Contents
Philosophy & Practice
Home
Library
Find
Shelf
Settings
←
Leave
Taittirīya · Taittirīya 2.2
Tap a verse for its meaning
IAST
Devanāgarī
Words separated
Meaning
Continuous
Mantra 1
Keep
॥ द्वितीयोऽवाकः ॥
अन्नाद्वै प्रजाः प्रजायन्ते ।
याः काश्च पृथिवीँ श्रिताः ।
अथो अन्नेनैव जीवन्ति ।
अथैनदपि यन्त्यन्ततः ।
अन्नँ हि भूतानां ज्येष्ठम् ।
तस्मात् सर्वौषधमुच्यते ।
सर्वं वै तेऽन्नमाप्नुवन्ति ।
येऽन्नं ब्रह्मोपासते ।
अन्नँ हि भूतानां ज्येष्ठम् ।
तस्मात् सर्वौषधमुच्यते ।
अन्नाद् भूतानि जायन्ते ।
जातान्यन्नेन वर्धन्ते ।
अद्यतेऽत्ति च भूतानि ।
तस्मादन्नं तदुच्यत इति ।
तस्माद्वा एतस्मादन्नरसमयात् ।
अन्योऽन्तर आत्मा प्राणमयः ।
तेनैष पूर्णः ।
स वा एष पुरुषविध एव ।
तस्य पुरुषविधताम् ।
अन्वयं पुरुषविधः ।
तस्य प्राण एव शिरः ।
व्यानो दक्षिणः पक्षः ।
अपान उत्तरः पक्षः ।
आकाश आत्मा ।
पृथिवी पुच्छं प्रतिष्ठा ।
तदप्येष श्लोको भवति ॥ १ ॥
Previous
←
Taittirīya 2.1
Next
Taittirīya 2.3
→