Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 42
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 6 — Nirvāṇa (Uttarārdha)
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
Keep
चित्तवत्कचनं शान्ते यत्तत्तस्मान्न भिद्यते ।
अव्याकृतामलतया क्वाऽतः सर्गादिसंभवः
2
Keep
चित्तदीपे गते यान्ति भ्रान्तिवद्भान्ति खे स्थिते ।
रूपालोकमनस्कारसंविदोऽम्बुद्रवोर्मयः
3
Keep
निरस्तकरणापेक्षं मरुतः स्पन्दनं यथा ।
यथा विसरणं भासस्तथा जगदिदं परे
4
Keep
द्रवत्वमिव कीलाले शून्यत्वमिव चाम्बरे ।
स्पन्दत्वं मरुतीवेदं किमप्यात्ममयं परे
5
Keep
महाचिति महाकाशे यदिदं भासते जगत् ।
तच्चित्त्वमेव कचति निर्मलत्वं मणाविव
6
Keep
यथा द्रवत्वं पयसि यथा शून्यत्वमम्बरे ।
यथा प्रस्पन्दनं वायौ महाचिति तथा जगत्
7
Keep
वेत्ति वायुर्यथा स्पन्दं तथा वेत्ति जगच्चितिः ।
न द्वैतैक्यादिभेदानां मनागप्यत्र संभवः
8
Keep
अविवेकविवेकाभ्यां भासुरं भङ्गुरं जगत् ।
बोधे सदैव सद्रूपमभासुरमभङ्गुरम्
9
Keep
ज्ञप्तिमात्रादृते शुद्धादादिमध्यान्तवर्जितात् ।
नान्यदस्तीह निर्णीतं महाचिन्मात्ररूपिणः
10
Keep
तत्कस्यचिच्छिवं शान्तं कस्यचिद्ब्रह्म शाश्वतम् ।
कस्यचिच्छून्यतामात्रं कस्यचिज्ज्ञप्तिमात्रकम्
11
Keep
तदनन्तात्म चिद्रूपं चेत्यतामिव भावयत् ।
स्वसंस्थमेव ज्ञेयत्वमज्ञत्वमिव गच्छति
12
Keep
चित्तया नास्ति सत्ता च चित्तता नास्ति तां विना ।
विना विना यथा वायोर्यथा स्पन्देषु कारणम्
13
Keep
तथा महाचितोच्छायाः सर्गसंवित्तिवृत्तिषु ।
नित्यं सत्त्वमसत्त्वं वा हेतोरन्यानपेक्षणात्
14
Keep
इत्यत्रार्थोऽभविष्यत्स द्वित्वैकत्वास्तितावशात् ।
कोऽत्र कल्पयिता द्वित्वमेकत्वं वा महाम्बरे
15
Keep
विष्वग्विश्वमपारैकपरमाकाशकोशता ।
यथा स्पन्दानिलद्वित्वं शाब्दमेव न वास्तवम्
16
Keep
विश्वविश्वेश्वरद्वित्वं तथैवासन्मयात्मकम् ।
सदेवासंभवद्द्वित्वं महाचिन्मात्रकं च यत्
17
Keep
विश्वाभासं तदेवेदं न विश्वं सन्न विश्वता ।
देशकालादिमत्त्वेन कदाचिद्धेम्नि सत्यता
18
Keep
कटकत्वस्य भिन्नस्य विश्वस्य च तथा परे ।
द्वित्वैक्यासंभवे चात्र कार्यकारणता कुतः
19
Keep
स्याच्चेत्तत्कल्पनामात्रमेवैतन्नान्यवस्तुता ।
शून्यता नभसीवात्र द्रवत्वमिव चाम्भसि
20
Keep
खे खलेखाप्यभिन्नेव किलास्ति जगदादिता ।
यद्रूपं ब्रह्म तद्रूपं जगत्क्वात्र द्वितैकते
21
Keep
यद्रूपं व्योम तद्रूपमेवं शून्यं किलाखिलम् ।
एकात्मनि तते स्वच्छे चिन्मात्रे सर्वरूपिणि
22
Keep
शिलापुत्रकसेनायां पाषाणत्व इवास्थिते ।
कार्यकारणवैचित्र्यं कथं संभवति क्व वा
23
Keep
कथमव्योमता व्योम्नि द्वितीयासंभवाद्भवेत् ।
प्रतिभात्मैव भारूपो भाति सर्गो महाचिति
24
Keep
पुत्रिकेवोपलोत्कीर्णा तन्मयत्वात्तदात्मिका ।
साधो यथास्थितस्यैवं बुद्ध्वा विश्वं प्रलीयते
25
Keep
काष्ठमौनदशाभासं संसारमवशिष्यते ।
यथा निमीलिताक्षस्य रूपालोकमनोभ्रमः
26
Keep
स्वप्ने जाग्रत्यनग्रस्थोऽप्यसन्नेवास्तिभावनात् ।
तथैवोन्मीलिताक्षस्य रूपालोकमनोभ्रमः
27
Keep
स्वप्ने जाग्रत्यनग्रस्थोऽप्यसन्नेवास्तिभावनात् ।
भावनोपशमं कृत्वा शिलीभूय यथास्थितम्
28
Keep
अशिलीभूतमेवान्तः स्वभावं सममास्यताम् ।
आविवेकोपहारेण यथाप्राप्तार्थपूजनैः
29
Keep
बोधाय पूज्यतां बुद्ध्या स्वभावः परमेश्वरः ।
विवेकपूजितः स्वात्मा सद्यः स्फारवरप्रदः
30
Keep
रुद्रोपेन्द्रादिपूजात्र जरत्तृणलवायते ।
विचारशमसत्सङ्गबलिपुष्पैकपूजितः
31
Keep
सद्योमोक्षफलः साधो स्वात्मैव परमेश्वरः ।
सत्यालोकनमात्रैकपूजितोऽनुत्तमार्थदः
32
Keep
यत्रास्त्यात्मेश्वरस्तत्र मूढः कोऽन्यं समाश्रयेत् ।
सत्सङ्गशमसंतोषविवेकापूजितात्मनः
33
Keep
शिरीषकुसुमायन्ते शस्त्राहिविषवह्नयः ।
देवार्चनतपस्तीर्थदानान्यतिकृतान्यपि
34
Keep
भस्मायन्ते निरर्थत्वादविवेकामहात्मनाम् ।
एतान्यपि विवेकेन क्रियन्ते सफलानि चेत्
35
Keep
विवेक एव तत्कस्मात्स्फुटमन्तर्न साध्यते ।
यथाभूतार्थविज्ञानाद्वासनोपरमे परे
36
Keep
यत्नो विवेकशब्दाख्यो भवत्यात्मप्रसादतः ।
तथा तथा विवेकोऽन्तर्वृद्धिं नेयः शमामृतैः
37
Keep
यथा यथा पुनः शोषमुपयाति न विभ्रमैः ।
देहसत्तामनादृत्य यथा भूतार्थदर्शनात्
38
Keep
लज्जां भयं विषादेर्ष्ये सुखं दुःखं जयेत्समम् ।
जगदादि शरीरादि नास्त्येवादौ कुतोऽद्य तत्
39
Keep
कार्यं चेत्कारणस्यैतत्तथापि ब्रह्ममात्रकम् ।
प्रतिभामात्रमेवाच्छं न तु ज्ञप्तेर्घटादि सत्
40
Keep
ज्ञानात्मिकैव प्रतिभा ज्ञप्तिरेवाखिलं जगत् ।
ज्ञप्तिरप्यात्मतत्त्वश्रीः परिज्ञातोपशाम्यति
41
Keep
ज्ञेयाभावे त्वनिर्वाच्या शिष्यते शाश्वतं शिवम् ।
अशरीराद्यविश्वात्म सर्वं शान्तमिदं ततम्
42
Keep
ज्ञानज्ञेयज्ञप्तिमुक्तं दृषन्मौनमिव स्थितम् ।
शान्तान्तःकरणाः स्वस्थाः शिलापुत्रककोशवत्
43
Keep
चलन्तश्चालयन्तश्च ज्ञरूपा एव तिष्ठत ।
अज्ञेयज्ञत्वसद्रूपाः सदसत्साररूपिणः
44
Keep
आकाशकोशविशदा भवता भवभूमयः ।
यथास्थितं च तिष्ठन्ति गच्छन्तश्च यथागतम्
45
Keep
यथाप्राप्तैककर्माणः संपद्यन्ते बुधाः परम् ।
अथवा सर्वसंत्यागशान्तान्तःकरणोज्ज्वलाः
46
Keep
एकान्तेष्वेव तिष्ठन्तु चित्रकर्मार्पिता इव ।
संकल्पशान्तौ संकल्पपुरवत्सर्वदाखिलम्
47
Keep
स्वप्नवच्च प्रबुद्धस्य सदैवास्तं गतं जगत् ।
सनेत्ररूपानुभवं जातितोऽन्ध इव भ्रमैः
48
Keep
निर्वाणं वर्णयन्नज्ञस्ताप्यतेऽन्तर्न शाम्यति ।
कल्पनांशोपदेशेन लोकोऽविद्यामयात्मना
49
Keep
येन केनचिदज्ञत्वात्कृतार्थोऽस्मीति मन्यते ।
अकृतार्थः कृतार्थत्वं जानन्मौर्ख्यविमोहितः
50
Keep
विज्ञास्यत्यकृतार्थत्वं क्षणान्तरकदर्थनैः ।
उपायं कल्पनात्मानमनुपायं विदुर्बुधाः
51
Keep
दुःखदत्वान्निमेषेण भावाभावैषणभ्रमैः ।
जगद्भ्रमं परिज्ञाय यदवासनमासितम् ।
विरसाशेषविषयं तद्धि निर्वाणमुच्यते
52
Keep
आख्यायिकार्थप्रतिभानमेत्य
संवेत्स्यचिद्वारि भराद्द्रवात्मा ।
अवेद्यचिद्रूपमशेषमच्छ
पश्यन्विनिर्वासि जगत्स्वरूपम्
53
Keep
जात्यन्धरूपानुभवानुरूपं
यदागमैर्बुद्धमबोधरूपम् ।
अधस्पदीकृत्य तदान्तरेऽस्मि-
न्बोधे निपत्यानुभवो भवाभूः
Previous
←
Sarga 41
Next
Sarga 43
→