Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 79
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 6 — Nirvāṇa (Uttarārdha)
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
Keep
एतस्मिन्नन्तरे चक्षुर्व्योमस्थोऽहमथात्यजम् ।
ब्रह्मलोके महालोके प्रभातेऽर्कप्रभामिव
2
Keep
यावद्दृष्टो मया तत्र शैलादिव विनिर्मितः ।
परमेष्ठी समाधिस्थः प्रधानपरिवारवान्
3
Keep
समूहश्चैव देवानां मुनीनां भावितात्मनाम् ।
शुक्रो बृहस्पतिश्चैव शक्रो वैश्रवणो यमः
4
Keep
सोमोऽथ वरुणोऽग्निश्च तथान्येऽपि सुरर्षयः ।
देवगन्धर्वसिद्धानां साध्यानां च विनायकाः
5
Keep
लिपिकर्मार्पिताकाराः सर्वे ध्यानपरायणाः ।
बद्धपद्मासनास्तत्र निर्जीवा इव संस्थिताः
6
Keep
अथ ते द्वादशादित्यास्तमेवोद्देशमागताः ।
बद्धपद्मासनास्तस्थुस्तथैवाशु यथैव ते
7
Keep
ततो मुहूर्तमात्रेण दृष्टवानहमब्जजम् ।
पुरो विनिद्रतां यातः स्वप्नदृष्टमिवाग्रगम्
8
Keep
ब्रह्मलोकजनं सर्वं महतामिव वासनाम् ।
नापश्यं स्वप्ननगरं बुध्यमान इवाग्रगम्
9
Keep
अरण्यशून्यमेवासीत्तद्ब्रह्ममननं तदा ।
कठिनाकाण्डविध्वस्तं पृथिव्यामिव पत्तनम्
10
Keep
सर्व एव न च क्वापि ते तथा तादृशास्तदा ।
ऋषयो मुनयो देवा वेदा विद्याधरादयः
11
Keep
ज्ञातं ततोऽवधानेन मया नभसि तिष्ठता ।
यावन्निर्वाणमापन्ना ब्रह्मवत्सर्व एव ते
12
Keep
वासनायां विलीनायामदर्शनमुपागताः ।
स्वप्नलोकाः प्रबुद्धानामिव स्वं रूपमागताः
13
Keep
आकाशात्मैव देहोऽयं भाति वासनया स्फुटः ।
तदभावात्तु नो भाति स्वप्नो बोधवतो यथा
14
Keep
अन्तरिक्षगतो देहो यथा स्वप्ने विलोक्यते ।
बोधे तद्वासनाशान्तौ न किंचिदपि लक्ष्यते
15
Keep
जाग्रत्यपि तथैवायं वासनायाः परिक्षये ।
नैवातिवाहिको नैव लक्ष्यतेऽत्राधिभौतिकः
16
Keep
स्वप्नानुभव एषोऽत्र दृष्टान्तत्वेन लक्ष्यते ।
आबालमेतत्संसिद्धमनुभूतं श्रुतं स्मृतम्
17
Keep
अपह्नुते च वा योऽपि स्वमेवानुभवं शठः ।
स त्याज्यः को ह्यलीकेन सुप्तमुद्वोधयेत्किल
18
Keep
देहकारणकः स्वप्नो देहाभावान्न दृश्यते ।
इति चेत्तददेहानां परलोकोऽपि नास्ति च
19
Keep
इत्येतदभविष्यच्चेत्तच्छरीरकसंक्षये ।
नाभविष्यदयं सर्गः स चास्त्येव च सर्वदा
20
Keep
अवयवविभागात्मन्यवश्यंभाविनि क्षये ।
न कदाचिदनित्थं तज्जगदित्यप्यसंस्थितम्
21
Keep
न कदाचिज्जगन्नाशो देहोद्भूतगुणादिकम् ।
मदशक्तिरिव ज्ञप्तिरुदेतीति च वक्षि चेत्
22
Keep
तत्पुराणेतिहासानां सर्वसंक्षयवादिनाम् ।
स्मृत्यादीनां सवेदानां वैयर्थ्यमुपजायते
23
Keep
अप्रमाणतयैतस्मिन्नर्थे तेषां महामते ।
अन्यत्राणि प्रमाणत्वं वन्ध्यादावपि किं भवेत्
24
Keep
न चैतदिष्यते लोके जगदुच्छेदकारणात् ।
अन्यच्चास्तामेतदङ्ग ममेदमपरम श्रृणु
25
Keep
मदशक्त्यात्मनि ज्ञाने दृष्टा देशान्तरेषु या ।
प्रसृतानां पिशाचादिदेहता सा न सिध्यति
26
Keep
अथ सापि मुधा भ्रान्तिर्यावद्देहं प्रदृश्यते ।
इति चेत्तन्मुधा नाम सत्यमित्येव वो भवेत्
27
Keep
एवं चेत्तत्परो लोकः सत्स्वर्गनरकादिकम् ।
इत्येषापि न संवित्किं सत्यतामुपगच्छति
28
Keep
न पिशाचप्रमा सत्या मदशक्तिमतोऽपि हि ।
प्रतिभास्य न सत्या स्यात्परलोकात्मिका कथम्
29
Keep
पिशाचोऽस्तीति चेत्संवित्सत्यार्था तेन संविदः ।
मृतस्यास्ति परो लोक इत्यस्यां किं न सत्यता
30
Keep
काकतालीयवद्देहात्पैशाची ज्ञप्तिरस्ति चेत् ।
परलोकार्थसंवित्तिः कथं नास्ति सकारणा
31
Keep
यान्तर्वेत्ति यथा संवित्सा तथानुभवत्यलम् ।
अस्तु सत्यमसत्यं वा सिद्धमित्यनुभूतितः
32
Keep
मृतस्यास्ति परो लोको विदित्येवंमयी भवेत् ।
सति वाऽसति देहेऽस्मिंस्तेन किं सदसच्च किम्
33
Keep
तस्मात्स्वभावः प्रथमं प्रस्फुरन्वेत्ति संविदम् ।
वासनाकारणं पश्चाद्बुद्ध्वा संपश्यति भ्रमम्
34
Keep
तत्क्षयाच्छममायाति द्रष्टृदृश्यदृगामयः ।
तत्सत्तायामुदेतीयं संसृत्याख्या पिशाचिका
35
Keep
उपलम्भ उदेत्यादौ ब्रह्मणो वासना ततः ।
तच्छान्तिं विद्धि निर्वाणं तत्सत्तां संसृतिभ्रमम्
36
Keep
उत्पन्नैव च सानादौ परब्रह्मण्यसंभवात् ।
उत्पन्ना समयाद्यासौ ब्रह्मैव परमेव सत्
37
Keep
एतावद्यत्परिज्ञानं तन्निर्वाणं विदुर्बुधाः ।
यदत्रैवापरिज्ञानं तं बन्धं विद्धि राघव
38
Keep
विज्ञानघन एवायं कचनाकचनात्मकः ।
स्वयमेव कचत्यन्तर्न कचत्येव वा स्वयम्
39
Keep
संविदंशपरावृत्तिमात्रे पेलवरूपिणि ।
बन्धदृङ्मोक्षदृक् चेति क्लेशस्तत्साधनं कियत्
40
Keep
संविदुद्वोधने बन्धस्तदनुद्वोधने शिवम् ।
असत्सद्वज्जगद्भाति संविदुद्वोधनोदरम्
41
Keep
अजडं वेदनं सुप्तं मोक्ष इत्यभिधीयते ।
प्रबुद्धं बन्ध इत्याहुर्यदिच्छसि तदाहर
42
Keep
निर्वाणवासनमनन्तमनाद्यमच्छ-
बोधैकतानमपयन्त्रणमस्तशङ्कम् ।
अद्वैतमैक्यरहितं च निरस्तशून्य-
माकाशकोशविशदाशयशान्तमास्व
Previous
←
Sarga 78
Next
Sarga 80
→