Contents
Philosophy & Practice
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhadāraṇyaka · Bṛhadāraṇyaka 6.2
Tap a verse for its meaning
IAST
Devanāgarī
Words separated
Meaning
Continuous
Mantra 1
Keep
द्वितीयं ब्राह्मण् (पञ्चाग्निविद्याब्राह्मणं वा श्वेतकेतुब्राह्मणम्) श्वेतकेतुर्वा आरुणेयः पन्चालानां परिषदमाजगाम ।
स आजगाम जैवलिं प्रवाहणं परिचारयमाणम् ।
तमुदीक्ष्याभ्युवाद कुमारा३ इति ।
स भो३ इति प्रतिशुश्राव ।
अनुशिष्टो न्वसि पित्रेति ।
ओमिति होवाच ॥
बृह. ६,२.१ ॥
Mantra 2
Keep
वेत्थ यथेमाः प्रजाः प्रयत्यो विप्रतिपद्यन्ता३ इति ।
नेति होवाच ।
वेत्थो यथेमं लोकं पुनरापद्यन्ता३ इति ।
नेति हैवोवाच ।
वेत्थो यथासौ लोक एवं बहुभिः पुनः पुनः प्रयद्भिर्न संपूर्यता३ इति ।
नेति हैवोवाच ।
वेत्थो यतिथ्यामाहुत्यां हुतायामापः पुरुषवाचो भूत्वा समुत्थाय वदन्ती३ इति ।
नेति हैवोवाच ।
वेत्थो देवयानस्य वा पथः प्रतिपदं पितृयाणस्य वा ।
यत्कृत्वा देवयानं वा पन्थानं प्रतिपद्यन्ते पितृयाणं वा ।
अपि हि न ऋषेर्वचः श्रुतं द्वे सृती अशृणवं पितॄणामहं देवानामुत मर्त्यानाम् ।
ताभ्यामिदं विश्वमेजत्समेति यदन्तरा पितरं मातरं चेति ।
नाहमत एकं चन वेदेति होवाच ॥
६,२.२ ॥
Mantra 3
Keep
अथैनं वसत्योपमन्त्रयां चक्रे ।
अनादृत्य वसतिं कुमारः प्रदुद्राव ।
स आजगाम पितरम् ।
तं होवाच इति वाव किल नो भवान् पुरानुशिष्टानवोच इति ।
कथं सुमेध इति ।
पञ्च मा प्रश्नान् राजन्यबन्धुरप्राक्षीत् ।
ततो नैकं चन वेदेति ।
कतमे त इति ।
इम इति ह प्रतीकान्युदाजहार ॥
बृह. ६,२.३ ॥
Mantra 4
Keep
स होवाच तथा नस्त्वं तत जानीथा यथा यदहं किंच वेद सर्वमहं तत्तुभमवोचम् ।
प्रेहि तु तत्र ।
प्रतीत्य ब्रह्मचर्यं वत्स्याव इति ।
भवानेव गच्छत्विति ।
स आजगाम गौतमो यत्र प्रवाहणस्य जैवलेरास ।
तस्मा आसनमाहृत्योदकमाहारयां चकार ।
अथ हास्मा अर्घ्यं चकार ।
तं होवाच वरं भगवते गौतमाय दद्म इति ॥
६,२.४ ॥
Mantra 5
Keep
स होवाच प्रतिज्ञतो म एष वरः ।
यां तु कुमारस्यान्ते वाचमभाषथास्तां मे ब्रूहीति ॥
६,२.५ ॥
Mantra 6
Keep
स होवाच दैवेषु वै गौतम तद्वरेषु ।
मानुषाणां ब्रूहीति ॥
बृह. ६,२.६ ॥
Mantra 7
Keep
स होवाच विज्ञायते हास्तिहिरण्यस्यापात्तं गोअश्वानां दासीनां प्रवाराणां परिधानस्य ।
मा नो भवान् बहोरनन्तस्यापर्यन्तस्याभ्यवदान्यो भूदिति ।
स वै गौतम तीर्थेनेच्छसा इति ।
उपैम्यहं भवन्तमिति ।
वाचा ह स्मैव पूर्व उपयन्ति ।
स होपायनकीर्त्योवास ॥
६,२.७ ॥
Mantra 8
Keep
स होवाच तथा नस्त्वं गौतम मापराधास्तव च पितामहाः ।
यथेयं विद्येतः पूर्वं न कस्मिंश्चन ब्राह्मन उवास ।
तां त्वहं तुभ्यं वक्ष्यामि ।
को हि त्वैवं ब्रुवन्तमर्हति प्रत्याख्यातुमिति ॥
बृह. ६,२.८ ॥
Mantra 9
Keep
असौ वै लोकोऽग्निर्गौतम ।
तस्यादित्य एव समित् ।
रश्मयो धूमः ।
अहरर्चिः ।
दिशोऽङ्गाराः ।
अवान्तरदिशो विष्फुलिङ्गाः ।
तस्मिन्नेतस्मिन्नग्नौ देवाः श्रद्धां जुह्वति ।
तस्या आहुत्यै सोमो राजा संभवति ॥
६,२.९ ॥
Mantra 10
Keep
पर्जन्यो वा अग्निर्गौतम ।
तस्य संवत्सर एव समित् ।
अभ्राणि धूमः ।
विद्युदर्चिः ।
अशनिरङ्गाराः ।
ह्रादुनयो विष्फुलिङ्गाः ।
तस्मिन्नेतस्मिन्नग्नौ देवाः सोमं राजानं जुह्वति ।
तस्या आहुत्यै वृष्टिः संभवति ॥
बृह. ६,२.१० ॥
Mantra 11
Keep
अयं वै लोकोऽग्निर्गौतम ।
तस्य पृथिव्येव समित् ।
अग्निर्धूमः ।
रात्रिरर्चिः ।
चन्द्रमा अङ्गाराः ।
नक्षत्राणि विष्फुलिङ्गाः ।
तस्मिन्नेतस्मिन्नग्नौ देवा वृष्टिं जुह्वति ।
तस्या आहुत्या अन्नं संभवति ॥
६,२.११ ॥
Mantra 12
Keep
पुरुषो वा अग्निर्गौतम ।
तस्य व्यात्तमेव समित् ।
प्राणो धूमः ।
वागर्चिः ।
चक्षुरङ्गाराः ।
श्रोत्रं विष्फुलिङ्गाः ।
तस्मिन्नेतस्मिन्नग्नौ देवा अन्नं जुह्वति ।
तस्या आहुत्यै रेतः संभवति ॥
बृह. ६,२.१२ ॥
Mantra 13
Keep
योषा वा अग्निर्गौतम ।
तस्या उपस्थ एव समित् ।
लोमानि धूमः ।
योनिरर्चिः ।
यदन्तः करोति तेऽङ्गाराः ।
अभिनन्दा विष्फुलिङ्गाः ।
तस्मिन्नेतस्मिन्नग्नौ देवा रेतो जुह्वति ।
तस्या आहुत्यै पुरुषः संभवति ।
स जीवति यावज्जीवति ।
अथ यदा म्रियते ॥
६,२.१३ ॥
Mantra 14
Keep
अथैनमग्नये हरन्ति ।
तस्याग्निरेवाग्निर्भवति ।
समित्समित् ।
धूमो धूमः ।
अर्चिरर्चिः ।
अङ्गारा अङ्गाराः ।
विष्फुलिङ्गा विष्फुलिङ्गाः ।
तस्मिन्नेतस्मिन्नग्नौ देवाः पुरुषं जुह्वति ।
तस्या आहुत्यै पुरुषो भास्वरवर्णः संभवति ॥
बृह. ६,२.१४ ॥
Mantra 15
Keep
ते य एवमेतद्विदुर्ये चामी अरण्ये श्रद्धां सत्यमुपासते तेऽर्चिरभिसंभवन्ति ।
अर्चिषोऽहः ।
अह्न आपूर्यमाणपक्षम् ।
आपूर्यमाणपक्षाद्यान् षण्मासानुदङ्ङादित्य एति ।
मासेभ्यो देवलोकम् ।
देवलोकादादित्यम् ।
आदित्याद्वैद्युतम् ।
तान् वैद्युतान् पुरुषो मानस एत्य ब्रह्मलोकान् गमयति ।
ते तेषु ब्रह्मलोकेषु पराः परावतो वसन्ति ।
तेषां न पुनरावृत्तिः ॥
बृह. ६,२.१५ ॥
Mantra 16
Keep
अथ ये यज्ञेन दानेन तपसा लोकाञ्जयन्ति ते धूममभिसंभवन्ति ।
धूमाद्रात्रिम् ।
रात्रेरपक्षीयमाणपक्षम् ।
अपक्षीयमाणपक्षाद्यान् षण्मासान् दक्षिणादित्य एति ।
मासेभ्यः पितृलोकम् ।
पितृलोकाच्चन्द्रम् ।
ते चन्द्रं प्राप्यान्नं भवन्ति ।
तांस्तत्र देवा यथा सोमं राजानमाप्यायस्वापक्षीयस्वेत्येवमेनांस्तत्र भक्षयन्ति ।
तेषां यदा तत्पर्यवैत्यथेममेवाकाशमभिनिष्पद्यन्ते ।
आकाशाद्वायुम् ।
वायोर्वृष्टिम् ।
वृष्टेः पृथिवीम् ।
ते पृथिवीं प्राप्यान्नं भवन्ति ।
ते पुनः पुरुषाग्नौ हूयन्ते ततो योषाग्नौ जायन्ते ।
लोकान् प्रत्युथायिनस्त एवमेवानुपरिवर्तन्ते ।
अथ य एतौ पन्थानौ न विदुस्ते कीटाः पतङ्गा यदिदं दन्दशूकम् ॥
६,२.१६ ॥
Previous
←
Bṛhadāraṇyaka 6.1
Next
Bṛhadāraṇyaka 6.3
→