Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Adhyātma Rāmāyaṇa · The Secret of Rāma's Heart
Adhyātma Rāmāyaṇa
›
Kāṇḍa 1
Bāla
Sanskrit
Malayalam
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
▾
Meaning
Keep
यः
पृथिवीभरवारणाय
दिविजैः
सम्प्रार्थितश्चिन्मयः
सञ्जातः
पृथिवीतले
रविकुले
मायामनुष्योऽव्ययः
।
निश्चक्रं
हतराक्षसः
पुनरगाद्
ब्रह्मत्वमाद्यं
स्थिरां
कीर्तिं
पापहरां
विधाय
जगतां
तं
जानकीशं
भजे
॥
2
▾
Meaning
Keep
विश्वोद्भवस्थितिलयादिषु
हेतुमेकं
मायाश्रयं
विगतमायमचिन्त्यमूर्तिम्
।
आनन्दसान्द्रममलं
निजबोधरूपं
सीतापतिं
विदिततत्त्वमहं
नमामि
॥
3
▾
Meaning
Keep
पठन्ति
ये
नित्यमनन्यचेतसः
शृण्वन्ति
चाध्यात्मिकसञ्ज्ञितं
शुभम्
।
रामायणं
सर्वपुराणसंमतं
निर्धूतपापा
हरिमेव
यान्ति
ते
॥
4
▾
Meaning
Keep
अध्यात्मरामायणमेव
नित्यं
पठेद्यदीच्छेद्भवबन्धमुक्तिम्
।
गवां
सहस्रायुतकोटिदानात्
फलं
लभेद्यः
शृणुयात्स
नित्यम्
॥
5
▾
Meaning
Keep
पुरारिगिरिसम्भूता
श्रीरामार्णवसङ्गता
।
अध्यात्मरामगङ्गेयं
पुनाति
भुवनत्रयम्
॥
6
▾
Meaning
Keep
कैलासाग्रे
कदाचिद्रविशतविमले
मन्दिरे
रत्नपीठे
संविष्टं
ध्याननिष्ठं
त्रिनयनमभयं
सेवितं
सिद्धसन्घैः
।
देवी
वामाङ्कसंस्था
गिरिवरतनया
पार्वती
भक्तिनम्रा
प्राहेदं
देवमीशं
सकलमलहरं
वाक्यमानन्दकन्दम्
॥
7
▾
Meaning
Keep
पार्वत्युवाच
नमोऽस्तु
ते
देव
जगन्निवास
सर्वात्मदृक्
त्वं
परमेश्वरोऽसि
।
पृच्छामि
तत्त्वं
पुरुषोत्तमस्य
सनातनं
त्वं
च
सनातनोऽसि
॥
8
▾
Meaning
Keep
गोप्यं
यदत्यन्तमनन्यवाच्यं
वदन्ति
भक्तेषु
महानुभावाः
।
तदप्यहोऽहं
तव
देव
भक्ता
प्रियोऽसि
मे
त्वं
वद
यत्तु
पृष्टम्
॥
9
▾
Meaning
Keep
ज्ञानं
सविज्ञानमथानुभक्तिवैराग्ययुक्तं
च
मितं
विभास्वत्
।
जानाम्यहं
योषिदपि
त्वदुक्तं
यथा
तथा
ब्रूहि
तरन्ति
येन
॥
10
▾
Meaning
Keep
पृच्छामि
चान्यच्च
परं
रहस्यं
तदेव
चाग्रे
वद
वारिजाक्ष
।
श्रीरामचन्द्रेऽखिललोकसारे
भक्तिर्दृढा
नौर्भवति
प्रसिद्धा
॥
11
▾
Meaning
Keep
भक्तिः
प्रसिद्धा
भवमोक्षणाय
नान्यत्ततः
साधनमस्ति
किञ्चित्
।
तथापि
हृत्संशयबन्धनं
मे
विभेत्तुमर्हस्यमलोक्तिभिस्त्वम्
॥
12
▾
Meaning
Keep
वदन्ति
रामं
परमेकमाद्यं
निरस्तमायागुणसम्प्रवाहम्
।
भजन्ति
चाहर्निशमप्रमत्ताः
परं
पदं
यान्ति
तथैव
सिद्धाः
॥
13
▾
Meaning
Keep
वदन्ति
केचित्परमोऽपि
रामः
स्वाविद्यया
संवृतमात्मसञ्ज्ञम्
।
जानाति
नात्मानमतः
परेण
सम्बोधितो
वेद
परात्मतत्त्वम्
॥
14
▾
Meaning
Keep
यदि
स्म
जानाति
कुतो
विलापः
सीताकृतेऽनेन
कृतः
परेण
।
जानाति
नैवं
यदि
केन
सेव्यः
समो
हि
सर्वैरपि
जीवजातैः
॥
15
▾
Meaning
Keep
अत्रोत्तरं
किं
विदितं
भवद्भिः
तद्ब्रूत
मे
संशयभेदि
वाक्यम्
॥
16
▾
Meaning
Keep
धन्यासि
भक्तासि
परात्मनस्त्वं
यज्ज्ञातुमिच्छा
तव
रामतत्त्वम्
।
पुरा
न
केनाप्यभिचोदितोऽहं
वक्तुं
रहस्यं
परमं
निगूढम्
॥
17
▾
Meaning
Keep
त्वयाद्य
भक्त्या
परिनोदितोऽहं
वक्ष्ये
नमस्कृत्य
रघूत्तमं
ते
।
रामः
परात्मा
प्रकृतेरनादि-
रानन्द
एकः
पुरुषोत्तमो
हि
॥
18
▾
Meaning
Keep
स्वमायया
कृत्स्नमिदं
हि
सृष्ट्वा
नभोवदन्तर्बहिरास्थितो
यः
।
सर्वान्तरस्थोऽपि
निगूढ
आत्मा
स्वमायया
सृष्टमिदं
विचष्टे
॥
19
▾
Meaning
Keep
जगन्ति
नित्यं
परितो
भ्रमन्ति
यत्सन्निधौ
चुम्बकलोहवद्धि
।
एतन्न
जानन्ति
विमूढचित्ताः
स्वाविद्यया
संवृतमानसा
ये
॥
20
▾
Meaning
Keep
स्वाज्ञानमप्यात्मनि
शुद्धबुद्धे
स्वारोपयन्तीह
निरस्तमाये
।
संसारमेवानुसरन्ति
ते
वै
पुत्रादिसक्ताः
पुरुकर्मयुक्ताः
॥
21
▾
Meaning
Keep
जानन्ति
नैवं
हृदये
स्थितं
वै
चामीकरं
कण्ठगतं
यथाज्ञाः
।
यथाऽप्रकाशो
न
तु
विद्यते
रवौ
ज्योतिःस्वभावे
परमेश्वरे
तथा
।
विशुद्धविज्ञानघने
रघूत्तमेऽविद्या
कथं
स्यात्परतः
परात्मनि
॥
22
▾
Meaning
Keep
यथा
हि
चाक्ष्णा
भ्रमता
गृहादिकं
विनष्टदृष्टेर्भ्रमतीव
दृश्यते
।
तथैव
देहेन्द्रियकर्तुरात्मनः
कृते
परेऽध्यस्य
जनो
विमुह्यति
॥
23
▾
Meaning
Keep
नाहो
न
रात्रिः
सवितुर्यथा
भवेत्
प्रकाशरूपाव्यभिचारतः
क्वचित्
।
ज्ञानं
तथाज्ञानमिदं
द्वयं
हरौ
रामे
कथं
स्थास्यति
शुद्धचिद्घने
॥
24
▾
Meaning
Keep
तस्मात्परानन्दमये
रघूत्तमे
विज्ञानरूपे
हि
न
विद्यते
तमः
।
अज्ञानसाक्षिण्यरविन्दलोचने
मायाश्रयत्वान्न
हि
मोहकारणम्
॥
25
▾
Meaning
Keep
अत्र
ते
कथयिष्यामि
रहस्यमपि
दुर्लभम्
।
सीताराममरुत्सूनुसंवादं
मोक्षसाधनम्
॥
26
▾
Meaning
Keep
पुरा
रामायणे
रामे
रावणं
देवकण्टकम्
।
हत्वा
रणे
रणश्लाघी
सपुत्रबलवाहनम्
॥
27
▾
Meaning
Keep
सीतया
सह
सुग्रीवलक्ष्मणाभ्यां
समन्वितः
।
अयोध्यामगमद्रामो
हनूमत्प्रमुखैर्वृतः
॥
28
▾
Meaning
Keep
अभिषिक्तः
परिवृतो
वसिष्ठाद्यैर्महात्मभिः
।
सिंहासने
समासीनः
कोटिसूर्यसमप्रभः
॥
29
▾
Meaning
Keep
दृष्ट्वा
तदा
हनूमन्तं
प्राञ्जलिं
पुरतः
स्थितम्
।
कृतकार्यं
निराकाङ्क्षं
ज्ञानापेक्षं
महामतिम्
॥
30
▾
Meaning
Keep
रामः
सीतामुवाचेदं
ब्रूहि
तत्त्वं
हनूमते
।
निष्कल्मषोऽयं
ज्ञानस्य
पात्रं
नो
नित्यभक्तिमान्
॥
31
▾
Meaning
Keep
तथेति
जानकी
प्राह
तत्त्वं
रामस्य
निश्चितम्
।
हनूमते
प्रपन्नाय
सीता
लोकविमोहिनी
॥
32
▾
Meaning
Keep
सीतोवाच
रामं
विद्धि
परं
ब्रह्म
सच्चिदानन्दमद्वयम्
।
सर्वोपाधिविनिर्मुक्तं
सत्तामात्रमगोचरम्
॥
33
▾
Meaning
Keep
आनन्दं
निर्मलं
शान्तं
निर्विकारं
निरञ्जनम्
।
सर्वव्यापिनमात्मानं
स्वप्रकाशमकल्मषम्
॥
34
▾
Meaning
Keep
मां
विद्धि
मूलप्रकृतिं
सर्गस्थित्यन्तकारिणीम्
।
तस्य
सन्निधिमात्रेण
सृजामीदमतन्द्रिता
॥
35
▾
Meaning
Keep
तत्सान्निध्यान्मया
सृष्टं
तस्मिन्नारोप्यतेऽबुधैः
।
अयोध्यानगरे
जन्म
रघुवंशेऽतिनिर्मले
॥
36
▾
Meaning
Keep
विश्वामित्रसहायत्वं
मखसंरक्षणं
ततः
।
अहल्याशापशमनं
चापभङ्गो
महेशितुः
॥
37
▾
Meaning
Keep
मत्पाणिग्रहणं
पश्चाद्भार्गवस्य
मदक्षयः
।
अयोध्यानगरे
वासो
मया
द्वादशवार्षिकः
॥
38
▾
Meaning
Keep
दण्डकारण्यगमनं
विराधवध
एव
च
।
मायामारीचमरणं
मायासीताहृतिस्तथा
॥
39
▾
Meaning
Keep
जटायुषो
मोक्षलाभः
कबन्धस्य
तथैव
च
।
शबर्याः
पूजनं
पश्चात्सुग्रीवेण
समागमः
॥
40
▾
Meaning
Keep
वालिनश्च
वधः
पश्चात्सीतान्वेषणमेव
च
।
सेतुबन्धश्च
जलधौ
लङ्कायाश्च
निरोधनम्
॥
41
▾
Meaning
Keep
रावणस्य
वधो
युद्धे
सपुत्रस्य
दुरात्मनः
।
विभीषणे
राज्यदानं
पुष्पकेण
मया
सह
॥
42
▾
Meaning
Keep
अयोध्यागमनं
पश्चाद्राज्ये
रामाभिषेचनम्
।
एवमादीनि
कर्माणि
मयैवाचरितान्यपि
आरोपयन्ति
रामेऽस्मिन्निर्विकारेऽखिलात्मनि
॥
43
▾
Meaning
Keep
रामो
न
गच्छति
न
तिष्ठति
नानुशोचत्याकाङ्क्षते
त्यजति
नो
न
करोति
किञ्चित्
।
आनन्दमूर्तिरचलः
परिणामहीनो
मायागुणाननुगतो
हि
तथा
विभाति
॥
44
▾
Meaning
Keep
ततो
रामः
स्वयं
प्राह
हनूमन्तमुपस्थितम्
।
शृणु
तत्त्वं
प्रवक्ष्यामि
ह्यात्मानात्मपरात्मनाम्
॥
45
▾
Meaning
Keep
आकाशस्य
यथा
भेदस्त्रिविधो
दृश्यते
महान्
।
जलाशये
महाकाशस्तदवच्छिन्न
एव
हि
।
प्रतिबिम्बाख्यमपरं
दृश्यते
त्रिविधं
नभः
॥
46
▾
Meaning
Keep
बुद्ध्यवच्छिन्नचैतन्यमेकं
पूर्णमथापरम्
।
आभासस्त्वपरं
बिम्बभूतमेवं
त्रिधा
चितिः
॥
47
▾
Meaning
Keep
साभासबुद्धेः
कर्तृत्वमविच्छिन्नेऽविकारिणि
।
साक्षिण्यारोप्यते
भ्रान्त्या
जीवत्वं
च
तथा
बुधैः
॥
48
▾
Meaning
Keep
आभासस्तु
मृषा
बुद्धिरविद्याकार्यमुच्यते
।
अविच्छिन्नं
तु
तद्ब्रह्म
विच्छेदस्तु
विकल्पतः
॥
49
▾
Meaning
Keep
अविच्छिन्नस्य
पूर्णेन
एकत्वं
प्रतिपाद्यते
।
तत्त्वमस्यादिवाक्यैश्च
साभासस्याहमस्तथा
॥
50
▾
Meaning
Keep
ऐक्यज्ञानं
यदोत्पन्नं
महावाक्येन
चात्मनोः
।
तदाऽविद्या
स्वकार्यैश्च
नश्यत्येव
न
संशयः
॥
51
▾
Meaning
Keep
एतद्विज्ञाय
मद्भक्तो
मद्भावायोपपद्यते
।
मद्भक्तिविमुखानां
हि
शास्त्रगर्तेषु
मुह्यताम्
।
न
ज्ञानं
न
च
मोक्षः
स्यात्तेषां
जन्मशतैरपि
॥
52
▾
Meaning
Keep
इदं
रहस्यं
हृदयं
ममात्मनो
मयैव
साक्षात्कथितं
तवानघ
।
मद्भक्तिहीनाय
शठाय
न
त्वया
दातव्यमैन्द्रादपि
राज्यतोऽधिकम्
॥
53
▾
Meaning
Keep
एतत्तेऽभिहितं
देवि
श्रीरामहृदयं
मया
।
अतिगुह्यतमं
हृद्यं
पवित्रं
पापशोधनम्
॥
54
▾
Meaning
Keep
साक्षाद्रामेण
कथितं
सर्ववेदान्तसङ्ग्रहम्
।
यः
पठेत्सततं
भक्त्या
स
मुक्तो
नात्र
संशयः
॥
55
▾
Meaning
Keep
ब्रह्महत्यादि
पापानि
बहुजन्मार्जितान्यपि
।
नश्यन्त्येव
न
सन्देहो
रामस्य
वचनं
यथा
॥
56
▾
Meaning
Keep
योऽतिभ्रष्टोऽतिपापी
परधनपरदारेषु
नित्योद्यतो
वा
स्तेयी
ब्रह्मघ्नमातापितृवधनिरतो
योगिवृन्दापकारी
यः
सम्पूज्याभिरामं
पठति
च
हृदयं
रामचन्द्रस्य
भक्त्या
योगीन्द्रैरप्यलभ्यं
पदमिह
लभते
सर्वदेवैः
स
पूज्यम्
॥
Next
The Descent of Viṣṇu
→