Contents
Philosophy & Practice
Home
Library
Find
Shelf
Settings
←
Leave
Chāndogya · Chāndogya 1.12
Tap a verse for its meaning
IAST
Devanāgarī
Words separated
Meaning
Continuous
Mantra 1
Keep
अथातः शौव उद्गीथस्तद्ध बको दाल्भ्यो ग्लावो वा मैत्रेयः स्वाध्यायमुद्वव्राज ॥ १.१२.१ ॥
Mantra 2
Keep
तस्मै श्वा श्वेतः प्रादुर्बभूव तमन्ये श्वान उपसमेत्योचुरन्नं नो भगवानागायत्वशनायामवा इति ॥ १.१२.२ ॥
Mantra 3
Keep
तान्होवाचेहैव मा प्रातरुपसमीयातेति तद्ध बको दाल्भ्यो ग्लावो वा मैत्रेयः प्रतिपालयांचकार ॥ १.१२.३ ॥
Mantra 4
Keep
ते ह यथैवेदं बहिष्पवमानेन स्तोष्यमाणाः संरब्धाः सर्पन्तीत्येवमाससृपुस्ते ह समुपविश्य हिं चक्रुः ॥ १.१२.४ ॥
Mantra 5
Keep
ओ३मदा३मों३पिबा३मों३ देवो वरुणः प्रजपतिः सविता२न्नमिहा२हरदन्नपते३ऽन्नमिहा २हरा२हरो३मिति ॥ १.१२.५ ॥
Previous
←
Chāndogya 1.11
Next
Chāndogya 1.13
→