Contents
Philosophy & Practice
Home
Library
Find
Shelf
Settings
←
Leave
Taittirīya · Taittirīya 1.4
Tap a verse for its meaning
IAST
Devanāgarī
Words separated
Meaning
Continuous
Mantra 1
Keep
यश्छन्दसामृषभो विश्वरूपः ।
छन्दोभ्योऽध्यमृतात्संबभूव ।
स मेन्द्रो मेधया स्पृणोतु ।
अमृतस्य देव धारणो भूयासम् ।
शरीरं मे विचर्षणम् ।
जिह्वा मे मधुमत्तमा ।
कर्णाभ्यां भूरि विश्रुवम् ।
ब्रह्मणः कोशोऽसि मेधया पिहितः ।
श्रुतं मे गोपाय ॥ १ ॥
Mantra 2
Keep
आवहन्ती वितन्वाना कुर्वाणाऽचीरमात्मनः ।
वासाँसि मम गावश्च ।
अन्नपाने च सर्वदा ।
ततो मे श्रियमावह ।
लोमशां पशुभिः सह स्वाहा ।
आमायन्तु ब्रह्मचारिणः स्वाहा ।
विमायन्तु ब्रह्मचारिणः स्वाहा ।
प्रमायन्तु ब्रह्मचारिणः स्वाहा ।
दमायन्तु ब्रह्मचारिणः स्वाहा ।
शमायन्तु ब्रह्मचारिणः स्वाहा ॥ २ ॥
Mantra 3
Keep
यशो जनेऽसानि स्वाहा ।
श्रेयान् वस्यसोऽसानि स्वाहा ।
तं त्वा भग प्रविशानि स्वाहा ।
स मा भग प्रविश स्वाहा ।
तस्मिन् सहस्रशाखे ।
निभगाहं त्वयि मृजे स्वाहा ।
यथाऽऽपः प्रवतायन्ति यथा मासा अहर्जरम् ।
एवं मां ब्रह्मचारिणः धातरायन्तु सर्वतः स्वाहा ।
प्रतिवेशोऽसि प्र मा भाहि प्र मा पद्यस्व ॥ ३ ॥
Previous
←
Taittirīya 1.3
Next
Taittirīya 1.5
→