Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 27
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 6 — Nirvāṇa (Uttarārdha)
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
Keep
निर्वाणो भव शान्तात्मा यथाप्राप्तानुवृत्तिमान् ।
सन्नेवासत्समः सौम्य स्फटिकादिव निर्मितः
2
Keep
एकस्मिन्नेव सर्वस्मिन्संस्थिते विततात्मनि ।
नैकस्मिन्न च सर्वस्मिन्नानाताकलना कुतः
3
Keep
आद्यन्तरहितं सर्वं व्योम चित्तत्त्वनिर्भरम् ।
शरीरोत्पत्तिनाशेषु का चित्तत्त्वस्य खण्डना
4
Keep
स्फुरन्ति हि जडक्रीडाश्चिच्चमत्कारचापलात् ।
अचापलात्प्रतीयन्ते तरङ्गा इव वारिणि
5
Keep
यथा शुभ्राम्बुदे वस्त्रशङ्का न फलभागिनी ।
देहोऽयमहमित्येषा तथा शङ्का न वास्तवी
6
Keep
माऽवस्तुनि निमग्नस्त्वं भव भूरिभवप्रदे ।
वस्त्वनन्तसुखायाद्यं भव्यं भावय भूतये
7
Keep
चिद्व्योमानन्तमेवास्मिन्नेयत्तास्ति समात्मनः ।
इत्येव परमं वस्तु वस्तु तत्परमस्तु ते
8
Keep
एवं निश्चयवान्नाम त्वमेवासि निरञ्जनः ।
ध्याता ध्येयं तथा ध्यानं सत्यं चापि न किंचन
9
Keep
द्रष्टा दृश्यं दर्शनं च चित एव विभूतयः ।
अतत्तत्संविदो नान्यदध्यानं ध्येयमस्ति च
10
Keep
उद्यति प्रतिपच्चन्द्रे वहति प्रलयानिले ।
आत्मतत्त्वं समं सौम्यं न क्षुभ्यति न शाम्यति
11
Keep
यथा नौयायिनः स्थाणुतरुशैलादिवेपनम् ।
यथा शुक्तौ रजतधीस्तथा देहादि चेतसः
12
Keep
यथा देहादि चित्तस्य तथा देहस्य चित्तकम् ।
तथैव जीवः परमे पदे द्वैतमतः कुतः
13
Keep
सर्वमेकमिदं शान्तं ब्रह्म बृंहितवेदनात् ।
न किंचिज्जगदाद्यस्ति भ्रान्तिरन्या न विद्यते
14
Keep
न विद्यते यथा व्योम्नि वनं स्नेहश्च सैकते ।
विद्युच्छशाङ्कबिम्बे च तथा देहादि चेतसि
15
Keep
अविद्यमान एवास्मिन्मा बिभीहि जगद्भ्रमे ।
एतदेव परं सत्यं विद्धि सत्यविदां वर
16
Keep
जगदस्ति न सत्तेति यासीद्भ्रान्तिस्तवाद्य सा ।
शान्ता मदुपदेशेन किमन्यद्बन्धकारणम्
17
Keep
स्थाल्युदञ्चनकुम्भादि यथा मृन्मात्रकं तथा ।
चित्तमात्रं जगदिदं क्षीणं तच्च विचारणात्
18
Keep
आपत्सु संपत्सु भवाभवेषु
शान्तैषणाहर्षविषादसंवित् ।
सौम्यादहंभावविदा विमुक्तो
यथास्थितं तिष्ठ विलीय मास्व
19
Keep
यथास्थितं वस्त्वधिगम्य राम
स्थितोऽसि चेद्वा स्वकुलाम्बरेन्दो ।
तद्धर्षशोकैषणदूषणादि
विमुच्य वा तिष्ठ यथेच्छमास्व
Previous
←
Sarga 26
Next
Sarga 28
→