Mantra 12

स यथा सर्वासामपां समुद्र एकायनम् ।एवं सर्वेषां स्पर्शानां त्वगेकायनम् ।एवं सर्वेषां गन्धानां नासिके एकायनम् ।एवं सर्वेषां रसानां जिह्वैकायनम् ।एवं सर्वेषां रूपाणां चक्षुरेकायनम् ।एवं सर्वेषं शब्दानां श्रोत्रमेकायनम् ।एवं सर्वेषां संकल्पानां मन एकायनम् ।एवं सर्वासां विद्यानां हृदयमेकायनम् ।एवं सर्वेषां कर्मणां हस्तावेकायनम् ।एवं सर्वेषामानन्दानामुपस्थ एकायनम् ।एवं सर्वेषां विसर्गाणां पायुरेकायनम् ।एवं सर्वेषामध्वनां पादावेकायनम् ।एवं सर्वेषां वेदानां वागेकायनम् ॥४,५.१२ ॥

In plain words

As the ocean is the one meeting-place of all waters, so the skin is the one meeting-place of all touches; the two nostrils of all odours; the tongue of all savours; the eye of all forms; the ear of all sounds; the mind of all resolves; the heart of all knowledge; the two hands of all works; the organ of generation of all delights; the anus of all voidings; the two feet of all journeys; and speech of all the Vedas.