Contents
Philosophy & Practice
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhadāraṇyaka · Bṛhadāraṇyaka 3.3
Tap a verse for its meaning
IAST
Devanāgarī
Words separated
Meaning
Continuous
Mantra 1
Keep
(भुज्युब्राह्मणम्) अथ हैनं भुज्युर्लाह्यायनिः पप्रच्छ याज्ञवल्क्येति होवाच मद्रेषु चरकाः पर्यव्रजाम ।
ते पतञ्चलस्य काप्यस्य गृहानैम ।
तस्यासीद्दुहिता गन्धर्वगृहीता ।
तमपृच्छाम कोऽसीति ।
सोऽब्रवीत्सुधन्वाङ्गिरस इति ।
तं यदा लोकानामन्तानपृच्छाम ।
अथैनमब्रूम क्व पारिक्षिता अभवन्निति ।
क्व पारिक्षिता अभवन् ।
स त्वा पृच्छामि याज्ञवल्क्य ।
क्व पारिक्षिता अभवन्निति ॥
३,३.१ ॥
Mantra 2
Keep
स होवाच उवाच वै सः ।
अगच्छन् वै ते तद्यत्राश्वमेधयाजिनो गच्छन्तीति ।
क्व न्वश्वमेधयाजिनो गच्छन्तीति ।
द्वात्रिंशतं वै देवरथाह्न्यान्ययं लोकः ।
तं समन्तं पृथिवी द्विस्तावत्पर्येति ।
तां समन्तं पृथिवीं द्विस्तावत्समुद्रः पर्येति ।
तद्यावती क्षुरस्य धारा यावद्वा मक्षिकायाः पत्त्रं तावानन्तरेणाकाशः तानैन्द्रः सुपर्णो भूत्वा वायवे प्रायच्छत् ।
तान् वायुरात्मनि धित्वा तत्रागमयद्यत्राश्वमेधयाजिनोऽभवन्निति ।
एवमिव वै स वायुमेव प्रशशंस तस्माद्वायुरेव व्यष्टिर्वायुः समष्टिः ।
अप पुनर्मृत्युं जयति य एवं वेद ।
ततो ह भुज्युर्लाह्यायनिरुपरराम ॥
बृह. ३,३.२ ॥
Previous
←
Bṛhadāraṇyaka 3.2
Next
Bṛhadāraṇyaka 3.4
→