Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 97
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 6 — Nirvāṇa (Uttarārdha)
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
Keep
संविन्मयत्वाज्जगतः स्वप्नस्य परमात्मनः ।
ब्रह्माकाशतया सर्वं ब्रह्मैवेत्यनुभूयते
2
Keep
भ्रमस्य चातिदृश्यत्वाददृश्यत्वान्महाचितेः ।
मदशक्तिवदात्मेति सत्यतास्यापि युज्यते
3
Keep
असत्त्वाद्दृश्यविश्रान्तेरलभ्यत्वान्महाचितेः ।
उपलब्धुरभावाच्च शून्यनाम्नीव सत्यपि
4
Keep
चिन्मात्रं पुरुषोऽकर्ता समेत्यव्यक्ततो जगत् ।
एवंदृष्टेः सत्यमेतदेवमर्थानुभूतितः
5
Keep
विवर्तो ब्रह्मणो दृश्यमित्येवंवादिनोऽपि सत् ।
मतमेवंस्वरूपाणामर्थानामनुभूतितः
6
Keep
परमाणुसमूहात्म जगदित्यपि सत्यतः ।
संवेद्यते यथा यद्यत्तत्तथैवानुभूतितः
7
Keep
यथा दृष्टं तथैवेदमिह लोके परत्र च ।
नासन्न सदिति प्रौढा सत्यमाध्यात्मिकी गतिः
8
Keep
बाह्यमेवास्ति नास्त्यन्यदित्यन्ये सत्यवादिनः ।
स्वात्मन्यक्षगणातीतं प्राप्नुवन्ति न ते यतः
9
Keep
अनारतविपर्यासदर्शनात्क्षणभङ्गधीः ।
युक्तैव तद्विदामाद्यं सर्वशक्ति हि तत्पदम्
10
Keep
कलविङ्कघटन्यायो धर्म इत्यपि तद्विदाम् ।
तथात्मसिद्धेर्म्लेच्छानां तद्देशेषु न दुष्यति
11
Keep
समाः सन्तश्च विप्राग्निविषामृतमृतिष्वपि ।
भान्त्येवं तद्विदां सर्वमिदं सर्वात्मकं यतः
12
Keep
स्वभावसिद्धमेवेदं युक्तमित्येव तद्विदाम् ।
अन्विष्टा याति नो प्राप्तिं बुद्धिमत्सर्वकर्तृता
13
Keep
एकः सर्वत्र कर्तेति सत्यं तन्मयचेतसाम् ।
सोऽयं निश्चयवान्सोऽत्र तदाप्नोतीत्यबाधितम्
14
Keep
अयं लोकः परश्चास्ति स्नानाग्न्यादि च नेतरत् ।
एतदेतादृशं सत्यं विद्धि भावितभावनम्
15
Keep
अशेषं शून्यमेवेति बौद्धानामेतदेव सत् ।
लभ्यते तद्विचारेण यत्र किंचन नैव हि
16
Keep
चितिश्चिन्तामणिरिव कल्पद्रुम इवेप्सितम् ।
आशु संपादयत्यन्तरात्मनात्मनि खात्मिका
17
Keep
नेदं शून्यं न चाशून्यमित्यवस्तु न तद्विदाम् ।
सर्वशक्तिर्हि सा शक्तिर्न तद्विद्यत एव तत्
18
Keep
तस्मात्स्वनिश्चये यस्मिन्यः स्थितः स तथा ततः ।
अवश्यं फलमाप्नोति न चेद्बाल्यान्निवर्तते
19
Keep
विचार्य पण्डितैः सार्धं श्रेष्ठवस्तुनि धीमता ।
स रूढो निश्चयो ग्राह्यो नेतरत्र यथा तथा
20
Keep
संभवत्युत्तमप्रज्ञः शास्त्रतो व्यवहारतः ।
यो यत्र नाम तत्रासौ पण्डितस्तं समाश्रयेत्
21
Keep
सतां विवदमानानां सच्छास्त्रव्यवहारिणाम् ।
यः समाह्लादकोऽनिन्द्यः स श्रेष्ठस्तं समाश्रयेत्
22
Keep
सर्व एवानिशं श्रेयो धावन्ति प्राणिनो बलात् ।
परिनिम्नं पयांसीव तद्विचार्य समाश्रयेत्
23
Keep
कल्लोलैरुह्यमानानां नृणां संसारसागरे ।
अज्ञाता दिवसा यान्ति तृणानामिव बिन्दवः
24
Keep
जगत्पूर्वं लतेवापि विश्रान्ता वितते पदे ।
पूर्वापरविचारेण के पराभावदर्शिनः
25
Keep
जातौ जातौ कतिपये व्यपदेश्या भवन्ति ते ।
येषां यान्ति प्रकाशेन दिवसा भास्वतामिव
26
Keep
अधश्चोर्ध्वं च धावन्तश्चक्रावर्तविवर्तनैः ।
सर्वे तृणवदुह्यन्ते मूढा मोहभवाम्बुधौ
27
Keep
नष्टात्मस्थितयो भोगवह्निषु प्रज्वलन्त्यलम् ।
देवा दिवि दवेनाद्रौ दह्यमाना द्रुमा इव
28
Keep
पातिता मदसंपन्ना दानवा दानवारिभिः ।
गजा इव निरालाना घोरे नारायणावटे
29
Keep
न गन्धमपि गन्धर्वा दर्शयन्ति विवेकजम् ।
गीतपीतपरामर्शाः सरन्ति हरिणा इव
30
Keep
विद्याधराश्च विद्यानामाधारत्वेन मोहिताः ।
स्फुरितानामुदाराणामपि कुर्वन्ति नादरम्
31
Keep
यक्षा विक्षोभितभुवो दक्षतामक्षता इव ।
दर्शयन्त्यसहायेषु बालवृद्धातुरेषु च
32
Keep
दन्तिनामिव मत्तानां रंहसा हरिणारिणा ।
कृतः करिष्यसि त्वं च राक्षसानां परिक्षयम्
33
Keep
भृशं पिशाचाः पश्यन्ति भूतभोजनचिन्तया ।
धूमान्धकारानिलया ज्वालयाहुतयो यथा
34
Keep
नागजालमृणालानि मग्नानि धरणीतले ।
नगानामिव मूलानि जडानीव स्थितान्यलम्
35
Keep
विवरं शरणं येषां कीटानामिव भूतले ।
तेषामसुरबालानां विवेकेषु कथैव का
36
Keep
अल्पमात्रकणार्थेन संचरन्ति दिवानिशम् ।
पिपीलिकासधर्माणः प्रायेण पुरुषा अपि
37
Keep
सर्वासां भूतजातीनां व्यग्राणां व्यर्थदीर्घया ।
क्षीबाणामिव गच्छन्ति दिवसानि दुरीहया
38
Keep
न कंचित्संस्पृशत्यन्तर्विवेको विमलो जनम् ।
जलेऽगाधे निपतितं निमज्जन्तं रजो यथा
39
Keep
नीयन्ते नियमाधूता मानवा मानवायुभिः ।
काम्पिकैः स्फुटतापूताः किरारुनिकरा इव
40
Keep
पानभोजनजम्बाले गहने योगिनीगणाः ।
दुर्गन्धपल्वलोद्गारे पतिताः पामरा इव
41
Keep
केवलं यमचन्द्रेन्द्ररुद्रार्कवरुणानिलाः ।
जीवन्मुक्ता हरिब्रह्मगुरुशुक्रानलादयः
42
Keep
प्रजापतीनां सप्तर्षिदक्षाद्याः कश्यपादयः ।
नारदाद्याः कुमाराद्याः सनकाद्याः सुरात्मजाः
43
Keep
दानवानां हिरण्याक्षबलिप्रह्लादशम्बराः ।
मयवृत्रान्धनमुचिकेशिपुत्रमुरादयः
44
Keep
बिभीषणाद्या रक्षस्सु प्रहस्तेन्द्रजिदादयः ।
शेषतक्षककर्कोटमहापद्मादयोऽहिषु
45
Keep
ब्रह्मविष्ण्विन्द्रलोकेषु वास्तव्या मुक्तदेहिनः ।
मुक्तस्वभावास्तुषिताः सिद्धाः साध्याश्च केचन
46
Keep
मानुषेषु च राजानो मुनयो ब्राह्मणोत्तमाः ।
जीवन्मुक्ताः संभवन्ति विरलास्तु रघूद्वह
47
Keep
भूतानि सन्ति सकलानि बहूनि दिक्षु
बोधान्वितानि विरलानि भवन्ति किंतु ।
वृक्षा भवन्ति फलपल्लवजालयुक्ताः
कल्पद्रुमास्तु विरलाः खलु संभवन्ति
Previous
←
Sarga 96
Next
Sarga 98
→