Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 43
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 6 — Nirvāṇa (Uttarārdha)
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
Keep
अहंतादिजगच्चेदं परिज्ञानादसत्यताम् ।
याति सानुभवो मोहात्सत्यमेवान्यथाधियाम्
2
Keep
अज्ञानज्वरमुक्तस्य बोधशीतलितात्मनः ।
एतदेव भवेच्चिह्नं यद्भोगाम्बु न रोचते
3
Keep
अलमन्यैः परिज्ञानैर्वाच्यवाचकविभ्रमैः ।
अनहंवेदनामात्रं निर्वाणं तद्विभाव्यताम्
4
Keep
परिज्ञाता यथा स्वप्ने पदार्था रसयन्ति नो ।
न च सन्ति तथैवास्मिन्नहं जगदिदंभ्रमे
5
Keep
यथा स्वभावनाद्यक्षस्तरौ सस्वजनं पुरम् ।
पश्यत्यसत्यमेवैवं जीवः पश्यति संसृतिम्
6
Keep
विभ्रमात्मा यथा यक्षो यक्षलोकश्च ते मिथः ।
सद्रूपौ सुस्थितौ मिथ्या तथाहंत्वजगद्भ्रमौ
7
Keep
अनावरणतोऽरण्ये यक्षा विभ्रमरूपिणः ।
यथा स्फुरन्ति भूतानि तथेमानि चतुर्दश
8
Keep
भ्रममात्रमहं मिथ्यैवेति बुद्ध्वा विभावयन् ।
यक्षोऽयक्षत्वमायाति चित्तं चित्तत्त्वतामिदम्
9
Keep
निरस्तकलनाशङ्कं त्यागग्रहणवर्जितम् ।
अविसारिसमस्तेच्छं शान्तमास्व यथास्थितम्
10
Keep
असत्तासंभवं दृश्यं द्रष्ट्रात्मकमिदं ततम् ।
अथवा नैव द्रष्ट्रात्म सदवाच्यं किमास्यते
11
Keep
वसन्तरसपूरस्य यथा विटपगुल्मता ।
स्वरूपमात्रभरितसंविदः सर्गता तथा
12
Keep
यदिदं जगदाभासं शुद्धं चिन्मात्रवेदनम् ।
कात्रैकता द्विता का वा निर्वाणमलमास्यताम्
13
Keep
भूयतां चिन्मयव्योम्ना पीयतां परमो रसः ।
स्थीयतां विगताशङ्कं निर्वाणानन्दनन्दने
14
Keep
किमेतास्वतिशून्यासु संसारारण्यभूमिषु ।
मानवा वातहरिणा भ्रमथो भ्रान्तबुद्धयः
15
Keep
जगत्त्रयमरीच्यम्बु विप्रलब्धान्धबुद्धयः ।
मा धावत गतव्यग्रमाशयोपह्रताशयाः
16
Keep
रूपालोकमनस्कारमृगतृष्णाम्बुपायिनः ।
व्यर्थमायासमायूंषि मा मा क्षपयतैणकाः
17
Keep
जगद्गन्धर्वनगरगुरुगर्वेण नश्यथ ।
सुखरूपाणि दुःखानि नाशनायैव पश्यथ
18
Keep
जगत्केशोण्ड्रकभ्रान्त्यै मा महाम्बरमध्यगम् ।
अवलोकयताभ्रान्ते स्वरूपे परिणम्यताम्
19
Keep
मानवा वातलोलोच्चपत्रप्राप्ताम्बुभङ्गुर- ।
मानवासु न चास्वन्धगर्भशय्यासु सुप्यताम्
20
Keep
अविराममनाद्यन्ते स्वभावे शान्तमास्यताम् ।
द्रष्ट्टदृश्यदशादोषादस्वभावाद्विनश्यताम्
21
Keep
अज्ञावबुद्धः संसारः स हि नास्ति मनागपि ।
अवशिष्टं च यत्सत्यं तस्य नाम न विद्यते
22
Keep
त्रोटयित्वा तु तृष्णायःशृङ्खलावलितं बलात् ।
संसारपञ्जरं तिष्ठ सर्वस्योर्ध्वं मृगेन्द्रवत्
23
Keep
आत्मात्मीयग्रहभ्रान्तिशान्तिमात्रा विमुक्तता ।
यथा तथा स्थितस्यापि सो स्वसत्तैव योगिनः
24
Keep
निर्वाणताऽवासनता पराऽपतापताज्ञता ।
संसाराध्वनि खिन्नस्य शान्ता विश्रामभूमयः
25
Keep
तज्ज्ञज्ञातो न मूर्खाणां मूर्खज्ञातो न तद्विदाम् ।
विद्यते जगदर्थोऽसाववाच्यार्थमयो मिथः
27
Keep
विश्वता भ्रान्तिसंशान्तौ संस्थितैव न लभ्यते ।
महार्णवाम्बुवलिता पुत्रिकेव पयोमयी । ।
भ्रान्तिशान्तौ प्रबुद्धस्य विनिर्वाणस्य विश्वता ।
यथास्थितैव गलिता विद्यते च यथास्थितम्
28
Keep
निर्दग्धतृणभस्माली क्वापि याति यथानिलैः ।
सतां स्वभावविश्रामैः क्वापि याति तथा जगत्
29
Keep
जगद्ब्रह्मपदार्थस्य संनिवेशः स तूत्तमः ।
ब्रह्मशब्दार्थरूपात्मा न जगच्छब्दकार्यभाक्
30
Keep
अविज्ञातस्य बालस्य पदार्था यादृशा इमे ।
विदुषस्तादृशा एव तिष्ठतः क्षीणवासनम्
31
Keep
या निशा सर्वभूतानां तस्यां जागर्ति संयमी ।
यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः
32
Keep
स्थितमेवाऽविरामी यज्जाग्रदस्य सुषुप्तवत् ।
चित्रावलोकित इव जाग्रत्योऽस्य रसैषणाः
33
Keep
जात्यन्धरूपानुभवसमं भुवनवेदनम् ।
भ्रान्तप्रायमसद्रूपं ज्ञस्य भाति न भाति च
34
Keep
विमूढदुःखं त्रिजगद्विमूढविषयं न सत् ।
स्वप्ने स्वप्नतया ज्ञाते रूपालोकमनःक्रियाः
35
Keep
न स्वदन्ते यथा तद्वज्जाग्रत्स्वप्रे स्फुरन्तु मा ।
निर्विभागः समाश्वस्तोऽविरोधं परमागतः
36
Keep
आशीतलान्तःकरणो निर्वाणो ज्ञोऽवतिष्ठते ।
तज्ज्ञस्याकृष्टमुक्तस्य समं ध्यानं विना स्थितिः
37
Keep
निम्नं विनैव तोयस्य न संभवति काचन ।
अर्थ एव मनस्कारो मन एवार्थरञ्जनम्
38
Keep
एष एवैष आभासः सबाह्याभ्यन्तरात्मकः ।
आसमुद्रं नदीवाहशतसंघमयात्मकम्
39
Keep
यथैकश्लेषपिण्डात्म वहत्यम्बु तरङ्गिणाम् ।
सबाह्याभ्यन्तराकारमर्थानर्थमयात्मकम्
40
Keep
मन एव स्फुरत्यर्थनिर्भासं व्याततं तथा ।
नास्त्यर्थमनसोर्द्वित्वं यथा जलतरङ्गयोः
41
Keep
एकाभावे द्वयोः शान्तिः पवनस्पन्दयोरिव ।
नूनमेकोपशान्त्यैव निःसारे परमार्थतः
42
Keep
एकत्वादर्थमनसी सममेवाशु शाम्यतः ।
अर्थः संकल्परूपात्मा नेहितव्यो विजानतो
43
Keep
मनश्च सम्यग्ज्ञानेन शान्तिरेवं भवेत्तयोः ।
अनष्टे नश्यतश्चैतै ज्ञस्यार्थमनसी स्वतः
44
Keep
मृन्मये द्विषति ज्ञानाद्द्विषद्भावभये यथा ।
यथासंख्यं स्थिते एव ज्ञस्यार्थमनसी सदा
45
Keep
किमप्यपूर्वमेवान्यत्संपन्ने भावरूपिणि ।
संहितार्थजगत्कालोऽप्यज्ञोऽज्ञविषयोऽप्यसत्
46
Keep
पार्श्वसुप्तनरस्वप्न इव क्लीबाग्रयक्षवत् ।
ज्ञस्य साज्ञं जगन्नास्ति वीरस्येव पिशाचधीः
47
Keep
ज्ञमज्ञो भावयत्यज्ञं चिरं वन्ध्यापि वर्धते ।
विनैव ज्ञातशब्दार्थमर्थभावमिवागतम्
48
Keep
स्थितं बोधमनाद्यन्तं स्वभावं सर्गगं विदुः ।
मनः शब्दार्थरहितं विभागान्तविवर्जितम्
49
Keep
बोधवारिमनोबुद्धितरङ्गमिव निर्मलम् ।
क्व संभवत एवान्तः के वार्थमनसी किल
50
Keep
निरर्थिकैव विभ्रान्तिः स्वभावमयमास्यताम् ।
शुद्धबोधस्वभावस्थैराकाशमिव शारदैः
51
Keep
जाग्रत्स्वप्नसुषुप्तान्तैर्मनस्त्वं नानुभूयते ।
विधूयानन्तनानात्वमसद्भावमनामये
52
Keep
ज्ञेयं रज्जुरिवाशेषं स्वभावे तिष्ठ चिद्घने ।
ज्ञप्तिरेवान्तरं बाह्यं चार्थत्वमधितिष्ठति
53
Keep
बीजं शाखाफलानीव क्वातोऽर्थमनसी वद ।
ज्ञेयासंभवतो ज्ञप्तिरप्यनाख्यं पदं गता
54
Keep
शान्ताशेषविशेषात्मा तेन शेषोऽस्ति सत्स्वभाः ।
अर्थ एव मनस्कारः स चाभावात्मको भ्रमः
55
Keep
मन एवार्थसंस्कारः स चाभावात्मको भ्रमः ।
सर्वात्मत्वादजस्यैतदप्यकारणकं मनः
56
Keep
भ्रमानुभवतोऽर्थश्च मिथ्यैवास्तीव भासते ।
अकारणकमेवार्थनिर्भासं भासते मनः
57
Keep
विद्युद्विलसिताकारमस्थिरं तरलायते ।
त्वं मनस्कारमात्रात्मा संसृतौ विभ्रमायसे
58
Keep
स्वभावैकपरिज्ञानान्नासि नापि भ्रमायसे ।
मनसैव हि संसार आत्मबोधेन शाम्यति
59
Keep
शुक्तिरूप्यभ्रमाकारो जनो मिथ्यैव ताम्यति ।
अभावभावस्तु परं बोधरूपमसंसृतिः
60
Keep
निर्वाणादितरा सत्ता दुःखायाहमिति भ्रमः ।
मृगतृष्णाम्बुरूपोऽहमसच्छून्यस्वरूपकः
61
Keep
इत्येवात्मपरिज्ञानादहमित्येव शाम्यति ।
ज्ञात्वा ज्ञानमयो भूत्वा सबाह्याभ्यन्तरार्थताम्
62
Keep
गतं स्वमत्यजद्रूपं तरङ्गत्वं यथा पयः ।
मूलशाखाग्रपर्यन्ता सत्ता विटपिनो यथा
63
Keep
निर्विकारमलं ज्ञप्तेर्ज्ञेयान्तैकैव भासते ।
यथा योजनलक्षाभमेकमेवामलं नभः
64
Keep
एकमेव तथा ज्ञानं ज्ञेयान्तं भात्यखण्डितम् ।
शून्यत्वादेकममलं यथा सर्वगमेव खम्
65
Keep
तथैकममलं ज्ञात्वा ज्ञानज्ञेयदशास्वपि ।
घृतेनात्मा घनीभूय पाषाणीक्रियते यथा
66
Keep
चिता चेत्यतयात्मैव स्वचित्तीक्रियते तथा ।
देशकालं विनैवात्मा बोधाबोधेन चित्तताम्
67
Keep
अबुद्धो नीयते न्यायैरेकमेवैष सुस्थितः ।
अत्र यद्यप्यबोधादेः संभवो नास्ति कश्चन ।
तथापि कल्प्यतेऽत्रैव बोधनाय परस्परम्
68
Keep
महानुभावा विगताभिमाना
विमूढभावोपशमे गलन्ति ।
निर्भ्रान्तयोऽनन्ततयैव शान्ता
नित्यं समाधानमया भवन्ति
Previous
←
Sarga 42
Next
Sarga 44
→