Contents
Philosophy & Practice
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhadāraṇyaka · Bṛhadāraṇyaka 2.5
Tap a verse for its meaning
IAST
Devanāgarī
Words separated
Meaning
Continuous
Mantra 1
Keep
(मधुब्राह्मणम्) इयं पृथिवी सर्वेषां भूतानां मधु ।
अस्यै पृथिव्यै सर्वाणि भूतानि मधु ।
यश्चायमस्यां पृथिव्यां तेजोमयोऽमृतमयः पुरुषो यस्चायमध्यात्मं शारीरस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मा ।
इदममृतमिदं ब्रह्मेदं सर्वम् ॥
२,५.१ ॥
Mantra 2
Keep
इमा आपः सर्वेषां भूतानां मधु ।
आसामपां सर्वाणि भूतानि मधु ।
यश्चायमास्वप्सु तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं रैतसस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मा ।
इदममृतमिदं ब्रह्मेदं सर्वम् ॥
बृह. २,५.२ ॥
Mantra 3
Keep
अयमग्निः सर्वेषां भूतानां मधु ।
अस्याग्नेः सर्वाणि भूतानि मधु ।
यश्चायमस्मिन्नग्नौ तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं वाङ्मयस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मा ।
इदममृतमिदं ब्रह्मेदं सर्वम् ॥
२,५.३ ॥
Mantra 4
Keep
अयं वायुः सर्वेषां भूतानां मधु ।
अस्य वायोः सर्वाणि भूतानि मधु ।
यश्चायमस्मिन् वायौ तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं प्राणस्तेजोमयोऽमृतमयः पुरुषो यमेव स योऽयमात्मा ।
इदं अमृतमिदं ब्रह्मेदं सर्वम् ॥
२,५.४ ॥
Mantra 5
Keep
अयमादित्यः सर्वेषां भूतानां मधु ।
अस्यादित्यस्य सर्वाणि भूतानि मधु ।
यश्चायमस्मिन्नादित्ये तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं चाक्षुषस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मा ।
इदममृतमिदं ब्रह्मेदं सर्वम् ॥
बृह. २,५.५ ॥
Mantra 6
Keep
इमा दिशः सर्वेषां भूतानां मधु ।
आसां दिशां सर्वाणि भूतानि मधु ।
यश्चायमासु दिक्षु तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं श्रौत्रः प्रातिश्रुत्कस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मा ।
इदममृतमिदं ब्रह्मेदं सर्वम् ॥
२,५.६ ॥
Mantra 7
Keep
अयं चन्द्रः सर्वेषां भूतानां मध्व् ।
अस्य चन्द्रस्य सर्वाणि भूतानि मधु ।
यश्चायमस्मिन् चन्द्रे तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं मानसस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेदममृतम् ।
इदं ब्रह्मेदं सर्वम् ॥
२,५.७ ॥
Mantra 8
Keep
इयं विद्युत्सर्वेषां भूतानं मधु ।
अस्यै विद्युतः सर्वाणि भूतानि मधु ।
यश्चायमस्यां विद्युति तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं तैजसस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मा ।
इदममृतमिदं ब्रह्मेदं सर्वम् ॥
बृह. २,५.८ ॥
Mantra 9
Keep
अयं स्तनयित्नुः सर्वेषां भुतानां मधु ।
अस्य स्तनयित्नोः सर्वाणि भूतानि मधु ।
यश्चायमस्मिन्स्तनयित्नौ तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं शाब्दः सौवरस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मा ।
इदममृतमिदं ब्रह्मेदं सर्वम् ॥
२,५.९ ॥
Mantra 10
Keep
अयमाकाशः सर्वेषां भूतानां मधु ।
अस्याकाशस्य सर्वाणि भूतानि मधु ।
यश्चायमस्मिन्नाकाशे तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं हृद्याकाशस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मा ।
इदममृतमिदं ब्रह्मेदं सर्वम् ॥
२,५.१० ॥
Mantra 11
Keep
अयं धर्मः सर्वेषां भूतानां मधु ।
अस्य धर्मस्य सर्वाणि भूतानि मधु ।
यश्चायमस्मिन् धर्मे तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं धार्मस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मा ।
इदममृतमिदं ब्रह्मेदं सर्वम् ॥
बृह. २,५.११ ॥
Mantra 12
Keep
इदं सत्यं सर्वेषां भूतानां मधु ।
अस्य सत्यस्य सर्वाणि भूतानि मधु ।
यश्चायमस्मिन् सत्ये तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं सात्यस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मा ।
इदममृतमिदं ब्रह्मेदं सर्वम् ॥
२,५.१२ ॥
Mantra 13
Keep
इदं मानुषं सर्वेषां भूतानां मधु ।
अस्य मानुषस्य सर्वाणि भूतानि मधु ।
यश्चायमस्मिन्मानुषे तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं मानुषस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मा ।
इदममृतमिदं ब्रह्मेदं सर्वम् ॥
२,५.१३ ॥
Mantra 14
Keep
अयमात्मा सर्वेषां भूतानां मधु ।
अस्यात्मनः सर्वाणि भूतानि मधु ।
यश्चायमस्मिन्नात्मनि तेजोमयोऽमृतमयः पुरुषो यश्चायमात्मा तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मा ।
इदममृतमिदं ब्रह्मेदं सर्वम् ॥
बृह. २,५.१४ ॥
Mantra 15
Keep
॥ स वा अयमात्मा सर्वेषां अधिपतिः सर्वेषां भूतानां राजा ।
तद्यथा रथनाभौ च रथनेमौ चाराः सर्वे समर्पिताः ।
एवमेवास्मिन्नात्मनि सर्वाणि भूतानि सर्वे देवाः सर्वे लोकाः सर्वे प्राणाः सर्व एत आत्मानः समर्पिताः ॥
२,५.१५ ॥
Mantra 16
Keep
इदं वै तन्मधु दध्यङ्ङाथर्वणोऽश्विभ्यामुवाच ।
तदेतदृषिः पश्यन्नवोचत् तद्वां नरा सनये दंस उग्रमाविष्कृणोमि तन्यतुर्न वृष्टिम् ।
दध्यङ्ह यन्मध्वाथर्वणो वामश्वस्य शीर्ष्णा प्र यदीमुवाचेति ॥
२,५.१६ ॥
Mantra 17
Keep
इदं वै तन्मधु दध्यङ्ङाथर्वणोऽश्विभ्यामुवाच ।
तदेतदृषिः पश्यन्नवोचत् आथर्वणायाश्विनौ दधीचेऽश्व्यं शिरः प्रत्यैरयतम् ।
स वां मधु प्र वोचदृतायन् त्वाष्ट्रं यद्दस्रावपिकक्ष्यं वामिति ॥
बृह. २,५.१७ ॥
Mantra 18
Keep
इदं वै तन्मधु दध्यङ्ङाथर्वणोऽश्विभ्यामुवाच ।
तदेतदृषिः पश्यन्नवोचत् पुरश्चक्रे द्विपदः पुरश्चक्रे चतुष्पदः ।
पुरः स पक्षी भुत्वा पुरः पुरुष आविशदिति ।
स वा अयं पुरुषः सर्वासु पूर्षु पुरिशयः ।
नैनेन किं चनानावृतम् ।
नैनेन किं चनासंवृतम् ॥
२,५.१८ ॥
Mantra 19
Keep
इदं वै तन्मधु दध्यङ्ङाथर्वणोऽश्विभ्यामुवाच ।
तदेतदृषिः पश्यन्नवोचत् रूपंरूपं प्रतिरूपो बभूव तदस्य रूपं प्रतिचक्षणाय ।
इन्द्रो मायाभिः पुरुरूप ईयते युक्ता ह्यस्य हरयः शता दशेति ।
अयं वै हरयोऽयं वै दश च सहस्रणि बहूनि चानन्तानि च ।
तदेतद्ब्रह्मापूर्वमनपरमनन्तरमबाह्यम् ।
अयमात्मा ब्रह्म सर्वानुभूः ।
इत्यनुशासनम् ॥
बृह. २,५.१९ ॥
Previous
←
Bṛhadāraṇyaka 2.4
Next
Bṛhadāraṇyaka 2.6
→