Contents
Philosophy & Practice
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhadāraṇyaka · Bṛhadāraṇyaka 3.4
Tap a verse for its meaning
IAST
Devanāgarī
Words separated
Meaning
Continuous
Mantra 1
Keep
(उषस्तब्राह्मणं वा निर्गुणात्मविद्याब्राह्मणम्) अथ हैनमुषस्तश्चाक्रायणः पप्रच्छ ।
याज्ञवल्क्येति होवाच यत्साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरस्तं मे व्याचक्ष्वेति ।
एष त आत्मा सर्वान्तरः ।
यः प्राणेन प्राणिति स त आत्मा सर्वान्तरः ।
योऽपानेनापानिति स त आत्मा सर्वान्तरः ।
यो व्यानेन व्यनिति स त आत्मा सर्वान्तरः ।
य उदानेनोदनिति स त आत्मा सर्वान्तरः ।
एष त आत्मा सर्वान्तरः ॥
बृह. ३,४.१ ॥
Mantra 2
Keep
स होवाचोषस्तश्चाक्रायणः यथा वै ब्रूयादसौ गौरसावश्व इत्येवमेवैतद्व्यपदिष्टं भवति ।
यदेव साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरस्तं मे व्याचक्ष्वेति ।
एष त आत्मा सर्वान्तरः ।
कतमो याज्ञवल्क्य सर्वान्तरः ।
न दृष्टेर्द्रष्टारं पश्येः ।
न श्रुतेः श्रोतारं शृणुयाः ।
न मतेर्मन्तारं मन्वीथा ।
न विज्ञातेर्विज्ञातारं विजानीयाः ।
एष त आत्मा सर्वान्तरः ।
अतोऽन्यदार्तम् ।
ततो होषस्तश्चाक्रायण उपरराम ॥
बृह. ३,४.२ ॥
Previous
←
Bṛhadāraṇyaka 3.3
Next
Bṛhadāraṇyaka 3.5
→