Contents
Philosophy & Practice
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhadāraṇyaka · Bṛhadāraṇyaka 2.4
Tap a verse for its meaning
IAST
Devanāgarī
Words separated
Meaning
Continuous
Mantra 1
Keep
(मैत्रेयीब्राह्मणम्) मैत्रेयीति होवाच याज्ञवल्क्यः उद्यास्यन् वा अरेऽहमस्मात्स्थानादस्मि ।
हन्त तेऽनया कात्यायन्यान्तं करवाणीति ॥
बृह. २,४.१ ॥
Mantra 2
Keep
सा होवाच मैत्रेयी यन्नु म इयं भगोः सर्वा पृथिवी वित्तेन पूर्णा स्यात्कथं तेनामृता स्यामिति ।
नेति होवाच याज्ञवल्क्यः ।
यथैवोपकरणवतां जीवितं तथैव ते जीवितं स्यात् ।
अमृतत्वस्य तु नाशास्ति वित्तेनेति ॥
२,४.२ ॥
Mantra 3
Keep
सा होवाच मैत्रेयी येनाहं नामृता स्यां किमहं तेन कुर्याम् ।
यदेव भगवान् वेद तदेव मे ब्रूहीति ॥
२,४.३ ॥
Mantra 4
Keep
स होवाच याज्ञवल्क्यः प्रिया बतारे नः सती प्रियं भाषसे ।
एह्यास्स्व ।
व्याख्यास्यामि ते ।
व्याचक्षाणस्य तु मे निदिध्यासस्वेति ॥
बृह. २,४.४ ॥
Mantra 5
Keep
स होवाच न वा अरे पत्युः कामाय पतिः प्रियो भवत्यात्मनस्तु कामाय पतिः प्रियो भवति ।
न वा अरे जायायै कामाय जाया प्रिया भवत्यात्मनस्तु कामाय जाया प्रिया भवति ।
न वा अरे पुत्राणां कामाय पुत्राः प्रिया भवन्त्यात्मनस्तु कामाय पुत्राः प्रिया भवन्ति ।
न वा अरे वित्तस्य कामाय वित्तं प्रियं भवत्यात्मनस्तु कामाय वित्तं प्रियं भवति ।
न वा अरे ब्रह्मणः कामाय ब्रह्म प्रियं भवत्यात्मनस्तु कामाय ब्रह्म प्रियं भवति ।
न वा अरे क्षत्रस्य कामाय क्षत्रं प्रियं भवत्यात्मनस्तु कामाय क्षत्रं प्रियं भवति ।
न वा अरे लोकानां कामाय लोकाः प्रिया भवन्त्यात्मनस्तु कामाय लोकाः प्रिया भवन्ति ।
न वा अरे देवानां कामाय देवाः प्रिया भवन्त्यात्मनस्तु कामाय देवाः प्रिया भवन्ति ।
न वा अरे भूतानां कामाय भूतानि प्रियाणि भवन्त्यात्मनस्तु कामाय भूतानि प्रियाणि भवन्ति ।
न वा अरे सर्वस्य कामाय सर्वं प्रियं भवत्यात्मनस्तु कामाय सर्वं प्रियं भवति ।
आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यो मैत्रेयि ।
आत्मनो वा अरे दर्शनेन श्रवणेन मत्या विज्ञानेनेदं सर्वं विदितम् ॥
बृह. २,४.५ ॥
Mantra 6
Keep
ब्रह्म तं परादाद्योऽन्यत्रात्मनो ब्रह्म वेद ।
क्षत्रं तं परादाद्योऽन्यत्रात्मनः क्षत्रं वेद ।
लोकास्तं परादुर्योऽन्यत्रात्मनो लोकान् वेद ।
देवास्तं परादुर्योऽन्यत्रात्मनो देवान् वेद ।
भूतानि तं परादुर्योऽन्यत्रात्मनो भूतानि वेद ।
सर्वं तं परादाद्योऽन्यत्रात्मनः सर्वं वेद ।
इदं ब्रह्मेदं क्षत्रमिमे लोका इमे देवा इमानि भूतानीदं सर्वं यदयमात्मा ॥
बृह. २,४.६ ॥
Mantra 7
Keep
स यथा दुन्दुभेर्हन्यमानस्य न बाह्याञ्छब्दाञ्छक्नुयाद्ग्रहणाय ।
दुन्दुभेस्तु ग्रहणेन दुन्दुभ्याघातस्य वा शब्दो गृहीतः ॥
२,४.७ ॥
Mantra 8
Keep
स यथा शङ्खस्य ध्मायमानस्य न बाह्याञ्छब्दाञ्छक्नुयाद्ग्रहणाय शङ्खस्य तु ग्रहणेन शङ्खध्मस्य वा शब्दो गृहीतः ॥
२,४.८ ॥
Mantra 9
Keep
स यथा वीणायै वाद्यमानायै न बाह्याञ्छब्दाञ्छक्नुयाद्ग्रहणाय वीणायै तु ग्रहणेन वीणावादस्य वा शब्दो गृहीतः ॥
२,४.९ ॥
Mantra 10
Keep
स यथार्द्रैधाग्नेरभ्याहितात्पृथग्धूमा विनिश्चरन्त्येव वा अरेऽस्य महतो भूतस्य निःश्वसितमेतद्यदृग्वेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरस इतिहासः पुराणं विद्या उपनिषदः श्लोकाः सूत्राण्यनुव्याख्यानानि व्याख्याननि ।
अस्यैवैतानि निश्वसितानि ॥
बृह. २,४.१० ॥
Mantra 11
Keep
स यथा सर्वासामपां समुद्र एकायनम् ।
एवं सर्वेषां स्पर्शानां त्वगेकायनम् ।
एवं सर्वेषां गन्धानां नासिके एकायनम् ।
एवं सर्वेषां रसानां जिह्वैकायनम् ।
एवं सर्वेषां रूपाणां चक्षुरेकायनम् ।
एवं सर्वेषं शब्दानां श्रोत्रमेकायनम् ।
एवं सर्वेषां संकल्पानां मन एकायनम् ।
एवं सर्वासां विद्यानां हृदयमेकायनम् ।
एवं सर्वेषां कर्मणां हस्तावेकायनम् ।
एवं सर्वेषामानन्दानामुपस्थ एकायनम् ।
एवं सर्वेषां विसर्गाणां पायुरेकायनम् ।
एवं सर्वेषामध्वनां पादावेकायनम् ।
एवं सर्वेषां वेदानां वागेकायनम् ॥
बृह. २,४.११ ॥
Mantra 12
Keep
स यथा सैन्धवखिल्य उदके प्रास्त उदकमेवानुविलीयेत न हास्योद्ग्रहणायेव स्यात् ।
यतोयतस्त्वाददीत लवणम् ।
एवं वा अर इदं महद्भूतमनन्तमपारं विज्ञानघन एव ।
एतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति ।
न प्रेत्य संज्ञास्तीत्यरे ब्रवीमि ।
इति होवाच याज्ञवल्क्यः ॥
२,४.१२ ॥
Mantra 13
Keep
सा होवाच मैत्रेयी अत्रैव मा भगवानमूमुहन्न प्रेत्य संज्ञास्तीति ।
स होवाच न वा अरेऽहं मोहं ब्रवीमि ।
अलं वा अर इदं विज्ञानाय ॥
२,४.१३ ॥
Mantra 14
Keep
यत्र हि द्वैतमिव भवति तदितर इतरं जिघ्रति तदितर इतरं पश्यति तदितर इतरं शृणोति तदितर इतरं जिघ्रति तदितर इतरमभिवदति तदितर इतरं मनुते तदितर इतरं विजानाति ।
यत्र वास्य सर्वमात्मैवाभूत्तत्केन कं जिघ्रेत्तत्केन कं जिघ्रेत्तत्केन कं पश्येत्तत्केन कं शृणुयात्तत्केन कमभिवदेत्तत्केन कं मन्वीत तत्केन कं विजानीयात् ।
येनेदं सर्वं विजानाति तं केन विजानीयात् ।
विज्ञातारमरे केन विजानीयादिति ॥
बृह. २,४.१४ ॥
Previous
←
Bṛhadāraṇyaka 2.3
Next
Bṛhadāraṇyaka 2.5
→