Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 44
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 6 — Nirvāṇa (Uttarārdha)
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
Keep
क्रमात्समाधानतरोराजीवफलशालिनीम् ।
सलताकुसुमां ब्रूहि सत्तां विश्रान्तिदां मुने
2
Keep
आजीवमुद्यदुत्सेधं विवेकिजनकानने ।
पत्रपुष्पफलोपेतं समाधानतरुं शृणु
3
Keep
यथाकथंचिदुदितं दुःखेन स्वयमेव च ।
संसारवननिर्वेदं बीजमस्य विदुर्बुधाः
4
Keep
शुभजालहलाकृष्टं रसासिक्तमहर्निशम् ।
प्रवहच्छ्वसनाकुल्यं क्षेत्रमस्य विदुर्बुधाः
5
Keep
समाधिबीजं संसारनिर्वेदः पतति स्वयम् ।
चित्तभूमौ विविक्तायां विवेकिजनकानने
6
Keep
स्वचित्तभूमौ पतितं ध्यानबीजं महाधिया ।
सेकैरमीभिर्यत्नेन संसेक्तव्यमखेदिना
7
Keep
शुद्धैः स्निग्धैः पवित्रैश्च मधुरैरात्मनोहितैः ।
सत्संगमनवक्षीरैरैन्दवैरमृतैरिव
8
Keep
अन्तःशून्यप्रदैः पूर्णैः स्वच्छैरमृतशीतलैः ।
विसृतैरमृताकुल्याशास्त्रार्थवरवारिभिः
9
Keep
स्वचित्तभूमौ पतितं परिज्ञाय महाधिया ।
बीजं संसारनिर्वेदो रक्ष्यं ध्यानस्य यत्नतः
10
Keep
तपःप्रकारदानेन पदार्थघटनेशितैः ।
तीर्थायतनविश्रान्तिवृतिविस्तारकल्पनैः
11
Keep
कर्तव्योऽङ्कुरितस्यास्य रक्षिता शिक्षिताशयः ।
संतोषनामा प्रियया नित्यं मुदितयान्वितः
12
Keep
पश्चात्स्थिताशाविहगान्परप्रणयपक्षिणः ।
अस्मादापततः कामगर्वगृध्रान्निवारयेत्
13
Keep
मृदुभिः सत्क्रियाकुन्तैर्विवेकार्कातपैरपि ।
अचिन्त्यालोकदैरस्मान्मार्जितव्यं रजस्तमः
14
Keep
संपदः प्रमदाश्चैव तरङ्गा भोगभङ्गुराः ।
पतन्त्यशनयस्तस्मिन्दुष्कृताभ्रसमीरिताः
15
Keep
धैर्यौदार्यदयामन्त्रैर्जपस्नानतपोदमैः ।
विनिवारयितव्यास्ताः प्रणवार्थत्रिशूलिना
16
Keep
इति संरक्षितादस्माद्ध्यानबीजात्प्रवर्तते ।
आभिजात्योन्नतः श्रीमान्विवेकाख्यो नवाङ्कुरः
17
Keep
तेन सा चित्तभूर्भाति सप्रकाशा विकासिनी ।
भवत्यालोकरम्या च खं यथाभिनवेन्दुना
18
Keep
तस्मादङ्कुरतः पत्रे उभौ विकसतः स्वयम् ।
एकं शास्त्राभिगमनं द्वितीयं साधुसंगमः
19
Keep
स्तम्भमेष निबध्नाति स्थैर्यं नाम समुन्नतिम् ।
संतोषत्वग्विवलितं वैराग्यरसरञ्जितम्
20
Keep
वैराग्यरसपुष्टात्मा शास्त्रार्थप्रावृषान्वितः ।
स्वल्पेनैव स्वकालेन परामेति समुन्नतिम्
21
Keep
शास्त्रार्थसाधुसंपर्कवैराग्यरसपीवरः ।
रागद्वेषकपिक्षोभैर्न मनागपि कम्पते
22
Keep
अथ तस्मात्प्रजायन्ते विज्ञानालंकृताकृतेः ।
लता रसविलासिन्य इमा विततदेशगाः
23
Keep
स्फुटता सत्यता सत्ता धीरता निर्विकल्पता ।
समता शान्तता मैत्री करुणा कीर्तिरार्यता
24
Keep
लताभिर्गुणपत्राभिः स ध्यानतरुरूर्जितः ।
यशःपुष्पाभिरेताभिः पारिजातायते यतेः
25
Keep
इत्यसौ ज्ञानविटपी लतापल्लवपुष्पवान् ।
भविष्यज्ज्ञानफलदो दिनानुदिनमुत्तमः
26
Keep
यशःकुसुमगुच्छाढ्यो गुणपल्लवलासवान् ।
वैराग्यरसविस्तारी प्रज्ञामञ्जरिताकृतिः
27
Keep
सर्वाः शीतलयत्याशाः प्रावृषीव पयोधरः ।
सर्गातपं शमयति सूर्यतापमिवोडुपः
28
Keep
प्रतनोति शमच्छायां छायामिव घनागमः ।
निरोधमास्फारयति शमोऽनिल इवाम्बुदम्
29
Keep
निबध्नात्यात्मना पीठं कुलाचल इव स्थितम् ।
फलस्य रचयत्यूर्ध्वं घटिकां मङ्गलादिताम्
30
Keep
विवेककल्पवृक्षे तु वर्धमाने दिने दिने ।
छायावितानवलिते पुंसो हृदयकानने
31
Keep
प्रवर्तते शीतलता तलतापापहारिणी ।
अभ्युल्लसन्मतिलता तुषारोदरसुन्दरी
32
Keep
यस्यामवान्तरश्रान्तो विश्राम्यति मनोमृगः ।
आजन्मजीर्णपथिकः पथि कोलाहलाकुलः
33
Keep
सत्तामात्रात्मशारीरचर्मार्थं प्रेक्षितोऽरिभिः । ।
नानातासारसाकारगोपयज्जर्जरोन्मुखः
34
Keep
संसारारण्यविसरद्वासनापवनेरितः ।
अहंतातापसरिता सर्वदा विप्रदारदी
35
Keep
दीर्घादरी दूरचितसारसंचारजर्जरः ।
पुत्रपौत्रपरामर्शप्रतापात्पतितोऽवटे
36
Keep
लक्ष्मीलताविलुठनात्संकटैः कुण्ठिताङ्गकः ।
तृष्णाश्रीसरितं गृह्णन्कल्लोलैर्दूरमाहतः
37
Keep
तं व्याधिदुर्व्याधवैधुर्यपलायनपरायणः । ।
अशङ्कितविधिर्व्याधपातादिव कृताकृतिः
38
Keep
ज्ञेयास्पदसमायातदुःखसायकशङ्कितः ।
वैरिविद्रवणव्यग्रो दृषदाहरणाङ्कितः
39
Keep
उन्नतानतसंपातनिपातेनातिघूर्णितः ।
विकारोपलनिर्घातैः पारम्पर्येण चूर्णितः
40
Keep
तृष्णाचारुलताजालप्रवेशवशविक्षतः ।
स्वप्रज्ञारचिताचारः परमायास्वशिक्षितः
41
Keep
इन्द्रियग्राममागत्य प्रपलायनतत्परः ।
सुदुर्ग्रहगजेन्द्रोग्रविस्फूर्जनविमर्दितः
42
Keep
विषयाजगरोदारविषफूत्कारमूर्च्छितः ।
कामुकः कामिनीभूमौ रसात्प्रायो विपोथितः
43
Keep
कोपदावानलप्लुष्टपृष्ठविस्फोटदाहवान् ।
सदा गतागतानेकदीर्घदुःखप्रदाहवान्
44
Keep
स्वात्मलग्नाभिलाषांशदंशदोषैरुपद्रुतः ।
भोगलोभलसन्मोदशृगालचिरविद्रुतः
45
Keep
स्वकर्मकर्तृतोद्भान्तदारिद्र्यद्वीप्यनुद्रुतः ।
व्यामोहमिहिकान्धत्वकूटावटलुठत्तनुः
46
Keep
मानसिंहसमुल्लासहृदयोत्कम्पनातुरः ।
मरणेन रणे येन वृकपुष्पमिवेक्षितः
47
Keep
गर्वेण गिरणायाशु दूरतोजनसेवितः ।
कामैः समन्ततो दन्तवितानितयवाङ्कुरः
48
Keep
तारुण्यनारीसुहृदा क्षणमालिङ्ग्य वर्जितः ।
दुःसंचारेषु पवनैः कुपितैरिव वर्जितः
49
Keep
कदाचिन्निर्वृतिं याति सशमं च तरौ क्वचित् ।
मनोहरिणको राजन्नाजीवमिव भास्वति
6-2
Keep
तालीतमालबकुलादिकवृक्षगुल्म-
विश्रान्तिषु प्रचुरपुष्पविलासहासैः ।
नामापि यस्य न विदन्ति सुखस्य मूढाः
प्राप्नोति तच्छमतरोः स्वमनोमृगो वः
Previous
←
Sarga 43
Next
Sarga 45
→