Contents
Philosophy & Practice
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhadāraṇyaka · Bṛhadāraṇyaka 6.1
Tap a verse for its meaning
IAST
Devanāgarī
Words separated
Meaning
Continuous
Mantra 1
Keep
प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः अथ षष्ठोऽध्यायः ।
प्रथमं ब्राह्मणम् यो ह वै ज्येष्ठं च श्रेष्ठं च वेद ज्येष्ठश्च श्रेष्ठश्च स्वानां भवति ।
प्राणो वै ज्येष्ठश्च श्रेष्ठश्च ।
ज्येष्ठश्च श्रेष्ठश्च स्वानां भवति ।
अपि च येषां बुभूषति ।
य एवं वेद ॥
६,१.१ ॥
Mantra 2
Keep
यो ह वै वसिष्ठां वेद वसिष्ठः स्वानां भवति ।
वाग्वै वसिष्ठा ।
वसिष्ठः स्वानां भवति ।
अपि च येषां बुभूषति ।
य एवं वेद ॥
६,१.२ ॥
Mantra 3
Keep
यो ह वै प्रतिष्ठां वेद प्रतितिष्ठति समे ।
प्रतितिष्ठति दुर्गे ।
चक्षुर्वै प्रतिष्ठा ।
चक्षुषा हि समे च दुर्गे च प्रतितिष्ठति ।
प्रतितिष्ठति समे प्रतितिष्ठति दुर्गे ।
य एवं वेद ॥
बृह. ६,१.३ ॥
Mantra 4
Keep
यो ह वै संपदं वेद सं हास्मै पद्यते यं कामं कामयते ।
श्रोत्रं वै संपत् ।
श्रोत्रे हीमे सर्वे वेदा अभिसंपन्नाः ।
सं हास्मै पद्यते यं कामं कामयते ।
य एवं वेद ॥
६,१.४ ॥
Mantra 5
Keep
यो ह वा आयतनं वेदायतनं स्वानां भवत्यायतनं जनानाम् ।
मनो वा आयतनम् ।
आयतनं स्वानां भवत्यायतनं जनानाम् ।
य एवं वेद ॥
६,१.५ ॥
Mantra 6
Keep
यो ह वै प्रजातिं वेद प्रजायते ह प्रजया पशुभिः ।
रेतो वै प्रजातिः ।
प्रजायते ह प्रजया पशुभिः ।
य एवं वेद ॥
बृह. ६,१.६ ॥
Mantra 7
Keep
ते हेमे प्राणा अहंश्रेयसे विवदमाना ब्रह्म जग्मुः ।
तद्धोचुः को नो वसिष्ठ इति ।
तद्धोवाच यस्मिन् व उत्क्रान्त इदं शरीरं पापियो मन्यते स वो वसिष्ठ इति ॥
६,१.७ ॥
Mantra 8
Keep
वाग्घोच्चक्राम ।
सा संवत्सरं प्रोष्यागत्योवाच कथमशकत मदृते जीवितुमिति ।
ते होचुः यथाकला अवदन्तो वाचा प्राणन्तः प्राणेन पश्यन्तश्चक्षुषा शृण्वन्तः श्रोत्रेण विद्वांसो मनसा प्रजायमाना रेतसैवमजीविष्मेति ।
प्रविवेश ह वाक् ॥
६,१.८ ॥
Mantra 9
Keep
चक्षुर्होच्चक्राम ।
तत्संवत्सरं प्रोष्यागत्योवाच कथमशकत मदृते जीवितुमिति ।
ते होचुः यथान्धा अपश्यन्तश्चक्षुषा प्राणन्तः प्राणेन वदन्तो वाचा शृण्वन्तः श्रोत्रेण विद्वांसो मनसा प्रजायमाना रेतसैवमजीविष्मेति ।
प्रविवेश ह चक्षुः ॥
बृह. ६,१.९ ॥
Mantra 10
Keep
श्रोत्रं होच्चक्राम ।
तत्संवत्सरं प्रोष्यागत्योवाच कथमशकत मदृते जीवितुमिति ।
ते होचुः यथा बधिरा अशृण्वन्तः श्रोत्रेण प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तश्चक्षुषा विद्वांसो मनसा प्रजायमाना रेतसैवमजीविष्मेति ।
प्रविवेश ह श्रोत्रम् ॥
६,१.१० ॥
Mantra 11
Keep
मनो होच्चक्राम ।
तत्संवत्सरं प्रोष्यागत्योवाच कथमशकत मदृते जीवितुमिति ।
ते होचुः यथा मुग्धा अविद्वांसो मनसा प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तश्चक्षुषा शृण्वन्तः श्रोत्रेण प्रजायमाना रेतसैवमजीविष्मेति ।
प्रविवेश ह मनः ॥
६,१.११ ॥
Mantra 12
Keep
रेतो होच्चक्राम ।
तत्संवत्सरं प्रोष्यागत्योवाच कथमशकत मदृते जीवितुमिति ।
ते होचुः यथा क्लीबा अप्रजायमाना रेतासा प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तश्चक्षुषा शृण्वन्तः श्रोत्रेण विद्वांसो मनसैवमजीविष्मेति ।
प्रविवेश ह रेतः ॥
बृह. ६,१.१२ ॥
Mantra 13
Keep
अथ ह प्राण उत्क्रमिष्यन् यथा महासुहयः सैन्धवः पड्वीशशङ्खून्त्संवृहेदेवं हैवेमान् प्राणान्त्संववर्ह ।
ते होचुः मा भगव उत्क्रमीः ।
न वै शक्ष्यामस्त्वदृते जीवितुमिति ।
तस्यो मे बलिं कुरुतेति ।
तथेति ॥
६,१.१३ ॥
Mantra 14
Keep
सा ह वागुवाच यद्वा अहं वसिष्ठास्मि त्वं तद्वसिष्ठोऽसीति ।
यद्वा अहं प्रतिष्ठास्मि त्वं तत्प्रतिष्ठोऽसीति चक्षुः ।
यद्वा अहं संपदस्मि त्वं तत्संपदसीति श्रोत्रम् ।
यद्वा अहमायतनमस्मि त्वं तदायतनमसीति मनः ।
यद्वा अहं प्रजातिरस्मि त्वं तत्प्रजातिरसीति रेतः ।
तस्यो मे किमन्नं किं वास इति ।
यदिदं किञ्चा श्वभ्य आ कृमिभ्य आ कीटपतङ्गेभ्यस्तत्तेऽन्नम् ।
आपो वास इति ।
न ह वा अस्यानन्नं जग्धं भवति नानन्नं प्रतिगृहीतं य एवमेतदनस्यान्नं वेद ।
तद्विद्वांसः श्रोत्रिया अशिष्यन्त आचामन्त्यशित्वाचामन्ति ।
एतमेव तदन्नमनग्नं कुर्वन्तो मन्यन्ते ॥
बृह. ६,१.१४ ॥
Previous
←
Bṛhadāraṇyaka 5.15
Next
Bṛhadāraṇyaka 6.2
→