Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 28
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 6 — Nirvāṇa (Uttarārdha)
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
Keep
बीजाङ्कुराणां पुरुषकर्मणां जन्मकारिणाम् ।
दैवशब्दार्थयुक्तानां तत्त्वं वद विभो पुनः
2
Keep
दैवकर्मादिपर्यायं घटादि घटतावधि ।
संवित्स्पन्दनमेवेदं लोके पुरुषतां गतम्
3
Keep
संवित्स्पन्दादृते पुंस्त्वं कर्म वा कीदृशं भवेत् ।
घटावटपटाद्यात्म ह्येतेनैव जगत् कृतम्
4
Keep
प्रवर्तते जगल्लक्ष्मीः संवित्स्पन्दात्सवासनात् ।
निवर्तते हि संसारः संवित्स्पन्वादवासनात्
5
Keep
अवासनं हि संवित्तेः स्पन्दमस्पन्दनं विदुः ।
सस्पन्दोऽप्यस्फुरत्स्पन्दो येनावर्तादिनोह्यते
6
Keep
मनागपि न भेदोऽस्ति संवित्स्पन्दमयात्मनोः ।
कल्पनांशादृते राम सृष्टौ पुरुषकर्मणोः
7
Keep
जलवीच्योर्यथा द्वित्वं संकल्पोत्थं न वास्तवम् ।
तथेह चित्परिस्पन्दरूपयोर्जन्तुकर्मणोः
8
Keep
कर्मैव पुरुषो राम पुरुषस्यैव कर्मता ।
एते ह्यभिन्ने विद्धि त्वं यथा तुहिनशीतते
9
Keep
हिमं यत्तद्यथा शैत्यं यच्छैत्यं तद्यथा हिमम् ।
यत्कर्मासौ तथा जन्तुर्यो जन्तुः कर्म तत्तथा
10
Keep
संवित्स्पन्दरसस्यैव दैवकर्मनरादयः ।
पर्यायशब्दा न पुनः पृथक्कर्मादयः स्थिताः
11
Keep
स्पन्दात्संविज्जगद्वीजमस्पन्दाद्यात्यबीजताम् ।
अङ्कुरश्च तदेवान्तः स्थितत्वादङ्कुरश्रियः
12
Keep
चित्त्वं च क्वचिदस्पन्दं क्वचित्स्पन्दं स्वभावतः ।
अनन्तमेकार्णववद्दिक्कालक्रमसंस्थितम्
13
Keep
संवित्स्पन्दो वासनावानिह बीजमकारणम् ।
भूत्वा कारणतामेति देहादेरङ्कुरावलेः
14
Keep
तृणवल्लीलतागुल्मबीजान्तरगतेरपि ।
बीजं संवित्स्पन्द एव तस्य बीजं न विद्यते
15
Keep
न बीजाङ्कुरयोर्भेदो विद्यतेऽग्न्यौष्ण्ययोरिव ।
बीजमेवाङ्कुरं विद्धि विद्धि कर्मैव मानवम्
16
Keep
चित्स्फुरन्ती भूमिकोशे करोति स्थावराङ्कुरम् ।
स्थूलान्सूक्ष्मान्मृदुक्रूरान्पयोबुद्बुदकानिव
17
Keep
चिता विना धराकोशादत्यन्तपरिपेलवात् ।
अङ्कुरान्वज्रसारांश्च क उल्लासयितुं क्षमः
18
Keep
प्राणिवीर्यरसान्तस्था संविज्जंगममाततम् ।
तनोति लतिकान्तस्थो रसः पुष्पफलं यथा
19
Keep
यदि सर्वगता संविद्भवेन्नातिबलीयसी ।
तत्क उल्लासने शक्तः स्याद्देवासुरभूभृताम्
20
Keep
जङ्गमानां स्थावराणामेतदाद्यं च बीजकम् ।
संविद्विस्फुरणामात्रमस्य बीजं न विद्यते
21
Keep
बीजाङ्कुरविकल्पानां क्रियापुरुषकर्मणाम् ।
ऊर्मिवीचितरङ्गाणां नास्ति भेदो न वस्तुनि
29
Keep
द्वित्वं नृकर्मणोर्यस्य बीजाङ्कुरतया तयोः ।
विपश्चित्पशवे तस्मै महतेऽस्तु सदा नमः
23
Keep
संवित्तेर्जन्मबीजस्य योऽन्तस्थो वासनारसः ।
स करोत्यङ्कुरोल्लासं तमसङ्गाग्निना दह
24
Keep
कुर्वतोऽकुर्वतश्चैव मनसा यदमज्जनम् ।
शुभाशुभेषु कार्येषु तदसङ्गं विदुर्बुधाः
25
Keep
अथवा वासनोत्साद एवासङ्ग इति स्मृतः ।
यया कयाचिद्युक्त्यान्तः संपादय तमेव हि
26
Keep
ययैव वेत्सि ततया युक्त्या पुरुषयत्नतः ।
वासनाङ्कुरनिर्मूलमेतदेव परं शिवम्
27
Keep
पौरुषेण प्रयत्नेन यथा जानासि वा तथा ।
निवारयाहंभावांशमेषोऽसौ वासनाक्षयः
28
Keep
नास्त्येव पौरुषादन्या संसारोत्तरणे गतिः ।
निरहंभावरूपेऽस्मिन्वासनाक्षयनामनि
29-2
Keep
आद्यैव संविदस्तीह सोऽङ्कुरो बीजमस्ति तत् ।
तत्कर्म तच्च पुरुषस्तद्दैवं तच्छुभाशुभम्
30
Keep
न बीजमादावस्त्यन्यन्नाङ्कुरो न च वा नरः ।
न कर्म न च दैवादि केवलं चिदुदेति हि
31
Keep
नो बीजमस्ति न किलाङ्कुरकोऽपि वास्ति
नाप्यस्ति कर्म पुरुषश्च न वास्ति साधो ।
एकं तु चित्त्वमुदितं ह्यनयाभिधान-
लक्ष्म्या नटः सुरनरासुरशोभयेव
32
Keep
इत्येव निश्चयमनामय भावयित्वा
त्यक्त्वा भृशं पुरुषकर्मविचारशङ्काम् ।
निर्वासनः सकलसंकलनाविमुक्तः
संविद्वपुर्ननु यथाभिमतेच्छमास्व
33
Keep
प्रशान्तसर्वेच्छमशङ्कमच्छ-
चिन्मात्रसंस्थोऽखिलकार्यकारी ।
आत्मैकरामः परिपूर्णकामो
भवाभयो राम शमाभिरामः
Previous
←
Sarga 27
Next
Sarga 29
→