Contents
Philosophy & Practice
Home
Library
Find
Shelf
Settings
←
Leave
Taittirīya · Taittirīya 2.7
Tap a verse for its meaning
IAST
Devanāgarī
Words separated
Meaning
Continuous
Mantra 1
Keep
असद्वा इदमग्र आसीत् ।
ततो वै सदजायत ।
तदात्मानँ स्वयमकुरुत ।
तस्मात्तत्सुकृतमुच्यत इति ।
यद्वै तत् सुकृतम् ।
रसो वै सः ।
रसँ ह्येवायं लब्ध्वाऽऽनन्दी भवति ।
को ह्येवान्यात्कः प्राण्यात् ।
यदेष आकाश आनन्दो न स्यात् ।
एष ह्येवानन्दयाति ।
यदा ह्येवैष एतस्मिन्नदृश्येऽनात्म्येऽनिरुक्तेऽनिलयनेऽभयं प्रतिष्ठां विन्दते ।
अथ सोऽभयं गतो भवति ।
यदा ह्येवैष एतस्मिन्नुदरमन्तरं कुरुते ।
अथ तस्य भयं भवति ।
तत्त्वेव भयं विदुषोऽमन्वानस्य ।
तदप्येष श्लोको भवति ॥ १ ॥
Previous
←
Taittirīya 2.6
Next
Taittirīya 2.8
→