Contents
Philosophy & Practice
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhagavad Gītā · Ātmasaṃyamayogaḥ
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
▾
Meaning
Keep
अनाश्रितः
कर्मफलं
कार्यं
कर्म
करोति
यः
स
सन्न्यासी
च
योगी
च
न
निरग्निर्न
चाक्रियः
2
▾
Meaning
Keep
यं
सन्न्यासमिति
प्राहुर्योगं
तं
विद्धि
पाण्डव
न
ह्यसन्न्यस्तसङ्कल्पो
योगी
भवति
कश्चन
3
▾
Meaning
Keep
आरुरुक्षोर्मुनेर्योगं
कर्म
कारणमुच्यते
योगारूढस्य
तस्यैव
शमः
कारणमुच्यते
4
▾
Meaning
Keep
यदा
हि
नेन्द्रियार्थेषु
न
कर्मस्वनुषज्जते
सर्वसङ्कल्पसन्न्यासी
योगारूढस्तदोच्यते
5
▾
Meaning
Keep
उद्धरेदात्मनाऽऽत्मानं
नाऽऽत्मानमवसादयेत्
आत्मैव
ह्यात्मनो
बन्धुरात्मैव
रिपुरात्मनः
6
▾
Meaning
Keep
बन्धुरात्माऽऽत्मनस्तस्य
येनाऽऽत्मैवाऽऽत्मना
जितः
अनात्मनस्तु
शत्रुत्वे
वर्तेताऽऽत्मैव
शत्रुवत्
7
▾
Meaning
Keep
जितात्मनः
प्रशान्तस्य
परमात्मा
समाहितः
शीतोष्णसुखदुःखेषु
तथा
मानापमानयोः
8
▾
Meaning
Keep
ज्ञानविज्ञानतृप्तात्मा
कूटस्थो
विजितेन्द्रियः
युक्त
इत्युच्यते
योगी
समलोष्टाश्मकाञ्चनः
9
▾
Meaning
Keep
सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु
साधुष्वपि
च
पापेषु
समबुद्धिर्विशिष्यते
10
▾
Meaning
Keep
योगी
युञ्जीत
सततमात्मानं
रहसि
स्थितः
एकाकी
यतचित्तात्मा
निराशीरपरिग्रहः
11
▾
Meaning
Keep
शुचौ
देशे
प्रतिष्ठाप्य
स्थिरमासनमात्मनः
नात्युच्छ्रितं
नातिनीचं
चैलाजिनकुशोत्तरम्
12
▾
Meaning
Keep
तत्रैकाग्रं
मनः
कृत्वा
यतचित्तेन्द्रियक्रियः
उपविश्याऽऽसने
युञ्ज्याद्
योगमात्मविशुद्धये
13
▾
Meaning
Keep
समं
कायशिरोग्रीवं
धारयन्नचलं
स्थिरः
सम्प्रेक्ष्य
नासिकाग्रं
स्वं
दिशश्चानवलोकयन्
14
▾
Meaning
Keep
प्रशान्तात्मा
विगतभीर्ब्रह्मचारिव्रते
स्थितः
मनः
संयम्य
मच्चित्तो
युक्त
आसीत
मत्परः
15
▾
Meaning
Keep
युञ्जन्नेवं
सदाऽऽत्मानं
योगी
नियतमानसः
शान्तिं
निर्वाणपरमां
मत्संस्थामधिगच्छति
16
▾
Meaning
Keep
नात्यश्नतस्तु
योगोऽस्ति
न
चैकान्तमनश्नतः
न
चातिस्वप्नशीलस्य
जाग्रतो
नैव
चार्जुन
17
▾
Meaning
Keep
युक्ताहारविहारस्य
युक्तचेष्टस्य
कर्मसु
युक्तस्वप्नावबोधस्य
योगो
भवति
दुःखहा
18
▾
Meaning
Keep
यदा
विनियतं
चित्तमात्मन्येवावतिष्ठते
निःस्पृहः
सर्वकामेभ्यो
युक्त
इत्युच्यते
तदा
19
▾
Meaning
Keep
यथा
दीपो
निवातस्थो
नेङ्गते
सोपमा
स्मृता
योगिनो
यतचित्तस्य
युञ्जतो
योगमात्मनः
20
▾
Meaning
Keep
यत्रोपरमते
चित्तं
निरुद्धं
योगसेवया
यत्र
चैवाऽऽत्मनाऽऽत्मानं
पश्यन्नात्मनि
तुष्यति
21
▾
Meaning
Keep
सुखमात्यन्तिकं
यत्
तद्
बुद्धिग्राह्यमतीन्द्रियम्
वेत्ति
यत्र
न
चैवायं
स्थितश्चलति
तत्त्वतः
22
▾
Meaning
Keep
यं
लब्ध्वा
चापरं
लाभं
मन्यते
नाधिकं
ततः
यस्मिन्
स्थितो
न
दुःखेन
गुरुणाऽपि
विचाल्यते
23
▾
Meaning
Keep
तं
विद्याद्
दुःखसंयोगवियोगं
योगसंज्ञितम्
स
निश्चयेन
योक्तव्यो
योगोऽनिर्विण्णचेतसा
24
▾
Meaning
Keep
सङ्कल्पप्रभवान्
कामांस्त्यक्त्वा
सर्वानशेषतः
मनसैवेन्द्रियग्रामं
विनियम्य
समन्ततः
25
▾
Meaning
Keep
शनैः
शनैरुपरमेद्
बुद्ध्या
धृतिगृहीतया
आत्मसंस्थं
मनः
कृत्वा
न
किञ्चिदपि
चिन्तयेत्
26
▾
Meaning
Keep
यतो
यतो
निश्चरति
मनश्चञ्चलमस्थिरम्
ततस्ततो
नियम्यैतदात्मन्येव
वशं
नयेत्
27
▾
Meaning
Keep
प्रशान्तमनसं
ह्येनं
योगिनं
सुखमुत्तमम्
उपैति
शान्तरजसं
ब्रह्मभूतमकल्मषम्
28
▾
Meaning
Keep
युञ्जन्नेवं
सदाऽऽत्मानं
योगी
विगतकल्मषः
सुखेन
ब्रह्मसंस्पर्शमत्यन्तं
सुखमश्नुते
29
▾
Meaning
Keep
सर्वभूतस्थमात्मानं
सर्वभूतानि
चाऽऽत्मनि
ईक्षते
योगयुक्तात्मा
सर्वत्र
समदर्शनः
30
▾
Meaning
Keep
यो
मां
पश्यति
सर्वत्र
सर्वं
च
मयि
पश्यति
तस्याहं
न
प्रणश्यामि
स
च
मे
न
प्रणश्यति
31
▾
Meaning
Keep
सर्वभूतस्थितं
यो
मां
भजत्येकत्वमास्थितः
सर्वथा
वर्तमानोऽपि
स
योगी
मयि
वर्तते
32
▾
Meaning
Keep
आत्मौपम्येन
सर्वत्र
समं
पश्यति
योऽर्जुन
सुखं
वा
यदि
वा
दुःखं
स
योगी
परमो
मतः
33
▾
Meaning
Keep
योऽयं
योगस्त्वया
प्रोक्तः
साम्येन
मधुसूदन
एतस्याहं
न
पश्यामि
चञ्चलत्वात्
स्थितिं
स्थिराम्
34
▾
Meaning
Keep
चञ्चलं
हि
मनः
कृष्ण
प्रमाथि
बलवद्
दृढम्
तस्याहं
निग्रहं
मन्ये
वायोरिव
सुदुष्करम्
35
▾
Meaning
Keep
असंशयं
महाबाहो
मनो
दुर्निग्रहं
चलम्
अभ्यासेन
तु
कौन्तेय
वैराग्येण
च
गृह्यते
36
▾
Meaning
Keep
असंयतात्मना
योगो
दुष्प्राप
इति
मे
मतिः
वश्यात्मना
तु
यतता
शक्योऽवाप्तुमुपायतः
37
▾
Meaning
Keep
अयतिः
श्रद्धयोपेतो
योगाच्चलितमानसः
अप्राप्य
योगसंसिद्धिं
कां
गतिं
कृष्ण
गच्छति
38
▾
Meaning
Keep
कच्चिन्नोभयविभ्रष्टश्छिन्नाभ्रमिव
नश्यति
अप्रतिष्ठो
महाबाहो
विमूढो
ब्रह्मणः
पथि
39
▾
Meaning
Keep
एतन्मे
संशयं
कृष्ण
छेत्तुमर्हस्यशेषतः
त्वदन्यः
संशयस्यास्य
छेत्ता
न
ह्युपपद्यते
40
▾
Meaning
Keep
पार्थ
नैवेह
नामुत्र
विनाशस्तस्य
विद्यते
न
हि
कल्याणकृत्
कश्चिद्
दुर्गतिं
तात
गच्छति
41
▾
Meaning
Keep
प्राप्य
पुण्यकृतां
लोकानुषित्वा
शाश्वतीः
समाः
शुचीनां
श्रीमतां
गेहे
योगभ्रष्टोऽभिजायते
42
▾
Meaning
Keep
अथवा
योगिनामेव
कुले
भवति
धीमताम्
एतद्धि
दुर्लभतरं
लोके
जन्म
यदीदृशम्
43
▾
Meaning
Keep
तत्र
तं
बुद्धिसंयोगं
लभते
पौर्वदेहिकम्
यतते
च
ततो
भूयः
संसिद्धौ
कुरुनन्दन
44
▾
Meaning
Keep
पूर्वाभ्यासेन
तेनैव
ह्रियते
ह्यवशोऽपि
सः
जिज्ञासुरपि
योगस्य
शब्दब्रह्मातिवर्तते
45
▾
Meaning
Keep
प्रयत्नाद्
यतमानस्तु
योगी
संशुद्धकिल्बिषः
अनेकजन्मसंसिद्धस्ततो
याति
परां
गतिम्
46
▾
Meaning
Keep
तपस्विभ्योऽधिको
योगी
ज्ञानिभ्योऽपि
मतोऽधिकः
कर्मिभ्यश्चाधिको
योगी
तस्माद्
योगी
भवार्जुन
47
▾
Meaning
Keep
योगिनामपि
सर्वेषां
मद्गतेनान्तरात्मना
श्रद्धावान्
भजते
यो
मां
स
मे
युक्ततमो
मतः
Previous
←
Karmasannyāsayogaḥ
Next
Jñānavijñānayogaḥ
→