Contents
Philosophy & Practice
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhadāraṇyaka · Bṛhadāraṇyaka 5.14
Tap a verse for its meaning
IAST
Devanāgarī
Words separated
Meaning
Continuous
Mantra 1
Keep
(गायत्रब्रह्मोपासनाब्राह्मणम् ) भूमिरन्तरिक्षं द्यौरित्यष्टावक्षराणि ।
अष्टाक्षरं ह वा एकं गायत्र्यै पदम् ।
एतदु हैवास्या एतत् ।
स यावदेषु त्रिषु लोकेषु तावद्ध जयति योऽस्या एतदेवं पदं वेद ॥
५,१४.१ ॥
Mantra 2
Keep
ऋचो यजूषि सामानीत्यष्टावक्षराणि ।
अष्टाक्षरं ह वा एकं गायत्र्यै पदम् ।
एतदु हैवास्या एतत् ।
स यावतीयं त्रयी विद्या तावद्ध जयति योऽस्या एतदेवं पदं वेद ॥
५,१४.२ ॥
Mantra 3
Keep
प्राणोऽपानो व्यान इत्यष्टावक्षराणि ।
अष्टाक्षरं ह वा एकं गायत्र्यै पदम् ।
एतदु हैवास्या एतत् ।
स यावदिदं प्राणि तावद्ध जयति योऽस्या एतदेवं पदं वेद ।
अथास्या एतदेव तुरीयं दर्शतं पदं परोरजा य एष तपति ।
यद्वै चतुर्थं तत्तुरीयम् ।
दर्शतं पदमिति ददृश इव ह्येषः ।
परोरजा इति सर्वमु ह्येवैष रज उपर्युपरि तपति ।
एवं हैव श्रिया यशसा तपति योऽस्या एतदेवं पदं वेद ॥
बृह. ५,१४.३ ॥
Mantra 4
Keep
सैषा गायत्र्येतस्मिंस्तुरीये दर्शते पदे परोरजसि प्रतिष्ठिता ।
तद्वै तत्सत्ये प्रतिष्ठितम् ।
चक्षुर्वै सत्यम् ।
चक्षुर्हि वै सत्यम् ।
तस्माद्यदिदानीं द्वौ विवदमानावेयातमहमदर्शमहमश्रौषमिति ।
य एवं ब्रूयादहमदर्शमिति ।
तस्मा एव श्रद्दध्याम ।
तद्वै तत्सत्यं बले प्रतिष्ठितम् ।
प्राणो वै बलम् ।
तत्प्राणे प्रतिष्ठितम् ।
तस्मादाहुर्बलं सत्यादोगीय इति ।
एवं वेषा गायत्र्यध्यात्मं प्रतिष्ठिता ।
सा हैषा गयांस्तत्रे ।
प्राणा वै गयाः ।
तत्प्राणास्तत्रे ।
तद्यद्गयांस्तत्रे तस्माद्गायत्री नाम ।
स यामेवामूं सावित्रीमन्वाहैषैव सा ।
स यस्मा अन्वाह तस्य प्राणांस्त्रायते ॥
५,१४.४ ॥
Mantra 5
Keep
तां हैतामेके सावित्रीमनुष्टुभमन्वाहुः ।
वागनुष्टुप् ।
एतद्वाचमनुब्रूम इति ।
न तथा कुर्यात् ।
गायत्रीमेव सावित्रीमानुब्रूयात् ।
यदि ह वा अप्येवंविद्बह्विव प्रतिगृह्णाति न हैव तद्गायत्र्या एकं चन पदं प्रति ॥
बृह. ५,१४.५ ॥
Mantra 6
Keep
स य इमांस्त्रींल्लोकान् पूर्णान् प्रतिगृह्णीयात्सोऽस्या एतत्प्रथमं पदमाप्नुयात् ।
अथ यावतीयं त्रयी विद्या यस्तावत्प्रतिगृह्णीयात्सोऽस्या एतद्द्वितीयं पदमाप्नुयात् ।
अथ यावदिदं प्राणि यस्तावत्प्रतिगृह्णीयात्सोऽस्या एतत्तृतीयं पदमाप्नुयात् ।
अथास्या एतदेव तुरीयं दर्शतं पदं परोरजा य एष तपति ।
नैव केन चनाप्यम् ।
कुत उ एतावत्प्रतिगृह्णीयात् ॥
५,१४.६ ॥
Mantra 7
Keep
तस्या उपस्थानम् ।
गायत्र्यस्येकपदी द्विपदी त्रिपदी चतुष्पदि ।
अपदसि ।
न हि पद्यसे ।
नमस्ते तुरीयाय दर्शताय पदाय परोरजसे ।
असावदो मा प्रापदिति ।
यं द्विष्यादसावस्मै कामो मा समर्धीति वा ।
न हैवास्मै स कामः समृध्यते यस्मा एवमुपतिष्ठते ।
अहमदः प्रापमिति वा ॥
बृह. ५,१४.७ ॥
Mantra 8
Keep
एतद्ध वै तज्जनको वैदेहो बुडिलमाश्वतराश्विमुवाच यन्नु हो तद्गायत्रीविदब्रूथाः ।
अथ कथं हस्तीभूतो वहसीति ।
मुखं ह्यस्याः सम्राण्न विदां चकरेति होवाच ।
तस्या अग्निरेव मुखम् ।
यदि ह वा अपि बह्विवाग्नावभ्यादधति सर्वमेव तत्संदहति ।
एवं हैवैवंविद्यद्यपि बह्विव पापं कुरुते सर्वमेव तत्संप्साय शुद्धः पूतोऽजरोऽमृतः संभवति ॥
५,१४.८ ॥
Previous
←
Bṛhadāraṇyaka 5.13
Next
Bṛhadāraṇyaka 5.15
→