Contents
Philosophy & Practice
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhagavad Gītā · Jñānavijñānayogaḥ
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
▾
Meaning
Keep
मय्यासक्तमनाः
पार्थ
योगं
युञ्जन्मदाश्रयः
असंशयं
समग्रं
मां
यथा
ज्ञास्यसि
तच्छृणु
2
▾
Meaning
Keep
ज्ञानं
तेऽहं
सविज्ञानमिदं
वक्ष्याम्यशेषतः
यज्ज्ञात्वा
नेह
भूयोऽन्यज्ज्ञातव्यमवशिष्यते
3
▾
Meaning
Keep
मनुष्याणां
सहस्रेषु
कश्चिद्
यतति
सिद्धये
यततामपि
सिद्धानां
कश्चिन्मां
वेत्ति
तत्त्वतः
4
▾
Meaning
Keep
भूमिरापोऽनलो
वायुः
खं
मनो
बुद्धिरेव
च
अहङ्कार
इतीयं
मे
भिन्ना
प्रकृतिरष्टधा
5
▾
Meaning
Keep
अपरेयमितस्त्वन्यां
प्रकृतिं
विद्धि
मे
पराम्
जीवभूतां
महाबाहो
ययेदं
धार्यते
जगत्
6
▾
Meaning
Keep
एतद्योनीनि
भूतानि
सर्वाणीत्युपधारय
अहं
कृत्स्नस्य
जगतः
प्रभवः
प्रलयस्तथा
7
▾
Meaning
Keep
मत्तः
परतरं
नान्यत्
किञ्चिदस्ति
धनञ्जय
मयि
सर्वमिदं
प्रोतं
सूत्रे
मणिगणा
इव
8
▾
Meaning
Keep
रसोऽहमप्सु
कौन्तेय
प्रभाऽस्मि
शशिसूर्ययोः
प्रणवः
सर्ववेदेषु
शब्दः
खे
पौरुषं
नृषु
9
▾
Meaning
Keep
पुण्यो
गन्धः
पृथिव्यां
च
तेजश्चास्मि
विभावसौ
जीवनं
सर्वभूतेषु
तपश्चास्मि
तपस्विषु
10
▾
Meaning
Keep
बीजं
मां
सर्वभूतानां
विद्धि
पार्थ
सनातनम्
बुद्धिर्बुद्धिमतामस्मि
तेजस्तेजस्विनामहम्
11
▾
Meaning
Keep
बलं
बलवतां
चाहं
कामरागविवर्जितम्
धर्माविरुद्धो
भूतेषु
कामोऽस्मि
भरतर्षभ
12
▾
Meaning
Keep
ये
चैव
सात्त्विका
भावा
राजसास्तामसाश्च
ये
मत्त
एवेति
तान्
विद्धि
न
त्वहं
तेषु
ते
मयि
13
▾
Meaning
Keep
त्रिभिर्गुणमयैर्भावैरेभिः सर्वमिदं जगत्
मोहितं नाभिजानाति मामेभ्यः परमव्ययम्
14
▾
Meaning
Keep
दैवी
ह्येषा
गुणमयी
मम
माया
दुरत्यया
मामेव
ये
प्रपद्यन्ते
मायामेतां
तरन्ति
ते
15
▾
Meaning
Keep
न
मां
दुष्कृतिनो
मूढाः
प्रपद्यन्ते
नराधमाः
माययाऽपहृतज्ञाना
आसुरं
भावमाश्रिताः
16
▾
Meaning
Keep
चतुर्विधा
भजन्ते
मां
जनाः
सुकृतिनोऽर्जुन
आर्तो
जिज्ञासुरर्थार्थी
ज्ञानी
च
भरतर्षभ
17
▾
Meaning
Keep
तेषां
ज्ञानी
नित्ययुक्त
एकभक्तिर्विशिष्यते
प्रियो
हि
ज्ञानिनोऽत्यर्थमहं
स
च
मम
प्रियः
18
▾
Meaning
Keep
उदाराः
सर्व
एवैते
ज्ञानी
त्वात्मैव
मे
मतम्
आस्थितः
स
हि
युक्तात्मा
मामेवानुत्तमां
गतिम्
19
▾
Meaning
Keep
बहूनां
जन्मनामन्ते
ज्ञानवान्
मां
प्रपद्यते
वासुदेवः
सर्वमिति
स
महात्मा
सुदुर्लभः
20
▾
Meaning
Keep
कामैस्तैस्तैर्हृतज्ञानाः प्रपद्यन्तेऽन्यदेवताः
तं तं नियममास्थाय प्रकृत्या नियताः स्वया
21
▾
Meaning
Keep
यो
यो
यां
यां
तनुं
भक्तः
श्रद्धयाऽर्चितुमिच्छति
तस्य
तस्याचलां
श्रद्धां
तामेव
विदधाम्यहम्
22
▾
Meaning
Keep
स
तया
श्रद्धया
युक्तस्तस्या
राधनमीहते
लभते
च
ततः
कामान्
मयैव
विहितान्
हि
तान्
23
▾
Meaning
Keep
अन्तवत्
तु
फलं
तेषां
तद्
भवत्यल्पमेधसाम्
देवान्
देवयजो
यान्ति
मद्भक्ता
यान्ति
मामपि
24
▾
Meaning
Keep
अव्यक्तं
व्यक्तिमापन्नं
मन्यन्ते
मामबुद्धयः
परं
भावमजानन्तो
ममाव्ययमनुत्तमम्
25
▾
Meaning
Keep
नाहं
प्रकाशः
सर्वस्य
योगमायासमावृतः
मूढोऽयं
नाभिजानाति
लोको
मामजमव्ययम्
26
▾
Meaning
Keep
वेदाहं
समतीतानि
वर्तमानानि
चार्जुन
भविष्याणि
च
भूतानि
मां
तु
वेद
न
कश्चन
27
▾
Meaning
Keep
इच्छाद्वेषसमुत्थेन
द्वन्द्वमोहेन
भारत
सर्वभूतानि
सम्मोहं
सर्गे
यान्ति
परन्तप
28
▾
Meaning
Keep
येषां
त्वन्तगतं
पापं
जनानां
पुण्यकर्मणाम्
ते
द्वन्द्वमोहनिर्मुक्ता
भजन्ते
मां
दृढव्रताः
29
▾
Meaning
Keep
जरामरणमोक्षाय
मामाश्रित्य
यतन्ति
ये
ते
ब्रह्म
तद्
विदुः
कृत्स्नमध्यात्मं
कर्म
चाखिलम्
30
▾
Meaning
Keep
साधिभूताधिदैवं
मां
साधियज्ञं
च
ये
विदुः
प्रयाणकालेऽपि
च
मां
ते
विदुर्युक्तचेतसः
Previous
←
Ātmasaṃyamayogaḥ
Next
Akṣarabrahmayogaḥ
→