Contents
Philosophy & Practice
Home
Library
Find
Shelf
Settings
←
Leave
Taittirīya · Taittirīya 2.1
Tap a verse for its meaning
IAST
Devanāgarī
Words separated
Meaning
Continuous
Mantra 1
Keep
ॐ ब्रह्मविदाप्नोति परम् ।
तदेषाऽभ्युक्ता ।
सत्यं ज्ञानमनन्तं ब्रह्म ।
यो वेद निहितं गुहायां परमे व्योमन् ।
सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चितेति ॥
तस्माद्वा एतस्मादात्मन आकाशः संभूतः ।
आकाशाद्वायुः ।
वायोरग्निः ।
अग्नेरापः ।
अद्भ्यः पृथिवी ।
पृथिव्या ओषधयः ।
ओषधीभ्योऽन्नम् ।
अन्नाद्रेतः ।
रेतसः पुरुषः ।
स वा एष पुरुषोऽन्नरसमयः ।
तस्येदमेव शिरः ।
अयं दक्षिणः पक्षः ।
अयमुत्तरः पक्षः ।
अयमात्मा ।
इदं पुच्छं प्रतिष्ठा ।
तदप्येष श्लोको भवति ॥ १ ॥
Previous
←
Taittirīya 1.12
Next
Taittirīya 2.2
→