Contents
Philosophy & Practice
Home
Library
Find
Shelf
Settings
←
Leave
Taittirīya · Taittirīya 1.3
Tap a verse for its meaning
IAST
Devanāgarī
Words separated
Meaning
Continuous
Mantra 1
Keep
सह नौ यशः ।
सह नौ ब्रह्मवर्चसम् ।
अथातः संहिताया उपनिषदं व्याख्यास्यामः ।
पञ्चस्वधिकरणेषु ।
अधिलोकमधिज्यौतिषमधिविद्यमधिप्रजमध्यात्मम् ।
ता महासँहिता इत्याचक्षते ।
अथाधिलोकम् ।
पृथिवी पूर्वरूपम् ।
द्यौरुत्तररूपम् ।
आकाशः सन्धिः ॥ १ ॥
Mantra 2
Keep
वायुः सन्धानम् ।
इत्यधिलोकम् ।
अथाधिजौतिषम् ।
अग्निः पूर्वरूपम् ।
आदित्य उत्तररूपम् ।
आपः सन्धिः ।
वैद्युतः सन्धानम् ।
इत्यधिज्यौतिषम् ।
अथाधिविद्यम् ।
आचार्यः पूर्वरूपम् ॥ २ ॥
Mantra 3
Keep
अन्तेवास्युत्तररूपम् ।
विद्या सन्धिः ।
प्रवचनँसन्धानम् ।
इत्यधिविद्यम् ।
अथाधिप्रजम् ।
माता पूर्वरूपम् ।
पितोत्तररूपम् ।
प्रजा सन्धिः ।
प्रजननँसन्धानम् ।
इत्यधिप्रजलम् ॥ ३ ॥
Mantra 4
Keep
अथाध्यात्मम् ।
अधरा हनुः पूर्वरूपम् ।
उत्तरा हनुरुत्तररूपम् ।
वाक्सन्धिः ।
जिह्वा सन्धानम् ।
इत्यध्यात्मम् ।
इतीमा महासँहिताः ।
य एवमेता महासँहिता व्याख्याता वेद ।
सन्धीयते प्रजया पशुभिः ब्रह्मवर्चसेनान्नाद्येन सुवर्गेण लोकेन ॥ ४ ॥
Previous
←
Taittirīya 1.2
Next
Taittirīya 1.4
→