Contents
Philosophy & Practice
Home
Library
Find
Shelf
Settings
←
Leave
Taittirīya · Taittirīya 2.8
Tap a verse for its meaning
IAST
Devanāgarī
Words separated
Meaning
Continuous
Mantra 1
Keep
भीषाऽस्माद्वातः पवते ।
भीषोदेति सूर्यः ।
भीषाऽस्मादग्निश्चेन्द्रश्च ।
मृत्युर्धावति पञ्चम इति ।
सैषाऽऽनन्दस्य मीमाँसा भवति ।
युवा स्यात्साधुयुवाऽध्यायकः ।
आशिष्ठो द्रढिष्ठो बलिष्ठः ।
तस्येयं पृथिवी सर्वा वित्तस्य पूर्णा स्यात् ।
स एको मानुष आनन्दः ।
ते ये शतं मानुषा आनन्दाः ।
स एको मनुष्यगन्धर्वाणामानन्दः ।
श्रोत्रियस्य चाकामहतस्य ।
ते ये शतं मनुष्यगन्धर्वाणामानन्दाः ।
स एको देवगन्धर्वाणामानन्दः ।
श्रोत्रियस्य चाकामहतस्य ।
ते ये शतं देवगन्धर्वाणामानन्दाः ।
स एकः पितृणां चिरलोकलोकानामानन्दः ।
स एक आजानजानां देवानामानन्दः ।
श्रोत्रियस्य चाकामहतस्य ।
ते ये शतमाजानजानां देवानामानन्दाः ।
स एकः कर्मदेवानां देवानामानन्दः ।
ये कर्मणा देवानपि यन्ति ।
श्रोत्रियस्य चाकामहतस्य ।
ते ये शतं कर्मदेवानां देवानामानन्दाः ।
स एको देवानामानन्दः ।
श्रोत्रियस्य चाकामहतस्य ।
ते ये शतं देवानामानन्दाः ।
स एक इन्द्रस्याऽऽनन्दः ।
श्रोत्रियस्य चाकामहतस्य ।
ते ये शतमिन्द्रस्याऽऽनन्दाः ।
स एको बृहस्पतेरानन्दः ।
श्रोत्रियस्य चाकामहतस्य ।
ते ये शतं बृहस्पतेरानन्दाः ।
स एकः प्रजापतेरानन्दः ।
श्रोत्रियस्य चाकामहतस्य ।
ते ये शतं प्रजापतेरानन्दाः ।
स एको ब्रह्मण आनन्दः ।
श्रोत्रियस्य चाकामहतस्य ।
स यश्चायं पुरुषे ।
यश्चासावादित्ये ।
स एकः ।
स य एवंवित् ।
अस्माल्लोकात्प्रेत्य ।
एतमन्नमयमात्मानमुपसङ्क्रामति ।
एतं प्राणमयमात्मानमुपसङ्क्रामति ।
एतं मनोमयमात्मानमुपसङ्क्रामति ।
एतं विज्ञानमयमात्मानमुपसङ्क्रामति ।
एतमानन्दमयमात्मानमुपसङ्क्रामति ।
तदप्येष श्लोको भवति ॥ १ ॥
Previous
←
Taittirīya 2.7
Next
Taittirīya 2.9
→