याधमहामुनी
4
Keep
अथाल्पेनैव कालेन मुनिर्निर्वाणमाययौ ।
देहं त्यक्त्वाऽपदेशान्ते परे परिणतिं गतः
5
Keep
कालेन बहुनान्येन ततो युगशतात्मना ।
व्याधस्य कामनां दातुं पद्मजन्मा समाययौ
6
Keep
व्याधः स्ववासनावेशं निवारयितुमक्षमः ।
जानन्नपि वरं पूर्वं वर्णितं समयाचत
7
Keep
ब्रह्मैवमस्त्विति प्रोच्य ययावभिमतां दिशम् ।
व्याधस्तपःफलं भोक्तुं खगवद्व्योम पुप्लुवे
8
Keep
वर्धमानेन देहेन जगत्पारे महानभः ।
वेगादगणितं कालं पूरयामास शैलवत्
9
Keep
महागरुडवेगेन तिर्यगूर्ध्वमधस्तथा ।
व्योम पूरयतस्तस्य कालो बहुतरो ययौ
10
Keep
अथ दीर्घेण कालेन यदा विद्याभ्रमस्य सः ।
अन्तं न समवाप्नोति तत्रोद्वेगमुपाययौ
11
Keep
.१०
उद्वेगादथ बद्ध्वासौ प्राणरेचनधारणाम् ।
प्राणांस्तत्याज नभसि शवीभूतमधोवपुः
12
Keep
चित्तं प्राणान्वितं व्योम्नि ययौ तत्रैव सिन्धुताम् ।
विदूरथारिरूपां तामखिलावनिपालिनीम्
13
Keep
देहो मेरुशताकारमहाशव इवाभवत् ।
द्वितीयोर्वीनिभो व्योम्नः पपाताशनिवज्रवत्
14
Keep
पिधानमिव कस्योर्वीवीथी कस्मिंश्चिदम्बरे ।
केशोण्ड्रकवदाभाते कस्मिंश्चिज्जागते भ्रमे
15
Keep
आकारपूरिताशेषवसुधाचलमण्डलः ।
विपश्चिच्छ्रेष्ठ कथितमेतत्ते तन्महाशवम्
16
Keep
यस्मिञ्छवं संपतितं जगत्यवनिमण्डले । ।
तदिदं जगदाभातमस्माकं स्वप्नपूर्यथा
17
Keep
तदेतच्छवमास्वाद्य शुष्का पूर्णा महोदरी ।
संपन्ना चण्डिका देवी रक्ता रक्तान्त्रपूरिता
18
Keep
मेदिनी मेदिनी जाता शवस्यैतस्य मेदसा ।
पूरिताऽपूर्वरूपेण हिमवद्गिरिरूपिणा
19
Keep
। तदैवैतन्महामेदो मृद्धातुत्वमुपागतम् ।
कालेन वसुधा भूयो भूत्वा मृन्मयतां गता
6-2
Keep
भूयः प्रजातानि वनानि भूमौ
ग्रामाः कृताः पत्तनसंयुताश्च ।
पातालतः साधुसमुत्थितास्ते
शैलाः प्रवृत्ता व्यवहारलक्ष्मीः
Previous
←
Sarga 157
Next
Sarga 159
→