Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 98
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 6 — Nirvāṇa (Uttarārdha)
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
Keep
विवेकिनो विरक्ता ये विश्रान्ता ये परे पदे ।
तेषां तनुत्वमायान्ति लोभमोहादयोऽरयः
2
Keep
न हृष्यन्ति न कुप्यन्ति नाविशन्त्याहरन्ति च ।
उद्विजन्तेऽपि नो लोकाल्लोकान्नोद्वेजयन्ति च
3
Keep
न नास्तिक्यान्न चास्तिक्यात्कष्टानुष्ठानवैदिकाः ।
मनोज्ञमधुराचाराः प्रियपेशलवादिनः
4
Keep
सङ्गादाह्लादयन्त्यन्तः शशाङ्ककिरणा इव ।
विवेचितारः कार्याणां निर्णेतारः क्षणादपि
5
Keep
अनुद्वेगकराचारा बान्धवा नागरा इव ।
बहिः सर्वसमाचारा अन्तः सर्वार्थशीतलाः
6
Keep
शास्त्रार्थरसिकास्तज्ज्ञा ज्ञातलोकपरावराः ।
हेयोपादेयवेत्तारो यथाप्राप्ताभिपातिनः
7
Keep
विरुद्धकार्यविरता रसिका सज्जनस्थितौ ।
अनावरणसौगन्ध्यैः परास्पदसुखाशनैः
8
Keep
पूजयन्त्यागतं फुल्ला भृङ्गं पद्मा इवार्थिनम् ।
आवर्जयन्ति जनतां जनतापापहारिणः
9
Keep
शीतलास्पदवत्स्निग्धाः प्रावृषीव पयोधराः ।
भूभृद्भङ्गकरं धीरा देशभङ्गदमाकुलम्
10
Keep
रोधयन्त्यागतं क्षोभं भूकम्पमिव पर्वताः ।
उत्साहयन्ति विपदि सुखयन्ति च संपदि
11
Keep
चन्द्रबिम्बोपमाकारा दारा इव गुणाकराः ।
यशःपुष्पामलदिशो भाविसत्फलहेतवः
12
Keep
पुंस्कोकिलसमालापा माधवा इव साधवः ।
कल्लोलबहुलावर्तं व्यामोहमकरालयम्
13
Keep
लुठन्तमिव हेमन्तं लोडयन्तं जनास्पदम् ।
वीचिविक्षोभचपलं परचित्तमहार्णवम्
14
Keep
तच्च रोधयितुं शक्तास्तटस्थाः साधुपर्वताः ।
आपत्सु बुद्धिनाशेषु कल्लोलेष्वाकुलेषु च
15
Keep
संकटेषु दुरन्तेषु सन्त एव गतिः सताम् ।
एभिश्चिह्नैरथान्यैश्च ज्ञात्वा तानुचिताशयान्
16
Keep
आश्रयेतैकविश्रान्त्यै श्रान्तः संसारवर्त्मना ।
यस्मादत्यन्तविषमः संसारोरगसागरः
17
Keep
विना सत्सङ्गमन्येन पोतकेन न तीर्यते ।
आस्तां किं मे विचारेण यद्भवेदस्तु तन्मम
18
Keep
इत्यन्तः कल्कमासाद्य न स्थेयं गर्तकीटवत् ।
एकोऽपि विद्यते यस्य गुणस्तं सर्वमुत्सृजन्
19
Keep
अनादृतान्यतद्दोषं तावन्मात्रं समाश्रयेत् ।
गुणान्दोषांश्च विज्ञातुमाबाल्यात्स्वप्रयत्नतः
20
Keep
यथासंभवसत्सङ्गशास्त्रैः प्राग्धियमेधयेत् ।
दोषलेशमनादृत्य नित्यं सेवेत सज्जनम्
21
Keep
स्थूलदोषं त्वनिर्वाणं शनैः परिहरेत्क्रमात् ।
याति रम्यमरम्यत्वं स्थिरमस्थिरतामपि
22
Keep
यथा दृष्टं तथा मन्ये याति साधुरसाधुताम् ।
एष सोऽत्यन्त उत्पातो यः साधुर्याति दुष्टताम्
23
Keep
देशकालवशात्पापैर्महोत्पातोऽपि दृश्यते ।
सर्वकर्माणि संत्यज्य कुर्यात्सज्जनसंगमम् ।
एतत्कर्म निराबाधं लोकद्वितयसाधनम्
24
Keep
न सज्जनाद्दूरतरः क्वचिद्भवे-
द्भजेत साधून्विनयक्रियान्वितः ।
स्पृशन्त्ययत्नेन हि तत्समीपगं
विसारिणस्तद्गतपुष्परेणवः
Previous
←
Sarga 97
Next
Sarga 99
→