Contents
Philosophy & Practice
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhagavad Gītā · Akṣarabrahmayogaḥ
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
▾
Meaning
Keep
किं
तद्
ब्रह्म
किमध्यात्मं
किं
कर्म
पुरुषोत्तम
अधिभूतं
च
किं
प्रोक्तमधिदैवं
किमुच्यते
2
▾
Meaning
Keep
अधियज्ञः
कथं
कोऽत्र
देहेऽस्मिन्
मधुसूदन
प्रयाणकाले
च
कथं
ज्ञेयोऽसि
नियतात्मभिः
3
▾
Meaning
Keep
अक्षरं
ब्रह्म
परमं
स्वभावोऽध्यात्ममुच्यते
भूतभावोद्भवकरो
विसर्गः
कर्मसंज्ञितः
4
▾
Meaning
Keep
अधिभूतं
क्षरो
भावः
पुरुषश्चाधिदैवतम्
अधियज्ञोऽहमेवात्र
देहे
देहभृतां
वर
5
▾
Meaning
Keep
अन्तकाले
च
मामेव
स्मरन्
मुक्त्वा
कलेवरम्
यः
प्रयाति
स
मद्भावं
याति
नास्त्यत्र
संशयः
6
▾
Meaning
Keep
यं
यं
वाऽपि
स्मरन्
भावं
त्यजत्यन्ते
कलेवरम्
तं
तमेवैति
कौन्तेय
सदा
तद्भावभावितः
7
▾
Meaning
Keep
तस्मात्
सर्वेषु
कालेषु
मामनुस्मर
युध्य
च
मय्यर्पितमनोबुद्धिर्मामेवैष्यस्यसंशयः
8
▾
Meaning
Keep
अभ्यासयोगयुक्तेन
चेतसा
नान्यगामिना
परमं
पुरुषं
दिव्यं
याति
पार्थानुचिन्तयन्
9
▾
Meaning
Keep
कविं
पुराणम्
अनुशासितारम्
अणोरणीयांसम्
अनुस्मरेद्
यः
सर्वस्य
धातारम्
अचिन्त्यरूपम्
आदित्यवर्णं
तमसः
परस्तात्
10
▾
Meaning
Keep
प्रयाणकाले
मनसाऽचलेन
भक्त्या
युक्तो
योगबलेन
चैव
भ्रुवोर्मध्ये
प्राणमावेश्य
सम्यक्
स
तं
परं
पुरुषमुपैति
दिव्यम्
11
▾
Meaning
Keep
यदक्षरं
वेदविदो
वदन्ति
विशन्ति
यद्
यतयो
वीतरागाः
यदिच्छन्तो
ब्रह्मचर्यं
चरन्ति
तत्
ते
पदं
सङ्ग्रहेण
प्रवक्ष्ये
12
▾
Meaning
Keep
सर्वद्वाराणि
संयम्य
मनो
हृदि
निरुध्य
च
मूर्ध्न्याधायाऽऽत्मनः
प्राणमास्थितो
योगधारणाम्
13
▾
Meaning
Keep
ओमित्येकाक्षरं
ब्रह्म
व्याहरन्
मामनुस्मरन्
यः
प्रयाति
त्यजन्
देहं
स
याति
परमां
गतिम्
14
▾
Meaning
Keep
अनन्यचेताः
सततं
यो
मां
स्मरति
नित्यशः
तस्याहं
सुलभः
पार्थ
नित्ययुक्तस्य
योगिनः
15
▾
Meaning
Keep
मामुपेत्य
पुनर्जन्म
दुःखालयमशाश्वतम्
नाऽऽप्नुवन्ति
महात्मानः
संसिद्धिं
परमां
गताः
16
▾
Meaning
Keep
आब्रह्मभुवनाल्लोकाः
पुनरावर्तिनोऽर्जुन
मामुपेत्य
तु
कौन्तेय
पुनर्जन्म
न
विद्यते
17
▾
Meaning
Keep
सहस्रयुगपर्यन्तमहर्यद्
ब्रह्मणो
विदुः
रात्रिं
युगसहस्रान्तां
तेऽहोरात्रविदो
जनाः
18
▾
Meaning
Keep
अव्यक्ताद्
व्यक्तयः
सर्वाः
प्रभवन्त्यहरागमे
रात्र्यागमे
प्रलीयन्ते
तत्रैवाव्यक्तसंज्ञके
19
▾
Meaning
Keep
भूतग्रामः
स
एवायं
भूत्वा
भूत्वा
प्रलीयते
रात्र्यागमेऽवशः
पार्थ
प्रभवत्यहरागमे
20
▾
Meaning
Keep
परस्तस्मात्
तु
भावोऽन्योऽव्यक्तोऽव्यक्तात्
सनातनः
यः
स
सर्वेषु
भूतेषु
नश्यत्सु
न
विनश्यति
21
▾
Meaning
Keep
अव्यक्तोऽक्षर
इत्युक्तस्तमाहुः
परमां
गतिम्
यं
प्राप्य
न
निवर्तन्ते
तद्
धाम
परमं
मम
22
▾
Meaning
Keep
पुरुषः
स
परः
पार्थ
भक्त्या
लभ्यस्त्वनन्यया
यस्यान्तःस्थानि
भूतानि
येन
सर्वमिदं
ततम्
23
▾
Meaning
Keep
यत्र
काले
त्वनावृत्तिमावृत्तिं
चैव
योगिनः
प्रयाता
यान्ति
तं
कालं
वक्ष्यामि
भरतर्षभ
24
▾
Meaning
Keep
अग्निर्ज्योतिरहः
शुक्लः
षण्मासा
उत्तरायणम्
तत्र
प्रयाता
गच्छन्ति
ब्रह्म
ब्रह्मविदो
जनाः
25
▾
Meaning
Keep
धूमो
रात्रिस्तथा
कृष्णः
षण्मासा
दक्षिणायनम्
तत्र
चान्द्रमसं
ज्योतिर्योगी
प्राप्य
निवर्तते
26
▾
Meaning
Keep
शुक्लकृष्णे
गती
ह्येते
जगतः
शाश्वते
मते
एकया
यात्यनावृत्तिमन्ययाऽऽवर्तते
पुनः
27
▾
Meaning
Keep
नैते
सृती
पार्थ
जानन्
योगी
मुह्यति
कश्चन
तस्मात्
सर्वेषु
कालेषु
योगयुक्तो
भवार्जुन
28
▾
Meaning
Keep
वेदेषु
यज्ञेषु
तपःसु
चैव
दानेषु
यत्
पुण्यफलं
प्रदिष्टम्
अत्येति
तत्
सर्वमिदं
विदित्वा
योगी
परं
स्थानमुपैति
चाऽऽद्यम्
Previous
←
Jñānavijñānayogaḥ
Next
Rājavidyārājaguhyayogaḥ
→