Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 201
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 6 — Nirvāṇa (Uttarārdha)
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
Keep
श्रीवाल्मीकिरुवाच ।
अथार्वाक्साधुवादेषु प्रशान्तेषु शनैःशनैः ।
ज्ञानोपदेशमासाद्य प्रोल्लसत्स्विव राजसु
2
Keep
प्रशान्तसंसृतिभ्रान्तौ जने चरितमात्मनः ।
स्वयं हसति चित्तेन सत्यं समनुधावता
3
Keep
वलच्चित्तकलं ज्ञानसमास्वादनतत्परे ।
विवेकिनि सभालोके शान्ते ध्यानमिवास्थिते
4
Keep
बद्धपद्मासने रामे सभ्रातरि गुरोः पुरः ।
स्थिते कृताञ्जलौ दीप्तगुरुवक्रगतेक्षणे
5
Keep
पार्थिवे किमपि ध्यानमिवास्वादयति स्थितिम् ।
जीवन्मुक्तात्मिकामन्तरादिमध्यान्तपावनीम्
6
Keep
ग्रहीतुमर्चां भक्तानां मानितार्थजनो मुनिः ।
तूष्णीं क्षणमिव स्थित्वा प्रोवाचानाकुलाक्षरम्
7
Keep
स्वकुलाकाशशीतांशो राम राजीवलोचन ।
किमन्यदिच्छसि श्रोतुं कथयामिमतेच्छया
8
Keep
स्थितिं च कीदृशीमेनामद्यानुभवसि स्वयम् ।
किंरूपमिदमाभासं जागतं वद पश्यसि
9
Keep
इत्युक्ते मुनिना तेन प्राह राजकुमारकः ।
अविह्वलं मृदु स्पष्टं गुरोरालोकयन्मुखम्
10
Keep
त्वत्प्रसादेन यातोऽस्मि परां निर्मलतां प्रभो ।
शान्ताशेषकलङ्काङ्कं शरदीव नभस्तलम्
11
Keep
सर्वा एवोपशान्ता मे भ्रान्तयो भवभङ्गदाः ।
स्वरूपेणावदातेन तिष्ठाम्यच्छमिवाम्बरम्
12
Keep
स्थितोऽहं गलितग्रन्थिः शान्ताशेषविशेषणः ।
स्फटिकालयमध्यस्थस्फटिकामलधीरहम्
13
Keep
अन्यच्छ्रोतुमथाहर्तुं शान्तं नेच्छति मे मनः ।
परां तृप्तिमुपायान्तं सुषुप्तमिव संस्थितम्
14
Keep
शान्ताशेषपरामर्शं विगताशेषकौतुकम् ।
संत्यक्ताशेषसंकल्पं शान्तं मम मुने मनः
15
Keep
परिनिर्वामि शाम्यामि जाग्रदेव जगत्स्थितौ ।
अस्वप्नमपुनर्बोधं स्वपिमीव निरामयम्
16
Keep
आशाविधुरितामात्मसंस्थितिं प्राक्तनीं तनौ ।
प्रविहस्य स्फुरत्सूक्तैः स्वस्थस्तिष्ठाम्यसंशयम्
17
Keep
नोपदेशेन नार्थेन न शास्त्रैर्न च बन्धुभिः ।
त्यागेन च न चैतेषामधुना मम कारणम्
18
Keep
साम्राज्यस्याथवा व्योम्नि या स्थितिः क्षोभवर्जिता ।
तामेवानुभवाम्यत्र मच्चित्तामनपायिनीम्
19
Keep
खादप्यतितरामच्छं चिदाकाशांशमात्रकम् ।
जगदित्येव पश्यामि लोचनाद्यङ्गतां गतः
20
Keep
आकाशमात्रमेवेदं जगदित्येकनिश्चयः ।
दृश्यनाम्नि नभस्यस्मिन्क्षये जागर्मि चाक्षयः
21
Keep
यथाकामं यथाप्राप्तं यथास्थितमिव स्थितम् ।
यद्वक्ति तदविघ्नेन करोम्यपगतैषणम्
22
Keep
न तुष्यामि न हृष्यामि न पुष्यामि न रोदिमि ।
कार्यं कार्यं करोम्येको भ्रान्तिर्दूरं गता मम
23
Keep
अन्यतामेतु सर्गोऽयं वातु वा प्रलयानिलः ।
सौम्यो भवतु वा देशः स्वस्थोऽहं स्वात्मनि स्थितः
24
Keep
विश्रान्तोस्मि विलक्ष्योस्मि दुर्लक्ष्योस्मि निरामयः ।
नाशाभिर्बन्धमाप्नोमि मुने खमिव मुष्टिभिः
25
Keep
यथा तरुगतात्पुष्पाद्गन्धः प्राप्य नभःपदम् ।
तिष्ठत्येवमहं देहादतीतः संस्थितः समः
26
Keep
यथैव सर्वे राजानो विहरन्ति यथासुखम् ।
अप्रबुद्धाः प्रबुद्धाश्च राज्येषु बहुकर्मसु
27
Keep
शान्तहर्षविषादाशः स्थिरैकसमदर्शनः ।
स्थित आत्मनि निःशङ्कं तथैव विहराम्यहम्
28
Keep
सर्वस्योपर्यपि सुखी सुखं नेहामि मे प्रभो ।
जनसाम्येन तिष्ठामि यथेच्छं मां नियोजय
29
Keep
बालो लीलामिव त्यक्तशङ्कं संसारसंस्थितिम् ।
यावद्देहमिमां साधो पालयाम्यमलैकदृक्
30
Keep
भुञ्जे पिबामि तिष्ठामि पालयामि निजक्रियाम् ।
जातोऽहं विगताशङ्कस्त्वत्प्रसादान्मुनीश्वर
31
Keep
अहो बत महापुण्यं पदमासादितं त्वया ।
अनादिमध्यपर्यन्तमिदं यत्र न शोच्यते
32
Keep
सम्यक्समसमाभोगे शीतले स्वात्मनि स्वयम् ।
नभसीव नभः शान्ते विश्रान्तिमसि लब्धवान्
33
Keep
दिष्टया जातो विशोकस्त्वं दिष्ट्या सम्यगवस्थितः ।
दिष्टया लोकद्वयेऽनर्थशङ्का ते शममागता
34
Keep
दिष्टया रघूणां तनय संज्ञः पावितवानसि ।
भूतभव्यभविष्यस्थां बोधेन कुलसंततिम्
35
Keep
अधुना मुनिनाथस्य विश्वामित्रस्य राघव ।
पूरयित्वार्थितां भुक्त्वा पित्रा सह महीमिमाम्
36
Keep
त्वयान्विताः सतनयभृत्यबान्धवाः
पदातयः सरथंगजाश्वमण्डलाः ।
निरामया विगतभयाः स्थिरश्रियः
सदोदयाः सुभग भवन्तु राघवाः
Previous
←
Sarga 200
Next
Sarga 202
→