Contents
Philosophy & Practice
Home
Library
Find
Shelf
Settings
←
Leave
Taittirīya · Taittirīya 1.5
Tap a verse for its meaning
IAST
Devanāgarī
Words separated
Meaning
Continuous
Mantra 1
Keep
भूर्भुवः सुवरिति वा एतास्तिस्रो व्याहृतयः ।
तासामुह स्मैतां चतुर्थीं माहाचमस्यः प्रवेदयते ।
मह इति ।
तद् ब्रह्म ।
स आत्मा ।
अङ्गान्यन्या देवताः ।
भूरिति वा अयं लोकः ।
भुव इत्यन्तरिक्षम् ।
सुवरित्यसौ लोकः ॥ १ ॥
Mantra 2
Keep
मह इत्यादित्यः ।
आदित्येन वाव सर्वे लोका महीयन्ते ।
भूरिति वा अग्निः ।
भुव इति वायुः ।
सुवरित्यादित्यः ।
मह इति चन्द्रमाः ।
चन्द्रमसा वाव सर्वाणि ज्योतीँषि महीयन्ते ।
भूरिति वा ऋचः ।
भुव इति सामानि ।
सुवरिति यजूँषि ॥ २ ॥
Mantra 3
Keep
मह इति ब्रह्म ।
ब्रह्मणा वाव सर्वे वेदा महीयन्ते ।
भूरिति वै प्राणः ।
भुव इत्यपानः ।
सुवरिति व्यानः ।
मह इत्यन्नम् ।
अन्नेन वाव सर्वे प्राणा महीयन्ते ।
ता वा एताश्चतस्रश्चतुर्धा ।
चतस्रश्चतस्रो व्याहृतयः ।
ता यो वेद ।
स वेद ब्रह्म ।
सर्वेऽस्मै देवा बलिमावहन्ति ॥ ३ ॥
Previous
←
Taittirīya 1.4
Next
Taittirīya 1.6
→