Contents
Philosophy & Practice
Home
Library
Find
Shelf
Settings
←
Leave
Chāndogya · Chāndogya 1.13
Tap a verse for its meaning
IAST
Devanāgarī
Words separated
Meaning
Continuous
Mantra 1
Keep
अयं वाव लोको हाउकारः वायुर्हाइकारश्चन्द्रमा अथकारः ।
आत्मेहकारोऽग्निरीकारः ॥ १.१३.१ ॥
Mantra 2
Keep
आदित्य ऊकारो निहव एकारो विश्वे देवा औहोयिकारः प्रजपतिर्हिंकारः प्राणः स्वरोऽन्नं या वाग्विराट् ॥ १.१३.२ ॥
Mantra 3
Keep
अनिरुक्तस्त्रयोदशः स्तोभः संचरो हुंकारः ॥ १.१३.३ ॥
Mantra 4
Keep
दुग्धेऽस्मै वाग्दोहं यो वाचो दोहोऽन्नवानन्नादो भवति य एतामेवंसाम्नामुपनिषदं वेदोपनिषदं वेदेति ॥ १.१३.४ ॥
Previous
←
Chāndogya 1.12
Next
Chāndogya 2.1
→