Contents
Philosophy & Practice
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhagavad Gītā · Rājavidyārājaguhyayogaḥ
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
▾
Meaning
Keep
इदं
तु
ते
गुह्यतमं
प्रवक्ष्याम्यनसूयवे
ज्ञानं
विज्ञानसहितं
यज्ज्ञात्वा
मोक्ष्यसेऽशुभात्
2
▾
Meaning
Keep
राजविद्या
राजगुह्यं
पवित्रमिदमुत्तमम्
प्रत्यक्षावगमं
धर्म्यं
सुसुखं
कर्तुमव्ययम्
3
▾
Meaning
Keep
अश्रद्दधानाः
पुरुषा
धर्मस्यास्य
परन्तप
अप्राप्य
मां
निवर्तन्ते
मृत्युसंसारवर्त्मनि
4
▾
Meaning
Keep
मया
ततमिदं
सर्वं
जगदव्यक्तमूर्तिना
मत्स्थानि
सर्वभूतानि
न
चाहं
तेष्ववस्थितः
5
▾
Meaning
Keep
न
च
मत्स्थानि
भूतानि
पश्य
मे
योगमैश्वरम्
भूतभृन्न
च
भूतस्थो
ममाऽऽत्मा
भूतभावनः
6
▾
Meaning
Keep
यथाऽऽकाशस्थितो
नित्यं
वायुः
सर्वत्रगो
महान्
तथा
सर्वाणि
भूतानि
मत्स्थानीत्युपधारय
7
▾
Meaning
Keep
सर्वभूतानि
कौन्तेय
प्रकृतिं
यान्ति
मामिकाम्
कल्पक्षये
पुनस्तानि
कल्पादौ
विसृजाम्यहम्
8
▾
Meaning
Keep
प्रकृतिं
स्वामवष्टभ्य
विसृजामि
पुनः
पुनः
भूतग्राममिमं
कृत्स्नमवशं
प्रकृतेर्वशात्
9
▾
Meaning
Keep
न
च
मां
तानि
कर्माणि
निबध्नन्ति
धनञ्जय
उदासीनवदासीनमसक्तं
तेषु
कर्मसु
10
▾
Meaning
Keep
मयाऽध्यक्षेण
प्रकृतिः
सूयते
सचराचरम्
हेतुनाऽनेन
कौन्तेय
जगद्
विपरिवर्तते
11
▾
Meaning
Keep
अवजानन्ति
मां
मूढा
मानुषीं
तनुमाश्रितम्
परं
भावमजानन्तो
मम
भूतमहेश्वरम्
12
▾
Meaning
Keep
मोघाशा
मोघकर्माणो
मोघज्ञाना
विचेतसः
राक्षसीमासुरीं
चैव
प्रकृतिं
मोहिनीं
श्रिताः
13
▾
Meaning
Keep
महात्मानस्तु
मां
पार्थ
दैवीं
प्रकृतिमाश्रिताः
भजन्त्यनन्यमनसो
ज्ञात्वा
भूतादिमव्ययम्
14
▾
Meaning
Keep
सततं
कीर्तयन्तो
मां
यतन्तश्च
दृढव्रताः
नमस्यन्तश्च
मां
भक्त्या
नित्ययुक्ता
उपासते
15
▾
Meaning
Keep
ज्ञानयज्ञेन
चाप्यन्ये
यजन्तो
मामुपासते
एकत्वेन
पृथक्त्वेन
बहुधा
विश्वतोमुखम्
16
▾
Meaning
Keep
अहं
क्रतुरहं
यज्ञः
स्वधाऽहमहमौषधम्
मन्त्रोऽहमहमेवाऽऽज्यमहमग्निरहं
हुतम्
17
▾
Meaning
Keep
पिताऽहमस्य
जगतो
माता
धाता
पितामहः
वेद्यं
पवित्रमोङ्कार
ऋक्
साम
यजुरेव
च
18
▾
Meaning
Keep
गतिर्भर्ता
प्रभुः
साक्षी
निवासः
शरणं
सुहृत्
प्रभवः
प्रलयः
स्थानं
निधानं
बीजमव्ययम्
19
▾
Meaning
Keep
तपाम्यहमहं
वर्षं
निगृह्णाम्युत्सृजामि
च
अमृतं
चैव
मृत्युश्च
सदसच्चाहमर्जुन
20
▾
Meaning
Keep
त्रैविद्या
मां
सोमपाः
पूतपापाः
यज्ञैरिष्ट्वा
स्वर्गतिं
प्रार्थयन्ते
ते
पुण्यमासाद्य
सुरेन्द्रलोकम्
अश्नन्ति
दिव्यान्
दिवि
देवभोगान्
21
▾
Meaning
Keep
ते
तं
भुक्त्वा
स्वर्गलोकं
विशालं
क्षीणे
पुण्ये
मर्त्यलोकं
विशन्ति
एवं
त्रयीधर्ममनुप्रपन्नाः
गतागतं
कामकामा
लभन्ते
22
▾
Meaning
Keep
अनन्याश्चिन्तयन्तो
मां
ये
जनाः
पर्युपासते
तेषां
नित्याभियुक्तानां
योगक्षेमं
वहाम्यहम्
23
▾
Meaning
Keep
येऽप्यन्यदेवताभक्ता
यजन्ते
श्रद्धयाऽन्विताः
तेऽपि
मामेव
कौन्तेय
यजन्त्यविधिपूर्वकम्
24
▾
Meaning
Keep
अहं
हि
सर्वयज्ञानां
भोक्ता
च
प्रभुरेव
च
न
तु
मामभिजानन्ति
तत्त्वेनातश्च्यवन्ति
ते
25
▾
Meaning
Keep
यान्ति
देवव्रता
देवान्
पितॄन्
यान्ति
पितृव्रताः
भूतानि
यान्ति
भूतेज्या
यान्ति
मद्याजिनोऽपि
माम्
26
▾
Meaning
Keep
पत्रं
पुष्पं
फलं
तोयं
यो
मे
भक्त्या
प्रयच्छति
तदहं
भक्त्युपहृतमश्नामि
प्रयतात्मनः
27
▾
Meaning
Keep
यत्
करोषि
यदश्नासि
यज्जुहोषि
ददासि
यत्
यत्
तपस्यसि
कौन्तेय
तत्
कुरुष्व
मदर्पणम्
28
▾
Meaning
Keep
शुभाशुभफलैरेवं
मोक्ष्यसे
कर्मबन्धनैः
सन्न्यासयोगयुक्तात्मा
विमुक्तो
मामुपैष्यसि
29
▾
Meaning
Keep
समोऽहं
सर्वभूतेषु
न
मे
द्वेष्योऽस्ति
न
प्रियः
ये
भजन्ति
तु
मां
भक्त्या
मयि
ते
तेषु
चाप्यहम्
30
▾
Meaning
Keep
अपि
चेत्
सुदुराचारो
भजते
मामनन्यभाक्
साधुरेव
स
मन्तव्यः
सम्यग्
व्यवसितो
हि
सः
31
▾
Meaning
Keep
क्षिप्रं
भवति
धर्मात्मा
शश्वच्छान्तिं
निगच्छति
कौन्तेय
प्रतिजानीहि
न
मे
भक्तः
प्रणश्यति
32
▾
Meaning
Keep
मां
हि
पार्थ
व्यपाश्रित्य
येऽपि
स्युः
पापयोनयः
स्त्रियो
वैश्यास्तथा
शूद्रास्तेऽपि
यान्ति
परां
गतिम्
33
▾
Meaning
Keep
किं
पुनर्ब्राह्मणाः
पुण्या
भक्ता
राजर्षयस्तथा
अनित्यमसुखं
लोकमिमं
प्राप्य
भजस्व
माम्
34
▾
Meaning
Keep
मन्मना
भव
मद्भक्तो
मद्याजी
मां
नमस्कुरु
मामेवैष्यसि
युक्त्वैवमात्मानं
मत्परायणः
Previous
←
Akṣarabrahmayogaḥ
Next
Vibhūtiyogaḥ
→