Contents
Philosophy & Practice
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhadāraṇyaka · Bṛhadāraṇyaka 3.2
Tap a verse for its meaning
IAST
Devanāgarī
Words separated
Meaning
Continuous
Mantra 1
Keep
(आर्तभागब्राह्मणं वा जारत्कारवब्राह्मणम्) अथ हैनं जारत्कारव आर्तभागः पप्रच्छ ।
याज्ञवल्क्येति होवाच कति ग्रहाः कत्यतिग्रहा इति ।
अष्टौ ग्रहा अष्टावतिग्रहा इति ।
ये तेऽष्टौ ग्रहा अष्टावतिग्रहाः कतमे त इति ॥
बृह. ३,२.१ ॥
Mantra 2
Keep
प्राणो वै ग्रहः ।
सोऽपानेनातिग्रहेण गृहीतः ।
प्राणेन हि गन्धाञ्जिघ्रति ॥
३,२.२ ॥
Mantra 3
Keep
वाग्वै ग्रहः ।
स नाम्नातिग्रहेण गृहीतः ।
वाचा हि नामान्यभिवदति ॥
३,२.३ ॥
Mantra 4
Keep
जिह्वा वै ग्रहः ।
स रसेनातिग्रहेण गृहीतः ।
जिह्वया हि रसान् विजानाति ॥
बृह. ३,२.४ ॥
Mantra 5
Keep
चक्षुर्वै ग्रहः ।
स रूपेणातिग्रहेण गृहीतः ।
चक्षुषा हि रूपाणि पश्यति ॥
३,२.५ ॥
Mantra 6
Keep
श्रोत्रं वै ग्रहः ।
स शब्देनातिग्रहेण गृहीतः ।
श्रोत्रेण हि शब्दाञ्शृणोति ॥
३,२.६ ॥
Mantra 7
Keep
मनो वै ग्रहः ।
स कामेनातिग्रहेण गृहीतः ।
मनसा हि कामान् कामयते ॥
३,२.७ ॥
Mantra 8
Keep
हस्तौ वै ग्रहः ।
स कर्मणातिग्रहेण गृहीतः ।
हस्ताभ्यां हि कर्म करोति ॥
बृह. ३,२.८ ॥
Mantra 9
Keep
त्वग्वै ग्रहः ।
स स्पर्शेनातिग्रहेण गृहीतः ।
त्वचा हि स्पर्शान् वेदयत ।
इत्यष्टौ ग्रहा अष्टावतिग्रहाः ॥
३,२.९ ॥
Mantra 10
Keep
याज्ञवल्क्येति होवाच यदिदं सर्वं मृत्योरन्नं का स्वित्सा देवता यस्या मृत्युरन्नमिति ।
अग्निर्वै मृत्युः सोऽपामन्नम् ।
अप पुनर्मृत्युं जयति ॥
३,२.१० ॥
Mantra 11
Keep
याज्ञवल्क्येति होवाच यत्रायं पुरुषो म्रियत उदस्मात्प्राणाः क्रामन्त्याहो नेति ।
नेति होवाच याज्ञवल्क्यः ।
अत्रैव समवनीयन्ते ।
स उच्छ्वयति ।
आध्मायति ।
आध्मातो मृतः शेते ॥
बृह. ३,२.११ ॥
Mantra 12
Keep
याज्ञवल्क्येति होवाच यत्रायं पुरुषो म्रियते ।
किमेनं न जहातीति ।
नामेति ।
अनन्तं वै नामानन्ता विश्वे देवाः ।
अनन्तमेव स तेन लोकं जयति ॥
३,२.१२ ॥
Mantra 13
Keep
याज्ञवल्क्येति होवाच यत्रास्य पुरुषस्य मृतस्याग्निं वागप्येति वातं प्राणश्चक्षुरादित्यं मनश्चन्द्रं दिशः श्रोत्रं पृथिवीं शरीरमाकाशमात्मौषधीर्लोमानि वनस्पतीन् केशा अप्सु लोहितं च रेतश्च निधीयते क्वायं तदा पुरुषो भवतीति ।
आहर सौम्य हस्तम् आर्तभाग ।
आवामेवैतस्य वेदिष्यावो न नावेतत्सजन इति ।
तौ होत्क्रम्य मन्त्रयां चक्राते ।
तौ ह यदूचतुः कर्म हैव तदूचतुः ।
अथ ह यत्प्रशंसतुः कर्म हैव तत्प्रशशंसतुः ।
पुण्यो वै पुण्येन कर्मणा भवति पापः पापेनेति ।
ततो ह जारत्कारव आर्तभाग उपरराम ॥
बृह. ३,२.१३ ॥
Previous
←
Bṛhadāraṇyaka 3.1
Next
Bṛhadāraṇyaka 3.3
→