Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 202
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 6 — Nirvāṇa (Uttarārdha)
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
Keep
श्रीवाल्मीकिरुवाच ।
एतच्छ्रुत्वा वसिष्ठस्य वचः संसदि पार्थिवाः ।
सिक्ता इवामृतापूरैरन्तःशीतलतां ययुः
2
Keep
रामः कमलपत्राक्षो रराज वदनेन्दुना ।
क्षीरोद इव संपूर्णः सुधापूरेण चारुणा
3
Keep
वामदेवादयः सर्वे तत्त्वज्ञानविशारदाः ।
अहो भगवता ज्ञानमुक्तमित्यूचुरादरात्
4
Keep
शान्तान्तःकरणो राजा मुदा दशरथो बभौ ।
तुष्ट्यैव संप्रहृष्टाङ्गो नवां द्युतिमुपागतः
5
Keep
ज्ञातज्ञेयेषु बहुषु साधुवादकथास्वथ ।
उवाच गलिताज्ञानो रामो वाक्यमिदं पुनः
5-2
Keep
भगवन्भूतभव्येश त्वयास्माकमलं मलम् ।
संप्रमृष्टमिदं हेम्नः श्यामत्वमिव वह्निना
7
Keep
अभूम वयमात्मीयकायमात्रदृशः पुरा ।
प्रभो संप्रति संपन्ना विष्वग्विश्वावलोकिनः
8
Keep
स्थितोऽस्मि सर्वसंपूर्णः संपन्नोऽस्मि निरामयः ।
जातोऽस्मि विगताशङ्को बुधो जागर्मि संप्रति
9
Keep
आनन्दितोऽस्म्यखेदाय सुखितोस्मि चिराय च ।
स्थितोऽनस्तमयायैव शाश्वतार्थोदयो मम
10
Keep
अहो बत पवित्रेण शीतेन ज्ञानवारिणा ।
त्वया सिक्तोस्मि हृष्यामि पद्मवद्धृदये स्वयम्
11
Keep
इयमद्य मया लब्धा पदवी त्वत्प्रसादतः ।
यस्यां स्थितस्य मे सर्वममृतत्वं गतं जगत्
12
Keep
अन्तःप्रसन्नमतिरस्तसमस्तशोकः
शोभां गतोऽहममलाशय एव शान्त्या ।
आनन्दमात्मनि गतः स्वयमात्मनैव
नैर्मल्यमभ्युपगतोऽस्मि नमोस्तु मह्यम्
Previous
←
Sarga 201
Next
Sarga 203
→