Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 78
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 6 — Nirvāṇa (Uttarārdha)
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
Keep
वातवर्षहिमोत्पातपातभग्ने धरातले ।
जडवेगोऽगमद्वृद्धिं कलाविव महीपतिः
2
Keep
गङ्गाप्रवाहपतितधारापातविवर्धितः ।
सरित्सहस्रैः सहसा मेरुमन्दरभासुरैः
3
Keep
आदित्यपथसंप्राप्तकन्दरो जडमन्थरः ।
एकार्णवः समुच्छून आसीन्मूर्ख इवेश्वरः
4
Keep
विपुलावर्तवृत्त्यात्तविवृत्ताद्रिजरत्तृणः ।
स्फुरत्तुङ्गतरङ्गाग्रनिगीर्णादित्यमण्डलः
5
Keep
मेरुमन्दरकैलासविन्ध्यसह्यजलेचरः ।
गलितावनिपङ्कान्तर्लीनव्यालमृणालकः
6
Keep
अर्धदग्धद्रुमवनव्यूहशैवलसंकटः ।
त्रैलोक्यभस्मसंसृष्ट आसीत्कर्दमकुत्सितः
7
Keep
नभःस्तम्भवृहद्धानोत्तालभास्करपुष्करः ।
धाराजालमहाम्भोदविलीननलिनीदलः
8
Keep
डिण्डीरपर्वतप्रान्तनददुन्मत्तवारिदः ।
भ्रमदिन्द्रानिलार्केन्दुपुरपत्तनपूरणैः
9
Keep
काष्ठवत्प्रोह्यमाणोग्रसुरासुरजनोत्करः ।
शनैः क्रमोच्छूनतया लिहन्नादित्यमण्डलम्
10
Keep
तरत्तारतरारावधाराधरसमुद्भवैः ।
बुद्बुदैः परिसंदिग्धप्रोह्यमाणमहाचलः
11
Keep
भ्रमद्बुद्बुदविश्रान्तभ्रान्तकल्पान्तवारिदः ।
उत्तालैस्तैरनाधारैः पश्यन्नपरवारिदम्
12
Keep
महाप्रवाहवार्योघघोषघुंघुमिताम्बरः ।
एकप्रवाहमहितसव्योमकुलपर्वतः
13
Keep
चण्डवातकृतापूर्वजलौघकुलपर्वतैः ।
महाघुरघुरारावघर्घरोग्रमहारयः
14
Keep
ब्रह्माण्डखण्डसंघट्टपरावृत्तिभिरुद्धतः ।
कुर्वन्योजनलक्षाणि विततान्युन्नतानि च
15
Keep
तृणैरिव तरङ्गेषु दोलान्दोलनमद्रिभिः ।
कुर्वद्भिरुपलाघातभग्नभास्करमण्डलः
16
Keep
शून्यब्रह्माण्डविषुलजलघातकुलायके ।
नीलानचलकाकोलाञ्जहन्सलिलजालकैः
17
Keep
मृतामृतमहद्भूतमज्जनोन्मज्जनाकुलान् ।
तरंगमकरावर्तप्रतिबिम्बान्वितानिव
18
Keep
मृतशिष्टान्पुरभ्रष्टान्फेनाद्रितटिकोटिषु ।
दधज्जलबलश्रान्तांस्त्रिदशान्मशकानिव
19
Keep
विपुलाद्यतनाकाशविपुलानम्बुबुदुदान् ।
सद्वस्रसंख्यान्कलयंल्लोचनानीव वासवः
20
Keep
शरद्व्योमसमाभ्गेगैर्वलद्भिर्बुद्गुदेक्षणैः ।
पश्यन्निव नदीधारान्भेघानाताम्रपूरकान्
21
Keep
पुष्करावर्तकाभ्राणां बहुभिर्वीचिमण्डलैः ।
कुर्वन्नालिङ्गनानीव सपक्षाद्रिवदुत्थितैः
22
Keep
त्रिजगद्ग्राससंतृप्तः प्रगायन्निव घर्घरैः ।
स्वैर्नृत्यन्निव चोग्राद्रिकटकैर्वीचिदोर्द्रुमैः
23
Keep
नदीधाराधरैरूर्ध्वे मध्ये दग्धैर्धराधरैः ।
अधो धराधरैर्नागैरधरः पङ्कगैर्वृतः
24
Keep
धारात्रिपथगापूरैर्निपतद्भिर्निरन्तरम् ।
मग्नोन्मग्नो ह्यमानाद्रिशृङ्गडिण्डीरबुद्बुदः
25
Keep
उह्यमानदलत्स्वर्गखण्डक्रन्दन्नभश्चरः ।
वहद्विद्याधरीवृन्दपद्मिनीसुन्दरान्तरः
26
Keep
एकार्णवपयःपूरैर्घर्घरारावरंहसि ।
त्रैलोक्यखण्डसंहारे प्रोह्यमाणे महाम्भसि
27
Keep
नासीत्कश्चित्परित्राता हन्ताऽवीचिवशोऽपि च ।
शक्नोति कः परित्रातुं कालेन कवलीकृतम्
28
Keep
नाकाशमासीन्न दिगन्त आसी-
दधोऽपि नासीन्न तदूर्ध्वमासीत् ।
भूतं न आसीन्न च सर्ग आसी-
दासीत्परं केवलमेव वारि
Previous
←
Sarga 77
Next
Sarga 79
→