Contents
Philosophy & Practice
Home
Library
Find
Shelf
Settings
←
Leave
Taittirīya · Taittirīya 1.6
Tap a verse for its meaning
IAST
Devanāgarī
Words separated
Meaning
Continuous
Mantra 1
Keep
स य एषोऽन्तरहृदय आकाशः ।
तस्मिन्नयं पुरुषो मनोमयः ।
अमृतो हिरण्मयः ।
अन्तरेण तालुके ।
य एष स्तन इवावलम्बते |
सेन्द्रयोनिः ।
यत्रासौ केशान्तो विवर्तते ।
व्यपोह्य शीर्षकपाले |
भूरित्यग्नौ प्रतितिष्ठति ।
भुव इति वायौ ॥ १ ॥
Mantra 2
Keep
सुवरित्यादित्ये ।
मह इति ब्रह्मणि ।
आप्नोति स्वाराज्यम् ।
आप्नोति मनसस्पतिम् ।
वाक्पतिश्चक्षुष्पतिः ।
श्रोत्रपतिर्विज्ञानपतिः ।
एतत्ततो भवति ।
आकाशशरीरं ब्रह्म ।
सत्यात्म प्राणारामं मन आनन्दम् ।
शान्तिसमृद्धममृतम् ।
इति प्राचीनयोग्योपास्स्व ॥ २ ॥
Previous
←
Taittirīya 1.5
Next
Taittirīya 1.7
→