Contents
Philosophy & Practice
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhadāraṇyaka · Bṛhadāraṇyaka 2.3
Tap a verse for its meaning
IAST
Devanāgarī
Words separated
Meaning
Continuous
Mantra 1
Keep
(मूर्तामूर्तब्राह्मणम्) द्वे वाव ब्रह्मणो रूपे ।
मूर्तं चैवामूर्तं च ।
मर्त्यं चामृतं च ।
स्थितं च यच्च ।
सच्च त्यं च ॥
बृह. २,३.१ ॥
Mantra 2
Keep
तदेतन्मूर्तं यदन्यद्वायोश्चान्तरिक्षाच्च ।
एतन्मर्त्यम् ।
एतत्स्थितम् ।
एतत्सत् ।
तस्यैतस्य मूर्तस्यैतस्य मर्त्यस्यैतस्य स्थितस्यैतस्य सत एष रसो य एष तपति ।
सतो ह्येष रसः ॥
२,३.२ ॥
Mantra 3
Keep
अथामूर्तम् ।
वायुश्चान्तरिक्षश्च ।
एतदमृतम् ।
एतद्यत् ।
एतत्त्यम् ।
तस्यैतस्यामूर्तस्यैतस्यामृतस्यैतस्य यत एतस्य त्यस्यैष रसो य एष एतस्मिन्मण्डले पुरुषः ।
त्यस्य ह्येष रस ।
इत्यधिदैवतम् ॥
बृह. २,३.३ ॥
Mantra 4
Keep
अथाध्यात्मम् ।
इदमेव मूर्तं यदन्यत्प्राणाच्च यश्चायमन्तरात्मन्नाकाशः ।
एतन्मर्त्यम् ।
एतत्स्थितम् ।
एतत्सत् ।
तस्यैतस्य मूर्तस्यैतस्य मर्त्यस्यैतस्य स्थितस्यैतस्य सत एष रसो यच्चक्षुः ।
सतो ह्येष रसः ॥
२,३.४ ॥
Mantra 5
Keep
अथामूर्तं प्राणश्च यश्चायमन्तरात्मन्नाकाशः ।
एतदमृतम् ।
एतद्यत् ।
एतत्त्यत् ।
तस्यैतस्यामूर्तस्यैतस्यामृतस्यैतस्य यत एतस्य त्यस्यैष रसो योऽयं दक्षिणेऽक्षन् पुरुषः ।
त्यस्य ह्येष रसः ॥
बृह. २,३.५ ॥
Mantra 6
Keep
तस्य हैतस्य पुरुषस्य रूपम् ।
यथा माहारजनं वासो यथा पाण्ड्वाविकं यथेन्द्रगोपो यथाग्न्यर्चिर्यथा पुण्डरीकं यथा सकृद्विद्युत्तम् ।
सकृद्विद्युत्तेव ह वा अस्य श्रीर्भवति य एवं वेद ।
अथात आदेशो नेति नेति ।
न ह्येतस्मादिति नेत्यन्यत्परमस्ति ।
अथ नामधेयं सत्यस्य सत्यमिति ।
प्राणा वै सत्यम् ।
तेषामेष सत्यम् ॥
२,३.६ ॥
Previous
←
Bṛhadāraṇyaka 2.2
Next
Bṛhadāraṇyaka 2.4
→