Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 164
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 6 — Nirvāṇa (Uttarārdha)
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
Keep
जीवाणवो जगत्यन्तश्चिदादित्यांशुमण्डले ।
यत्र तेऽवयवास्तुल्यास्तेनानवयवात्मता
2
Keep
सर्वं प्राप्य परं बोधं वस्तु स्वं रूपमुज्झति ।
पुनस्तदेकवाक्यत्वान्न किंचिद्वापरं भवेत्
3
Keep
सर्वास्वेवास्ववस्थासु तत्त्वज्ञविषयं तु तत् ।
परमेवामलं ब्रह्म नान्यत्किंचित्कदाचन
4
Keep
यच्चातत्त्वज्ञविषयं तज्जानाति स एव तत् ।
वयं तु विद्मो नाहं त्वं नातत्त्वज्ञं न वस्तु तत्
5
Keep
अयं सोहमयं चाज्ञः सत्योऽयमिति बुद्धयः ।
संभवन्ति न तत्त्वज्ञे क्व मेरौ मृगतृष्णिका
6
Keep
यथैकद्रव्यनिष्ठे हि चित्तेऽन्यद्रव्यसंविदः ।
न भवन्ति परे तद्वन्नान्यास्तिष्ठन्ति संविदः
7
Keep
इदं नासीन्न चोत्पन्नं न चास्ति न भविष्यति ।
जगद्ब्रह्मैव सद्रूपमिदमित्थमवस्थितम्
8
Keep
चिन्नभः काचकच्यं च स्वात्मन्येवावतिष्ठते ।
जगदित्येव तत्तत्र तज्ज्ञानेनैव चेत्यते
9
Keep
स्वप्नेषु कल्पनपुरेषु यथान्यदस्ति
चिन्मात्रमच्छगगनं ननु वर्जयित्वा ।
नो किंचनापि न च रूपमरूपकेषु
रूपं तथा जगति संप्रति जाग्रदाख्ये
10
Keep
पूर्वं किलोद्भवति किंचन नाम नेदं
तच्चावभाति तदनादि खमेव चित्त्वात् ।
नो कारणं न सहकारि किलास्ति यत्र
तस्मात्स्वयं भवति वस्त्विति केयमुक्तिः
11
Keep
तस्मात्स्वयं भवति नेह हि कश्चिदादौ
ब्रह्मादयोऽज्ञविदिता न च नाम सन्ति ।
व्योमेदमाततमयं स इतः स्वयंभू
रित्यादि चिद्गगनमेव चिता विभाति
Previous
←
Sarga 163
Next
Sarga 165
→