Contents
Philosophy & Practice
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhadāraṇyaka · Bṛhadāraṇyaka 5.13
Tap a verse for its meaning
IAST
Devanāgarī
Words separated
Meaning
Continuous
Mantra 1
Keep
(प्राणोपासनाब्राह्मणम् ) उक्थम् ।
प्राणो वा उक्थम् ।
प्राणो हीदं सर्वमुत्थापयति ।
उद्धस्मादुक्थविद्वीरस्तिष्ठति ।
उक्थस्य सायुज्यं सलोकतां जयति य एवं वेद ॥
बृह. ५,१३.१ ॥
Mantra 2
Keep
यजुः ।
प्राणो वै यजुः ।
प्राणे हीमानि सर्वाणि भूतानि युज्यन्ते ।
युज्यन्ते हास्मै सर्वाणि भूतानि श्रैष्ठ्याय ।
यजुषः सायुज्यं सलोकतां जयति य एवं वेद ॥
५,१३.२ ॥
Mantra 3
Keep
साम ।
प्राणो वै साम ।
प्राणे हीमानि सर्वाणि भूतानि सम्यञ्चि ।
सम्यञ्चि हास्मै सर्वाणि भूतानि श्रैष्ठ्याय कल्पन्ते ।
साम्नः सायुज्यं सलोकतां जयति य एवं वेद ॥
५,१३.३ ॥
Mantra 4
Keep
क्षत्रम् ।
प्राणो वै क्षत्रम् ।
प्राणो हि वै क्षत्रम् ।
त्रायते हैनं प्राणः क्षणितोः ।
प्र क्षत्रमत्रमाप्नोति ।
क्षत्रस्य सायुज्यं सलोकतां जयति य एवं वेद ॥
बृह. ५,१३.४ ॥
Previous
←
Bṛhadāraṇyaka 5.12
Next
Bṛhadāraṇyaka 5.14
→