Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 163
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 6 — Nirvāṇa (Uttarārdha)
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
Keep
विनेन्द्रियजयेनेदं नाज्ञत्वमुपशाम्यति ।
तदिन्द्रियाणि जीयन्ते कथं कथय मे मुने
2
Keep
न च प्रभूतभोगेषु न पुंस्त्वे न च जीविते ।
न चेन्द्रियजयोन्मुक्तौ दीपस्तनुदृशो यथा
3
Keep
तदिन्द्रियजये युक्तिमिमामविकलां श्रृणु ।
सिद्धिमेति स्वयत्नेन सुखेन तनुरेतया
4
Keep
चिन्मात्रं पुरुषं विद्धि चेतनाज्जीवनामकम् ।
यच्चेतति स जीवोऽन्तस्तन्मयो भवति क्षणात्
5
Keep
संवित्प्रयत्नसंबोधनिशिताङ्कुशकर्षणैः ।
मनोमतङ्गजं मत्तं जित्वा जयति नान्यथा
6
Keep
चित्तमिन्द्रियसेनाया नायकं तज्जयाज्जयः ।
उपानद्गूढपादस्य ननु चर्मावृतैव भूः
7
Keep
संविदं संविदाकाशे संरोप्य हृदि तिष्ठतः ।
स्वयमेव मनः शाम्येन्नीहार इव शारदः
8
Keep
स्वसंविद्यत्नसंरोधाद्यथा चेतः प्रशाम्यति ।
न तथाङ्ग तपस्तीर्थविद्यायज्ञक्रियागणैः
9
Keep
यच्च संवेद्यते किंचित्तत्तत्संविदि संविदा ।
नूनं विस्मार्यते यत्नाद्भोगानामिति तज्जयः
10
Keep
स्वसंवेदनयत्नेन विषयामिषतोऽनिशम् ।
किंचित्संरोधिता संवित्तत्प्राप्तं वैबुधं पदम्
11
Keep
स्वधर्मव्यवहारेण यदायाति तदेव मे ।
रोचते नान्यदित्येव पदे वज्रदृढीभव
12
Keep
संवित्प्रवृत्तिमर्थेषु विरुद्धेषु विवर्जयन् ।
अर्जयञ्छमसंतोषौ यः स्थितः स जितेन्द्रियः
13
Keep
संविद्रसिकतास्वन्तस्तथा नीरसतासु च ।
यस्य नोद्वेगमायाति मनस्तस्योपशाम्यति
14
Keep
संवित्प्रयत्नसंरोधान्मनः स्वायनमुज्झति ।
चेतश्चपलतोन्मुक्तं विवेकमनुधावति
15
Keep
विवेकवानुदारात्मा विजितेन्द्रिय उच्यते ।
वासनावीचिवेगेन भवाब्धौ न स मुह्यते
16
Keep
साधुसंपर्कसच्छास्त्रसमालोकनतोऽनिशम् ।
जितेन्द्रियो यथावस्तु जगत्सत्यं प्रपश्यति
17
Keep
सत्यावलोकनाच्छान्तिमेति संसारसंभ्रमः ।
मराविव जलज्ञानं मिथ्यापतनदुःखदम्
18
Keep
अचेत्यमेव चिन्मात्रमिदं जगदिति स्थितम् ।
इत्येव सत्यबोधस्य बन्धमोक्षदृशौ कुतः
19
Keep
अनाकारं यथा वारि क्षीणं वहति नो पुनः ।
अकारणं तथा दृश्यं ज्ञानच्छिन्नं न रोहति
20
Keep
वेदनं व्योममात्रं त्वमहमित्यादिरूपधृक् ।
वर्जयित्वैतदन्यत्स्यादहमित्यादिकं जगत्
21
Keep
अविद्यामात्रमेवेदमहमित्यादिकं जगत् ।
चिद्व्योम्न्येव स्थितं शान्तं शून्यमात्रशरीरकम्
22
Keep
इदं चिद्व्योम्नि चिच्छाया जगदित्येव भासते ।
शून्यशून्यैव चिच्चासौ शून्या चेत्येव निश्चयः
23
Keep
स्वप्नदर्शनदृष्टान्तः केन नामात्र खण्ड्यते ।
असन्मयोऽनुभूतश्च स्वानुभूतोऽप्यसन्मयः
24
Keep
सोऽङ्ग संवित्तिमात्रात्मा यद्यद्राज्यं महीयते ।
नकर्तृकर्मकरणं रूपं तद्वज्जगच्चितेः
25
Keep
अकर्तृकर्मकरणमहं चिद्धनमात्रकम् ।
जगच्चेदमनिर्देश्यं स्वसंवेदनलक्षणम्
26
Keep
यथा स्वप्नेषु मरणमनुभूतं न विद्यते ।
मरौ जलेच्छाऽविद्येयं विद्यमाना न विद्यते
27
Keep
चिद्व्योम्ना काचकच्यं स्वं सर्गादौ व्योम्नि चेतितम् ।
जगदित्येव निर्मूलं काकतालीयवत्स्वयम्
28
Keep
निर्मूलमेव भातीदमभातमपि भातवत् ।
तस्माद्यद्भासुरमिदं तत्तदेव पदं विदुः
29
Keep
जीवादिकचनं त्वत्र यद्भातीदं तदेव तत् ।
शून्यतैव भवेद्व्योम वार्येवावर्तवृत्तयः
30
Keep
यथावयविनो रूपमेकं सावयवं भवेत् ।
एकं जीवाद्यवयवं ब्रह्मानवयवं तथा
31
Keep
आभासमात्रं दृश्यात्म चिन्मात्रं शान्तमव्ययम् ।
स्थितमास्थाः किमेतस्मिन्स्वभावे स्वे विचार्यते
32
Keep
नाद्यन्तमन्तःकलनाः काश्चित्सन्ति परे पदे ।
तद्रूपमेवाविद्येयं नाविद्या त्विह विद्यते
33
Keep
जीवः स्वप्नाद्विशञ्जाग्रज्जाग्रतः स्वप्नमाविशन् ।
प्रबुद्धो वास्त्वबुद्धो वाप्येकरूपतया स्थितः
34
Keep
स्थिते सुषुप्ततुर्ये द्वे सदा स्वप्नेऽथ जाग्रति ।
जाग्रत्स्वप्नावेकमेव तुर्यं वेत्ति तु बुद्धधीः
35
Keep
जाग्रत्स्वप्नः सुषुप्तं च सर्वं तुर्यं प्रबोधिनः ।
नाविद्या विद्यते तस्य द्वयस्थोऽप्येव सोऽद्वयः
36
Keep
द्वैतमद्वैतमित्येतदहंत्वमिदमित्यपि ।
निरविद्यस्य कलना कुतः काप्यम्बरं कुतः
37
Keep
द्वैताद्वैतसमुद्भेदैर्वाक्यसंदर्भविभ्रमैः ।
क्रीडन्त्यबुद्धाः शिशवो बोधवृद्धा हसन्ति तान्
38
Keep
द्वैताद्वैतविवादेहा हृदयाकाशमञ्जरी ।
विनैतयेह नोदेति प्रबोधाकाशमार्जनम्
39
Keep
सुहृद्भूत्वा विवादेन द्वैताद्वैतविचारणा ।
कृता हृदयगेहेऽन्तरविद्याभस्ममार्जनी
40
Keep
तच्चित्तास्तद्गतप्राणा बोधयन्तः परस्परम् ।
कथयन्तश्च तन्नित्यं तुष्यन्ति च रमन्ति च
41
Keep
तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् ।
जायते बुद्धियोगोऽसौ येन ते यान्ति तत्पदम्
42
Keep
किलोपकुरुते यत्नात्तृणमात्रावगोपने ।
कथं सिध्यत्ययत्नेन त्रैलोक्यगणगोपनम्
43
Keep
अध्यात्मव्यसनोन्मुक्तं ततं हृत्स्थाऽधमाऽप्रभु ।
उपहासास्पदं यस्या जगदप्युत्तमस्थितेः
44
Keep
किं नामेदं किल सुखं यद्राज्यादिमनोङ्कुरम् ।
तत्त्वज्ञानैकविश्रान्तौ देवराजपदं तृणम्
45
Keep
सुप्ताः प्रबुद्धाः पश्यन्ति दृश्यं दृश्ये रता यथा ।
तथा दृश्येऽरताः शान्ताः सन्तः पश्यन्ति तत्पदम्
46
Keep
विना यत्नभरेणेदं न कदाचन सिद्ध्यति ।
महतोऽभ्यासवृक्षस्य फलं विद्धि परं पदम्
47
Keep
इदं बहूक्तमेतेन किमेतेनेति दुर्मतिः ।
न ग्राह्यैतावताप्युक्ते नादत्ते नेदमज्ञधीः
48
Keep
भूयोभूयः परावृत्त्या चिरमास्वाद्यते यदि ।
श्रूयते कथ्यते चेदं तज्ज्ञेनाज्ञेन भूयते
49
Keep
यस्त्वेकवारमालोक्य दृष्टमित्येव संत्यजेत् ।
इदं स नाम शास्त्रेभ्यो भस्माप्याप्नोति नाधमः
50
Keep
इदमुत्तममाख्यानमध्येयं वेदवत्सदा ।
व्याख्येयं पूजनीयं च पुरुषार्थफलप्रदम्
51
Keep
यदस्मात्प्राप्यते शास्त्रात्तत्तद्वेदादवाप्यते ।
अस्मिन्ज्ञाते क्रिया ज्ञानं द्वयं याति पवित्रताम्
52
Keep
वेदान्ततर्कसिद्धान्तस्त्वस्मिन्ज्ञाते च बुध्यते ।
इदमुत्तममाख्यानं व्याख्यातं शास्त्रदृष्टिषु
53
Keep
कारुण्याद्भवतामेतदहं वच्मि न मायया ।
भवन्तस्त्ववगच्छन्ति मायामेतद्विचार्यताम्
54
Keep
अस्माच्छास्त्रवराद्वोधा जायन्ते ये विचारितात् ।
लवणैर्व्यञ्जनानीव भान्ति शास्त्रान्तराणि तैः
55
Keep
अनार्यमिदमाख्यानमित्यनादृत्य दृश्यधीः ।
मा भवंत्वात्महन्तारो भवन्तो भवभागिनः
56
Keep
तातस्य कूपोऽयमिति ब्रुवाणाः
क्षारं जलं कापुरुषाः पिबन्ति ।
यथा भवन्तो विविचारवन्त-
स्तथानिशं मा भवताज्ञताप्त्यै
Previous
←
Sarga 162
Next
Sarga 164
→